द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
५० द्रव्यगुणः ।
मूलकपोतिका कण्ठ्या सर्वदोषहरी लघुः ।
कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी ॥७॥
महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत् ॥८॥
तदेव स्निग्धसिद्धन्तु वातनुत् कफपित्तकृत् ॥६॥
शुष्कन्तु शोथशमनं गरदोषहरं लघु ॥ १० ॥
तत्फलं कफवातघ्नं तत्पुष्पं कफपित्तजित् ॥११॥
हिलमोची तु कुष्ठघ्नी भेदनी कफपित्तनुत् ॥१२॥
उपोदिका सरा स्निग्धा वल्या श्लेष्मकरी हिमा ।
चिल्ली गौरवास्तूकः । क्षेत्रवास्तूक इत्यन्ये ॥ ६ ॥
मूलकस्य बालमहदामसिद्धशुष्कभेदेन गुणमाह मूलक-
पोतिकेति । मूलकपोतिका अतिबालमूलकम् । अत्र स्निग्ध-
सिद्धाया एव मूलकपोतिकायाः सर्वदोषहरत्वम् अन्यथा तु
दोषकृत्त्वम् यदाह मूलकगुणे वाग्भटः
वातश्लेष्महरं शुष्कं सर्वमामन्तु दोषलम् ।
इति । अत्र सर्वमिति बालं वृद्धञ्च । सर्वपदञ्च पूर्वेण
परेण च सम्बध्यते । तेन सर्वदोषहरस्यापि बालमूलकस्या-
मावस्थायां दोषलत्वं न तु वृद्धस्यैवेत्यरुणः ॥ ७ ॥
महतः परिणतस्य मूलकस्य गुणमाह महदिति । आम-
मित्यनग्निपक्वमिति निबन्धसंग्रहः ॥ ८ ॥
शुष्कमूलकगुणमाह शुष्कमिति । अस्य च वातकफहरत्वं
ज्ञेयम् । यदाह
बालं दोषहरं वृद्धं त्रिदोषं मारुतापहम् ।
स्निग्धसिद्धं विशुष्कन्तु मूलकं कफवातजित् ॥ १० ॥
मूलकफलपुष्पयोर्गुणमाह तत्फलमिति ॥ ११ ॥
˙द्रव्यगुणः। ५१
स्वादुपाकरसा हृद्या वातपित्तमदापहा ॥ १३ ॥
सुनिषण्णन्तु संग्राही अविदाहि त्रिदोषनुत् ॥१४॥
मारिषो मधुरः शीतो विष्टम्भी गुरुपित्तनुत् ॥१५॥
पालङ्गा बह्वविण्मूत्रा कफघ्नी तण्डुलीयवत्॥१६॥
कासमर्दोऽग्निदः कण्ठ्यः
स्वादुस्तिक्तस्त्रिदोषनुत् ॥१७॥
कालशाकं गरश्लेष्मशोथघ्नं दीपनं कटु ॥ १८ ॥
कलायपत्रं मधुरं रूक्षं भेदि च वातलम् ॥१९॥
सतीलकं त्रिदोषघ्नं कटुपाकं सतिक्तकम् ॥२०॥
सुनिषण्णकं सुसुनिया इति ख्यातम्। ब्रह्मदेवस्तु तल्ल-
क्षणमाह।
चाङ्गेरीसदृशैः पत्रैः सुनिषण्णं चतुर्दलम्।
शाको जलान्विते देशे चतुष्पत्रीति सूच्यते ॥ १४ ॥
तण्डुलीयवदित्यनेन मधुररसपाकत्वादिकमतिदिश्यति।
अस्याश्च कफहरत्वं रूक्षत्वादिप्रकर्षात् ॥ १६ ॥
अस्य च त्रिदोषहरत्वेऽपि विशेषात् पित्तहरत्वं बोध्यम्।
यदाह सुश्रुतः।
मधुरः कफवातघ्नः पाचनः कण्ठशोधनः।
विशेषतः पित्तहरः सतिक्तः कासमर्दक इति ॥ १७ ॥
कलायस्त्रिपुटकलायः। सतीलाख्यस्य वक्ष्यमाणत्वात् ॥१९॥
सतीलको वर्त्तुलकलायः। अस्य च त्रिदोषहरत्वेऽपि विशे-
षात् कफपित्तहरत्वं ज्ञेयम्।
कफपित्तहरं तिक्तं शीतं कटु विपच्यते।
५२ द्रव्यगुणः।
षाणकं दुर्जरं स्वादु कौसुम्भन्तु कफापहम् ॥२१॥
पुवर्नवायुग्ममुष्णावीर्य्यं रसायनं सरम् ।
कफानिलामदुर्नामव्रध्नशोथोदरापहम् ॥ २२ ॥
कञ्चटं तिक्तकं ग्राहि रक्तपित्तापहं स्मृतम् ॥२३॥
चाङ्गेरी तु कषायोष्णा मधुरा वह्निदीपनी ।
साम्ला वातकफौ हन्ति ग्रहण्यर्शीविकारनुत् ॥२४॥
चुक्रकं दुर्जरं भेदि अम्लं पित्तकरं गुरु ॥ २५ ॥
कलम्बिका गुरुर्वृष्या कषाया स्तन्यवृद्धिदा ॥२६॥
सार्षपं गुरु शाकञ्च बद्धमूत्रं त्रिदोषकृत् ॥ २७ ॥
ग्रीष्मसुन्दरकस्तिक्तो रोचनः कफपित्तनुत् ॥२८॥
