द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 69, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ५१
शाकेषु सर्वे निवसन्ति रोगा
रोगो हि देहस्य विनाशहेतुः ।
तस्माद्बुधैः शाकविवर्जनं हि
कार्य्यं तथाम्लेषु स एव दोषः ॥ ३० ॥
इति शाकवर्गः ।
सैन्धवं दीपनं हृद्यं चक्षुष्यं रोचनं लघु ।
स्निग्धं वृष्यञ्च मधुरं शीतं दोषघ्नमुत्तमम् ॥ १ ॥
सामुद्रं मधुरं पाके नात्युष्णमविदाहि च ।
भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ॥ २॥
विडं सक्षारतीक्ष्णोष्णं सूक्ष्मं दीपनरोचनम् ।
शूलहृद्रोगशमनं रुचं वातानुलोमनम् ॥ ३ ॥
सौवर्चलन्तु वीर्य्योष्णं विशदं कटुकं लघु ।
गुल्मशूलविबन्धघ्नं हृद्यं सुरभि दीपनम् ॥ ४ ॥
सैन्धवादीनां व्यञ्जनसंस्कारकत्वात् शाकानन्तरं लवणादि-
वर्गमाह । अत्रापि लवणेषु सैन्धवस्य श्रेष्ठत्वात् प्रथमं तद्गुण-
माह सैन्धवमिति । अत्र मधुरमित्यनन्तरं चकारो योज्यः ।
तेनषण्मधुरत्वं बोध्यते चशब्दसमुचितत्वात् । दोषघ्नमिति
त्रिदोषहरम् । उत्तममिति लवणेषु श्रेष्ठम् । उक्तञ्च ।
त्रिदोषघ्नं समधुरं सैन्धवं लवणोत्तममिति ॥ १ ॥
दक्षिणसमुद्रे भवतीति सामुद्रं करकचलवणम् । २ ॥
विडं कृत्रिमं स्वनामख्यातम् । ३ ॥
६