सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 64, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 64

५६ द्रव्यगुणः ।
कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः ।
शीताः स्वातुकषायाश्च कफमारुतकोपनाः ॥५०॥

हस्तिमध्वालुकादीनि रक्तपित्तहराणि च ।
गुरूणि स्वादुशीतानि स्तन्यशुक्रकराणि च ॥१॥
विदारीकन्दो बल्यश्च वातपित्तहरश्च सः ।
मधुरो बृंहणो वृष्यः शीतः स्वर्य्योऽतिमूत्रलः ॥२॥
वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी ।
महती सैव हृद्या च मेधाग्निवलवर्द्धिनी ॥
ग्रहयर्शोविकारघ्नी वृष्या शीता रसायनी ।
कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ॥३॥
तरूटविसशालूकक्रौञ्चादनकशेरुकम् ।
शृङ्गाटकाङ्गालोडाञ्च गुरु विष्टम्भि शीतलम् ॥४॥
कन्दगुणमाह हस्तीत्यादि । हस्त्यालुकं मध्वालुकञ्च स्वना-
मख्यातम् ॥ १ ॥
विदारीकन्दो द्विविधः अल्पबहुक्षीरभेदेन । तत्राल्पक्षीरः
हस्तिपादक इति ख्यातः । बहुक्षीरस्तु दीर्घमूलस्तस्य कन्दो
भूमिकुष्माण्ड इति लोके ॥ २ ॥
महदल्पभेदेन शतावरी द्विविधा तस्या एवेति शतावर्या
इत्यर्थः ॥ ३ ॥
तरूटकं कह्लारकन्दः । क्रौञ्चादनं घेचुलुका । अङ्ग्लोद्यं
ह्रस्वोत्पलकन्दः । शृङ्गाटकं फलमपि कशेरुकादिकन्दगुण-