नाड़ीचः पिच्छिलः शीतो विष्टम्भी वातकोपनः ।
रक्तपित्तहरः स्वादुर्मण्डूक्यद्याश्च तद्गुणाः ॥२६॥
पटोलपत्रं पित्तघ्नं नालं तस्य कफापहम् ।
फलं तस्य त्रिदोषघ्नं मूलं तस्य विरेचनम् ॥३०॥
निम्बः पित्तकफच्छर्दिव्रणहृल्लासकुष्ठनुत् ॥३१॥
पर्पटस्तु सवेत्राग्रस्तिक्तः पित्तकफापहः ॥ ३२ ॥
इति चरकसंवादात् ॥ २० ॥
स्वादिति । रसतः पाकतश्च । कफापहमिति कफहरम् ॥२१॥
चाङ्गेरीगुणे साम्लेति ईषदम्ला ॥ २४ ॥
मण्डूकी मण्डूकपर्णी मणिमणीतिख्याता । आदिशब्दाद्
गोजिह्वादीनां ग्रहणम् । गोजिह्वा दार्वीशाकः ॥ २६ ॥
द्रव्यगुणाः। ५३
त्रिदोषशमनी वृष्या काकमाची रसायनी।
नात्युष्णा शीतवीर्य्या च भेदनी कुष्ठनाशिनी ॥३३॥
वायुं वत्सादिनी हन्यात् पित्तघ्नी तु सुवर्चला ॥३४॥
राजक्षवकशाकन्तु त्रिदोषशमनं लघु ।
ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम् ॥३५॥
दीपनाः कफवातघ्नाश्चिरबिल्वाङ्कुराः सराः ॥३६॥
न्यग्रोधोदुम्बराश्वत्थप्लचपद्मादिपल्लवाः ।
कषायस्तम्भनाः शीता हिताः पित्तातिसारिणाम्३७
अवलगुजः कटुः पाके तिक्तः पित्तकफापहः ॥३८॥
वार्त्ताकं कटु तीक्ष्णोष्णं मधुरं कफवातजित् ।
वत्साद्नी गुडूची। अस्याश्च पित्तकफहन्तृत्वं बोध्यम् ।
तदुक्तं सुश्रुते ।
अटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः ।
किराततिक्तसहितास्तिक्ताः पित्तकफापहाः ॥
इति। अन्ये तु पत्रप्रधाने गुडूचीशाके तिक्तरसप्राधान्यात्
पित्तकफहरत्वमेवेत्याहुः । सुवर्चला सूर्य्यावर्त्तभेदः। अन्येतु
मारिषसदृशनालमार्त्तगलसदृशपत्रं लम्पकमाहुः ॥ ३४ ॥
राजक्षवको दुग्धिका। अन्येतु राजक्षवको बृहत्पत्रः
क्षवयुकारक इत्याहुः ॥ ३५ ॥
चिरबिल्वः करञ्जकः ॥ ३६ ॥
अवलगुजो बागुजोत्यन्नम् ॥ ३८ ॥
जीर्णमिति परिणतम्। अत्र जीर्णं पित्तलमित्यनेना-
परिणतस्यापि पित्ताविरोधित्वमिति बोधयति। अतएव माध-
५४ द्रव्यगुणः।
रोचनं वह्निजननं जीर्णन्तु पित्तलं मतम् ॥ ३६॥
कण्डूकुष्ठक्रिमिघ्नानि कफवातहराणि च ।
फलानि बृहतीनान्तु कटुतिक्तलघूनि च ॥४०॥
कारवेल्लः सकर्कोटो रोचनः कफपित्तनुत् ॥४१॥
कूष्माण्डकं पित्तहरं बालं मध्यं कफावहम् ।
पक्वं लघूष्णं सक्षारं दीपनं वस्तिशोधनम् ॥
सर्वदोषहरं हृद्यं पथ्यञ्चेतोविकारिणाम् ॥४२॥
सक्षारा मधुरा रूक्षा रुच्या वातकफापहा ।
वेन वार्त्ताकगुणे हृद्यं रुच्यमपित्तलमित्युक्तम् । अन्ये तु पठन्ति
सा बाला कफपित्तघ्नी पक्वा सक्षारपित्तला ।
सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी ॥ ३६ ॥
अन्ये तु कण्टकारीफलं पृथगेव पठन्ति ॥ ४० ॥
कारवेल्लः स्वनामख्यातः । कर्कोटो बृहत्कर्कोटोऽल्प-
कर्कोटी च ॥ ४१ ॥
कूष्माण्डस्य बालावस्थाभेदेन गुणमाह कूष्माण्डकमिति ।
मध्यस्य कफावहत्वेन वातपित्तहरत्वं सूच्यते । यदाह वाग्भटः
कूष्माण्डं वातपित्तजित् । अतएव कफमावहति करोतीति
कफावहमिति डल्लनोऽप्याचष्टे । अयन्तु सौश्रुतः श्लोकः । पक्व-
मित्यत्र शुक्रमिति पठ्यते । तथापि स एवार्थः । पक्वस्य शुक्ल-
वर्णत्वात् चक्रेण स्पष्टार्थं पक्वमित्युक्तम् । सर्वदोषहरमिति
सर्वग्रहणं रक्तोपसंग्रहार्थम् । सर्वदोषसहमित्यन्ये पठन्ति ।
अत्रायमर्थः न करोति न वा शमयतीत्यर्थ इति निबन्धसंग्रह-
कृतः । चेतोविकारा अपस्मारादयः ॥ ४२ ॥
द्रव्यगुणः। ५५
अश्मरीभेदनी गुर्वी नाडी कूष्माण्डसम्भवा ॥४३॥
एर्वारुकं सकर्कारु सुपक्वं कफवातकृत् ।
सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् ॥४४॥
बालं सनीलं त्रपुषं तेषां पित्तहरं स्मृतम् ।
तत् पाण्डुकफकृज्जीर्णमम्लं वातकफापहम् ॥४५॥
शीर्णवृन्तं कफहरं सक्षारं मधुरं हि तत् ।
भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु ॥ ४६ ॥
अलावुः शीतला रूक्षा गुर्वी वर्चःप्रभेदिनी ॥४७॥
अलावुनाड़िका गुर्वी मधुरा पित्तनाशिनी ।
वातश्लेष्मकरी रूक्षा शीतला मलभेदिनी ॥४८॥
तिक्तालाबुरहृद्या तु वामनी वातपित्तजित् ॥४९॥
कफवातकृदिति कफवातकरम्। एर्वारुकं लोमशाकं
कर्कोटीति डल्लनः। राजकर्कोटीत्यन्ये। फुटोति संज्ञया गौड़े
प्रसिद्धमिति त्रिविक्रमः। कर्कारु कर्काटीभेदः ॥ ४४ ॥
त्रपुषं मायाम्बु। सनीलमिति नीलावस्थम्। बालमित्य-
भिनवम्। पाण्ड्विति पाण्डुवर्णं मध्यावस्थमित्यर्थः। कफकृत्
कफकरं जीर्णमिति परिणतम् ॥ ४५ ॥
शीर्णवृन्तं सुखाग्रकमिति चक्रः। अत्र शीर्णमित्यादिः
मधुरं हितमित्यन्तो बालस्य गुणः। भेदनं दीपनं हृद्यमिति
मध्यस्य आनाहाष्ठीलनुल्लघ्विति जीर्णस्येति निबन्धसंग्रहः।
अत्राष्ठीला मूत्राष्ठीला न तु वाताष्ठीला। अस्या वातप्रशमक-
त्वादिति चक्रः ॥ ४६ ॥
५६ द्रव्यगुणः ।
कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः ।
शीताः स्वातुकषायाश्च कफमारुतकोपनाः ॥५०॥
हस्तिमध्वालुकादीनि रक्तपित्तहराणि च ।
गुरूणि स्वादुशीतानि स्तन्यशुक्रकराणि च ॥१॥
विदारीकन्दो बल्यश्च वातपित्तहरश्च सः ।
मधुरो बृंहणो वृष्यः शीतः स्वर्य्योऽतिमूत्रलः ॥२॥
वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी ।
महती सैव हृद्या च मेधाग्निवलवर्द्धिनी ॥
ग्रहयर्शोविकारघ्नी वृष्या शीता रसायनी ।
कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ॥३॥
तरूटविसशालूकक्रौञ्चादनकशेरुकम् ।
शृङ्गाटकाङ्गालोडाञ्च गुरु विष्टम्भि शीतलम् ॥४॥
कन्दगुणमाह हस्तीत्यादि । हस्त्यालुकं मध्वालुकञ्च स्वना-
मख्यातम् ॥ १ ॥
विदारीकन्दो द्विविधः अल्पबहुक्षीरभेदेन । तत्राल्पक्षीरः
हस्तिपादक इति ख्यातः । बहुक्षीरस्तु दीर्घमूलस्तस्य कन्दो
भूमिकुष्माण्ड इति लोके ॥ २ ॥
महदल्पभेदेन शतावरी द्विविधा तस्या एवेति शतावर्या
इत्यर्थः ॥ ३ ॥
तरूटकं कह्लारकन्दः । क्रौञ्चादनं घेचुलुका । अङ्ग्लोद्यं
ह्रस्वोत्पलकन्दः । शृङ्गाटकं फलमपि कशेरुकादिकन्दगुण-
द्रव्यगुणः। ५७
पिण्डालुकं कफहरं गुरु वातप्रकोपणम् ॥ ५ ॥
वज्राख्यकन्दः श्लेष्मघ्नः कटुपाकश्च पित्तकृत् ॥ ६॥
वेणोः करीराः कफला मधुरा रसपाकतः ।
विदाहिनो नातिबलाः सकषाया विरूक्षणाः ॥ ७॥
ऐन्दुकञ्च नदीमाषं विषदं गुरु शीतलम् ॥ ८ ॥
शूरणो दीपनो रुच्यः कफघ्नो विशदो लघुः ।
विशेषादर्शसां पथ्यो भूकन्दस्त्वतिदोषलः ॥६॥
माणकं स्वादु शीतञ्च गुरु चापि प्रकीर्त्तितम् । १०॥
कदल्या वलकृन्मूलं वातपित्तापहं गुरु ॥ ११ ॥
आमवातकरी कच्ची कफकृद्गुरुपिच्छला ॥१२॥
सामान्यादिहैव पठ्यते । कशेरुकं द्विविधं क्षुद्रं महच्च । तत्र
क्षुद्रं चिञ्चोटक इति ख्यातं महत्तु राजकशेरुकम् ॥ ४ ॥
कफं हरतीति कफहरम् ॥ ५ ॥
वज्राख्यकन्दः सुरेन्द्रकन्दः चामघाम इति लोके ॥ ६ ॥
अत्र केचिन्मधुररसपाकस्य विदाहित्वं नोपपद्यत इति कटु-
का रसपाकत इति पठन्ति । अन्ये तु मधुरस्यापि विदाहित्व-
प्रभावादेव समर्थयन्ति ॥ ७ ॥
ऐन्दुकं निच्चारम् । नदीमाषकम् उन्दोमान इति ख्यातम् । ८॥
शूरणो वनकन्दः । भूकन्द इति ग्राम्यकन्दः । अयमेव
सुश्रुते स्थलकन्दसंज्ञया पठ्यते । भूकन्दः प्रावृड्भवः प्रसिद्ध
एवेत्यरुणः ॥ ६ ॥
बलकृत् बलकरम् ॥ ११ ॥
कफकृत् कफकरी ॥ १२ ॥
५८ द्रव्यगुणः ।
वाराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः ।
मेहकुष्ठक्रिमिहरो बल्यो वृष्यो रसायनः ॥ १३॥
तालस्य नारिकेलस्य खर्जूरस्य शिरांसि च ।
कषायस्निग्धमधुरबृंहणानि गुरूणि च ॥ १४ ॥
गुवाकस्य शिरस्तद्वद् भेदनं मदकारकम् ॥ १५॥
बालं ह्यनार्त्तवं जीर्णं व्याधितं क्रिमिभक्षितम् ।
कन्दं विवर्जयेत् सर्वं·यो वा सम्यक् न रोहति ॥ १६॥
शणस्य कोविदारस्य कर्बूदारस्य शाल्मलेः ।
पुष्पं संग्राहि शस्तञ्च रक्तपित्ते विशेषतः ॥ १७॥
वृषागस्त्यस्य पुष्पाणि क्षयकासापहानि च ॥ १८॥
आगस्त्यं नातिशीतोष्णं नक्तान्धानाञ्च शस्यते ॥ १९॥
राजवृक्षस्य निम्बस्य मुष्ककार्काशनस्य च ।
कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च ॥ २० ॥
सतिक्तमधुरं शीतं पद्मं पित्तकफापहम् ॥ २१ ॥
वाराहकन्दो वकालुक इति ख्यातः ॥ १३ ॥
मूलप्रसङ्गेनाग्रगुणमपि केषाञ्चिदाह तालस्येति ॥ १४ ॥
हेयं कन्दमाह बालमिति । न रोहति न जायते ॥ १६ ॥
पुष्पशाकगुणमाह शणस्येति ॥ १७ ॥
आगस्त्यो वङ्गसेनः । तयोर्मध्ये आगस्त्यस्य विशेषगुणमाह
आगस्त्यमिति ॥ १८ ॥
राजवृक्षः स्वर्णालुः । निबन्धसंग्रहस्तु रक्तवृक्षस्येति पठि-
त्वा रक्तचन्दनस्येति व्याचष्टे । मुष्कको घण्टापारुलौ ॥ २० ॥
द्रव्यगुणः। ५८
मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम्॥२२
सिन्दुवारं जीवनीयं हिमं पित्तविनाशनम् ।
यथावृक्षं विजानीयात् कुसुमस्य गुणागुणान् ॥२३॥
छत्रकास्तु पलालिक्षुकरोषचितिरेणुजाः ।
सर्वे संस्वेदजाः शीताः कषायाः स्वादुपिच्छिलाः ॥
गुरवश्छर्द्यतीसारज्वरश्लेष्मामयप्रदाः ॥ २५ ॥
कर्कशं परिजीर्णञ्च क्रिमिजुष्टमदेशजम् ।
विवर्जयेत् पत्रशाकं यदकालविरोहि च ॥ २६ ॥
सतीलो वास्तूकश्चुचुश्चिल्लीमूलकपोतिका ।
मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ॥ २७ ॥
धान्येषु मांसेषु फलेषु चैव
शाकेषु चानुक्तमिहाप्रमेयात् ।
सिन्दुवारं निर्गुण्डीपुष्पमिति डल्लन उपसंहरति ॥ २३ ॥
यादृशं पत्रशाकं हेयं तदाह कर्कशमिति ॥ २५ ॥
उक्तेषु प्रधानतमं शाकमाह सतील इति । सतीलो वर्त्तुल-
कलायः । चुच्छु चेउ इति लोके । चिल्लो क्षेत्रवास्तुकः । मण्डू-
पर्णी मणिमणीतिलोके । ब्राह्मीति डल्लनः । जीवन्ती स्वर्णनाड
इति चक्रः । डल्लनस्तु जीवन्ती जीवा तण्डुलीयसहगीत्या-
चष्टे ॥ २७ ॥
द्रव्याणामानन्त्यादनुक्तद्रव्यगुणज्ञानोपायमाह धान्येष्विति ।
फलानि वक्ष्यमाणानि । चकाराद्द्रवद्रव्यकृतान्नादीनां समु-
६० द्रव्यगुणाः ।
आस्वादतो भूतगुणैर्ग्रहीत्वा
तदादिशेद्द्रव्यमनल्पबुद्धिः ॥ २८ ॥
शाकं हिनस्ति वपुरस्थि निहन्ति नेत्रम्
वर्णं विनाशयति शुक्रमथासृजञ्च ।
ओजःक्षयं प्रकुरुते पलितञ्चकाले
हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः॥२६॥
ख्यः। इहेति शास्त्रे । अप्रमेयादिति भावपरो निर्देशः। तेना-
नन्त्यादित्यर्थः । अयञ्चावचने हेतुः। अत्रैवार्थे चरकोऽप्याह।
अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः ।
द्रव्याणि न हि निर्दिष्टुं शक्यं कार्त्स्न्येन नामभिः ॥
इति । अप्रमोहादिति च क्वचित् पाठः । अन्ये तु
अनुक्तमपि प्रमादादिति पठन्ति । तन्न प्रमादोऽनवधानं
मिथ्याज्ञानमिति यावत् । तत्तु मुनीनां नास्त्येवेति । आस्वा-
दत इति रसतः। रसानां मधुरादीनां ये गुणाः शीतोष्ण-
त्वादयः । यानि वा कर्माणि वातादिहरणह्लादनादीनि तैस्तै-
र्गुणकर्मभिस्तत्तदनुक्तद्रव्यमादिशेत् ब्रूयादित्यर्थः । भूतगुणै-
श्चेति चकारात् पार्थिवादिद्रव्यारम्भकाणां भूतानां ये गुणाः
स्थूलसान्द्रत्वादयस्तैर्द्रव्यस्य पार्थिवादिकमवधार्य्य पार्थिवादि-
द्रव्यप्रतिबद्धैर्गुणकर्मभिरेव तत्तदनुक्तं द्रव्यमादिशेदित्यर्थः ।
तत्तद्भूतगुणग्रहणञ्च किञ्चित् प्रत्यक्षतः किञ्चिदुपयुक्तवचनतः ।
किञ्चिदुपयोगतश्चेति ज्ञेयम् ॥ २८ ॥
इति शाकवर्गः ।
द्रव्यगुणः । ५१
शाकेषु सर्वे निवसन्ति रोगा
रोगो हि देहस्य विनाशहेतुः ।
तस्माद्बुधैः शाकविवर्जनं हि
कार्य्यं तथाम्लेषु स एव दोषः ॥ ३० ॥
इति शाकवर्गः ।
सैन्धवं दीपनं हृद्यं चक्षुष्यं रोचनं लघु ।
स्निग्धं वृष्यञ्च मधुरं शीतं दोषघ्नमुत्तमम् ॥ १ ॥
सामुद्रं मधुरं पाके नात्युष्णमविदाहि च ।
भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ॥ २॥
विडं सक्षारतीक्ष्णोष्णं सूक्ष्मं दीपनरोचनम् ।
शूलहृद्रोगशमनं रुचं वातानुलोमनम् ॥ ३ ॥
सौवर्चलन्तु वीर्य्योष्णं विशदं कटुकं लघु ।
गुल्मशूलविबन्धघ्नं हृद्यं सुरभि दीपनम् ॥ ४ ॥
सैन्धवादीनां व्यञ्जनसंस्कारकत्वात् शाकानन्तरं लवणादि-
वर्गमाह । अत्रापि लवणेषु सैन्धवस्य श्रेष्ठत्वात् प्रथमं तद्गुण-
माह सैन्धवमिति । अत्र मधुरमित्यनन्तरं चकारो योज्यः ।
तेनषण्मधुरत्वं बोध्यते चशब्दसमुचितत्वात् । दोषघ्नमिति
त्रिदोषहरम् । उत्तममिति लवणेषु श्रेष्ठम् । उक्तञ्च ।
त्रिदोषघ्नं समधुरं सैन्धवं लवणोत्तममिति ॥ १ ॥
दक्षिणसमुद्रे भवतीति सामुद्रं करकचलवणम् । २ ॥
विडं कृत्रिमं स्वनामख्यातम् । ३ ॥
६
६२ द्रव्यगुणः।
सौवर्चलगुणाः कृष्णलवणे गन्धवर्जिताः ॥ ५ ॥
सतिक्तं कटु सक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम् ॥ ६ ॥
रोमकं तीक्ष्णमुष्णञ्च व्यवायि कटुपाकि च ।
वातघ्नं लघु विष्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ॥ ७
दीपनं पाचनं भेदि लवणं गुड़िकाह्वयम् ।
कफवातक्रिमिघ्नञ्च लेखनं पित्तकोपनम् ॥ ८ ॥
क्षारास्तु दीपनाः सर्वे रक्तपित्तकराः सराः ।
गुल्मार्शोग्रहणीदोषशर्कराश्मविनाशनाः ॥ ९ ॥
ज्ञेयौ वह्निसमौ क्षारौ सर्जकायवशूकजौ ।
शुक्रश्लेष्माविवन्धार्शोगुल्मप्लीहविनाशनौ ॥ १० ॥
सौवर्चलं प्रसिद्धम् ॥ ४ ॥
भुवमुद्भिद्योत्पन्नस्य क्षारोदकस्य सूर्य्यरश्मिभिर्वर्द्धितापाद्वा
कयनाद्यल्लवणमुत्पद्यते तदौद्भिदमिति निवन्धसंग्रहः । चक्रस्तु
ऊषरदेशोद्भवमुत्चारिकालवणमौद्भिदलवणमित्याह । अन्ये तु
पाक्यलवणमौद्भिदमित्याहुः ॥ ६ ॥
रुमा नाम नदी तद्भवं रोमकन् । साम्भरिदेशोत्थं लवणं
गड़लवणमिति ख्यातमित्यन्ये । विष्यन्दीति कफस्रावकारक-
मिति डल्लनः । सूक्ष्मस्रोतोऽनुसारित्वात् सूक्ष्मम् ॥ ७ ॥
पाक्यलवणविशेषगुड़िकालवणगुणमाह दीपनमिति । पाका-
दतिकठिनीभावेन गुड़िकाकारं लवणं गुड़िकालवणम् ॥ ८ ॥
क्षाराणामपि लवणरसत्वात् क्षारगुणानप्यत्रैवाह क्षारा
इति ॥ ९ ॥
क्षारविशेषगुणमाह ज्ञेयाविति ॥ १० ॥
द्रव्यगुणः। ६३
अग्निदीप्तिकरस्तीक्ष्णस्तृष्णाघ्नश्चार उच्यते ॥ ११ ॥
आर्द्रकं रोचनं हृद्यं कटूष्णं वृष्यमेव च ।
कफानिलहरं स्वर्य्यं विबन्धानाहशूलनुत् ॥१२॥
शुण्ठी तु कफवातघ्नी सस्नेहा लघुदीपनी ।
वृष्योष्णा रोचनी हृद्या विपाके मधुरा कटुः ॥१३॥
पिप्पल्यार्द्रा स्वादुशीता गुर्वी श्लेष्मप्रकोपिणी ॥१४॥
सा शुष्का मधुरा पाके वृष्या पित्तप्रसादनी ।
स्निग्धोष्णा दीपनी वातश्लेष्मनुच्छ्वासनाशिनी॥१५॥
मरिचं लघु तीक्ष्णोष्णं रूक्षरोचनदीपनम् ।
रसे पाके च कटुकं कफघ्नं पित्तकोपनम् ॥१६॥
स्वादु पाक्यार्द्रमरिचं गुरु श्लेष्मप्रकोपि च ॥१७॥
आर्द्रकादीनामपि व्यञ्जनसंस्कारकत्वादत्रैव तद्गुणमाह
आर्द्रकमिति ॥ ११ ॥
श्लेष्मप्रकोपिणीति स्ववर्गापेक्षया । न श्लेष्मशमनीत्यर्थ इति
डल्लनः ॥ १४ ॥
मधुरपाकियतया पित्तं प्रसादयतीति चक्रः । अन्ये तु
पित्ताविरोधिनीति पठन्ति । ईषत्पित्तविरोधिनीति च व्याच-
क्षते । केचित्तु पित्तकोपिनीति पठन्ति व्याख्यानयन्ति च ।
सा पित्तशमनी पूर्वं दर्शिता वीर्य्यवादिना ।
शास्त्रकारेण निर्दिष्टा सा तु पित्तप्रकोपिणी ॥
तच्चार्द्रा पित्तशमनी शुष्का पित्तप्रकोपिणी इति ॥ १५ ॥
मरिचमिति शुष्कमरिचमित्यर्थः ॥ १६ ॥
श्लेष्मप्रकोपीति । श्लेष्मणोऽन्यतश्च तस्य प्रकोपणम् कटु-
६४ द्रव्यगुणः।
नात्युष्णं नातिशीतञ्च वीर्य्यतो मरिचं सितम् ।
गुणवन्मरिचेभ्यश्च चक्षुष्यञ्च विशेषतः ॥ १८ ॥
हिङ्गु तीक्ष्णं कटुरसं शूलाजीर्णविबन्धनुत् ।
लघूष्णं पाचनं स्निग्धं दीपनं कफवातजित् ॥ १९
जीरकं रुचिकृत्सर्वं गन्धाढ्यं कफवातजित् ।
तीक्ष्णोष्णं कटुकं पाके कटु पित्ताग्निवर्द्धनम् २०
यमानी कृष्णजीरश्च ज्ञेया जीरकवद्गुणैः ॥ २१ ॥
धन्याकं कासतृट्छर्द्दिशमनं चक्षुषोर्हितम् ।
कषायतिक्तं मधुरं हृद्यं रोचनदीपनम् ॥ २२ ॥
लसुनः क्षारमधुरः पत्रे मधुरपिच्छलः ।
मध्ये कन्दे तु तीक्ष्णोष्णः कटुपाकरसः सरः ॥
हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो दीपनपाचनः ।
भग्नसन्धानकृद्वल्यो रक्तपित्तप्रकोपणः ॥
किलासकुष्ठगुल्मार्शोमेहकृमिकफानिलान् ।
सहिक्कापीनसश्वासकासान् हन्ति रसायनः ॥ २३ ॥
तीक्ष्णोष्णत्वात् करोतीति चक्रः। ये तु चयमपि श्लेष्मणो
वदन्ति तदनुभवविरुद्धम् । डल्लनस्तु श्लेष्मप्रसेकि चेति पठति ॥ १७ ॥
सितं मरिचं शोभाञ्जनबीजम् । अन्ये तु मरिचमेव शुक्लं
वदन्ति ॥ १८ ॥
सर्वमिति । शुक्लपीतभेदाज्जीरकद्वयमिति चक्रः ॥ २० ॥
कृष्णजीरः कारवी ॥ २१ ॥
द्रव्यगुणः। १६
पलाण्डुर्मधुरो वृष्यः कटुः स्निग्धोऽनिलापहः ।
बल्यः पित्ताविरोधी च कफकृद्रोचनो गुरुः ॥ २४॥
ग्राही गृञ्जनकस्तीक्ष्णो ग्रहयर्शोविकारनुत् ॥ २५॥
इति लवणादिवर्गः ।
कषायानुरसं नातिपित्तलं दाड़िमं स्मृतम् ।
दीपनोयं रुचिकरं हृद्यं वर्चोविबन्धनम् ॥ १ ॥
अनिलापहो वातप्रशमकः। कफकृदिति नात्यर्थं कफ-
करः। पित्ताविरोधीति किञ्चित्पित्तकर इत्यर्थः। यदाह।
नात्युष्णवीर्य्योऽनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च।
बलावहः पित्तकरोऽथ किञ्चित् पलाण्डुरग्निं परिवर्द्धयेच्च ॥
पलाण्डु पेयाज इति ख्याते ॥ २४ ॥
गृञ्जनक गाजर इति नाम्ना मगधादौ ख्यातः ॥ २५ ॥
इति लवणादिवर्गः ।
यद्यपि शाकेषु फलपाठाच्छाकानन्तरमेव फलगुणाभिधानं
युक्तं तथापि शाकसंस्कारत्वेनान्तरङ्गत्वात् अल्पवक्तव्यत्वाच्च
सूचिकटाहन्यायेन प्रथमं लवणादिवर्गमभिधाय अनन्तरं फल-
गुणानाह कषायानुरसमिति। नातिपित्तलमिति। योग्यतया
अम्लदाड़िममेवैवंगुणं बोध्यम् ईषत्पित्तकरमित्यर्थः। चरकेऽपि
सर्वं पित्तलमम्लमन्यत्र दाड़िमामलकादिति इत्यत्र भट्टारहरि-
चन्द्रेण दाड़िमग्रहणं निरस्य ॰ अन्यदामलकादित्येव पाठः
६६ द्रव्यगुणः ।
द्विविधं तत्तु विज्ञेयं मधुरञ्चाम्लमेव च ।
त्रिदोषघ्नन्तु मधुरमम्लं वातकफापहम् ॥ २ ॥
प्राचीनामलकञ्चैव दोषघ्नं गरहारि च ॥ ३ ॥
कर्कन्धुकोलवदरमामं पित्तकफावहम् ।
पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम् ॥ ४ ॥
तच्छुष्कं कफवातघ्नं न च पित्ते विरुध्यते ।
पुराणं तृट्प्रशमनं श्रमघ्नं लघु दीपनम् ॥ ५ ॥
सौवीरं वदरं स्निग्धं मधुरं वातपित्तजित् ॥ ६॥
पुरस्कृत इति । चन्द्रिकाकारेणाप्यनुमतमेतत् । चक्रेणापि
नातिपित्तलमित्येव पाठोऽनुमन्यते । किन्तु अस्मिन् पक्षे ।
अम्लं पित्तकरं प्रायो दाड़िमामलकादृते ।
इति वाग्भटविरोधो दुष्परिहर इत्यवधेयम् । अन्ये तु
नापि पित्तलमिति पठित्वा अम्लं दाड़िमं पित्तं न करोति
न च शमयतीति च व्याचक्षते । चरकेऽपि दाड़िमगुणे कफ-
पित्तविरोधीत्युक्तम् । तत्राम्लं दाड़िमं पित्ताविरोधि मधुरन्तु
कफाविरोधीत्याहुः ॥ १ ॥
प्राचीनामलकं प्रसिद्धम् ॥ ३ ॥
कर्कन्धुरल्पा शृगालकोलिः । कोलं मध्यप्रमाणवदरम् ।
वदरं महद्वदरम् । अम्लमिति पाठेऽप्यामेव आमावस्थायामेव
तेषामम्लत्वात् पित्तकफावहमिति पित्तकफजनकम् ॥ ४ ॥
पुराणमिति पक्ववदरचूर्णम् । तदीयशुण्ठकमिति चक्रः ॥ ५॥
सौवीराख्यं वदरं महत्तमं आमपक्वावस्थासु मधुरमिति
चन्द्रिकाकारः ॥ ६॥
द्रव्यगुणः। ६७
आम्रं बालं रक्तपित्तकरं मध्यन्तु पित्तलम् ।
पक्कं वर्णकरं रुच्यं मांसशुक्रबलप्रदम् ॥
पित्ताविरोधि वातघ्नं हृद्यं गुर्वनुलोमनम् ॥ ७ ॥
आम्रपेशी कषायाम्ला भेदनी कफवातजित् ॥८॥
आम्लातकं तर्पणञ्च वल्यं मधुरबृंहणम् ।
स्नेहनं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्य्यति ॥६॥
लकुचं गुरु विष्टम्भि त्रिदोषं शुक्रदूषणम् ॥ १० ॥
करमर्दं तृषाहारि रुच्यमम्लपित्तकारकम् ॥ ११ ॥
वातपित्तहरं वृष्यं पियालं गुरु शीतलम् ॥ १२॥
आम्रस्यावस्थाभेदेन गुणभेदमाह आम्रमिति ।
भट्टारहरिचन्द्रेणापि चरके रक्तपित्तकरं बालमिति पाठं
निरस्य वातपित्तकरं बालमित्येव पाठः पुरस्कृतः । चक्रेणा-
प्यनुमतमेतत् । युक्तञ्चैतत् । सुश्रुतेऽपि पित्तमारुतकृद्वालमित्यु-
क्तत्वात् । किन्तु वाग्भटे वातपित्तास्रकृद्वालमिति दर्शनात्
रक्तपित्तकरत्वञ्चास्य न विरुध्यत इति ज्ञेयम् ॥ ७ ॥
आम्रपेशी शुष्काम्रम् ॥ ८ ॥
आम्लातकमाम्रफलसदृशमिति चन्द्रिका । आमडा इति
ख्यात इति चक्रः । तद्द्विविधं मधुरमम्लञ्च । तत्र मधुरस्यै-
वायं गुणश्चरकेषोक्तः । अम्लाम्लातकगुणस्य पश्चादुक्तत्वात् ॥६॥
लकुचो डहुः ॥ १० ॥
करमर्दं कण्टकीफलमिति चन्द्रिका । तद्द्विविधं मह-
दल्पञ्च । तत्र महत् प्रायशो ग्रामभवमम्लञ्च । अल्पा तु कर-
मर्दी वनजा मधुराम्लफला इति च व्याचष्टे ॥ ११ ॥
६८ द्रव्यगुणः।
भव्यं स्वादु कषायाम्लं हृद्यमास्यविशोधनम् ।
पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भि शीतलम् ॥१३॥
अम्लवेतसमत्यम्लं तीक्ष्णं स्निग्धञ्च दीपनम् ॥१४॥
वातापहं तिन्तिडीकमामं पित्तबलाशकृत् ।
ग्राह्युष्णं दीपनं रुच्यं सम्पक्वं कफवातनुत् ॥१५॥
अम्लिकायाः फलं पक्वं तस्माच्चाल्पतरं गुणैः ॥१६
कषायविषदत्वाच्च सौगन्ध्याच्च रुचिप्रदम् ।
अवदंशक्षमं रुच्यं वातलं लवलीफलम् ॥ १७ ॥
जम्बीरं वातकफनुद् गुरु पित्तप्रकोपणम् ।
तृष्णाशूलकफोत्क्लेशच्छर्द्दिश्वासनिवारणम् ॥१८॥
नागरङ्गं दुर्जरञ्च गुरु वातविनाशनम् ॥ १९ ॥
पियालो मगधे स्वनामख्यातः ॥ १२ ॥
भव्यं तालफलोपमं केवलवल्कलसंहतिमात्रमिति चन्द्रिका
भानुमती च । अन्ये तु कर्मरङ्गफलं भव्यमाहुः ॥१३॥
अम्लवेतसं चैकलमिति उत्तरदेशे ख्यातम् ॥ १४ ॥
तिन्तिडीकं महार्द्रकम् न तु तिन्तिडीफलम् चरके सुश्रुते
च पृथगेवाम्लिकायाः फलमित्यादिना तद्गुणपाठात् । पुरुषोत्त-
मस्तु तिन्तिडीफलमम्लिकायाः फलमिति भ्रान्त्या महार्द्रक-
गुणं पृथगेव पठति । तत्पुनरविरोधाज्जृम्भितम् ॥ १५ ॥
अम्लिकायाः फलं तिन्तिडीफलम् ॥ १६ ॥
अवदंशक्षममिति लवलीफलं प्राश्य द्रव्यान्तरे रुचिर्भवति
इत्यर्थः ॥ १७ ॥
द्रव्यगुणाः। ६८
फलं वेत्रस्य वातघ्नमम्लपित्तविनाशकृत् ॥ २० ॥
मातुलुङ्गफलं हृद्यमम्लं लध्वग्निदीपनम् ।
श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ॥ २१ ॥
बीजपूरस्य तिक्ता त्वग् दुर्जरा कफवातहृत् ॥ २२ ॥
तन्मांसं स्वादु शीतञ्च गुरु मारुतपित्तजित् ॥ २३ ॥
केशरन्तु लघु ग्राहि गुल्मार्शोघ्नं हि दीपनम् ।
मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् ॥ २४ ॥
एवम्प्रकारा विज्ञेया वृष्या च मधुकर्कटी ॥ २५ ॥
कपित्थमांसं कण्ठघ्नं विषघ्नं ग्राहि वातलम् ।
मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम् ।
तदेव सिद्धं दोषघ्नं विषघ्नं ग्राहि गुर्व्वपि ॥ २६ ॥
जाम्बवं वातलं ग्राहि रूक्षं पित्तकफापहम् ॥ २७ ॥
मातुलुङ्गफलस्य प्रत्यवयवगुणं निर्द्दिशन्नाह बीजपूरस्येति ।
बीजपूरस्येति मातुलुङ्गस्य कफवातहृदिति कफवातनाशिनी
तिक्ता त्वग्दुर्जरा तस्य वातक्रिमिकफापहेत्युक्तेः ॥ २२ ॥
मांसमिति त्वक्केशरमध्यभागः ॥ २३ ॥
मेध्यं मेधाहितं प्रभावात् ॥ २४ ॥
मधुकर्कटी मधुर इति ख्याता । मातुलुङ्गापेक्षया महा-
प्रमाणा बहुमांसाल्पकेशरा ॥ २५ ॥
तदेवेति । कपित्थं सिद्धमिति कालवशात् पक्वम् ॥ २६ ॥
जम्बूस्त्रिविधा राजजम्बूर्महाफला । काकजम्बूर्व्वनजम्बू-