सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

द्रव्यगुणः । १३७
तानि दक्षिणापार्श्वे तु भुञ्जानस्योपकल्पयेत् ।
प्रद्रवान् रसयूषादीन् सव्ये पार्श्वे प्रदापयेत् ॥
सर्वांन् गुड़विकारांश्च रागषाडवषट्कान् ।
पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ॥ १०
एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् ।
भोक्तारं विजने रम्ये निःसम्पाते तु भोजयेत् ॥ ११
पूर्वं मधुरमश्नीयात् मध्येऽम्ललवणौ रसौ ।
अन्ते शेषान् रसान् वैद्यो भोजनेष्ववचारयेत् ॥ १२ ॥
अन्नेन कुक्षे र्द्वावंशौ पानेनैकं प्रपूरयेत् ।
आश्रयं पवनादीनां चतुर्थमवशेषयेत् ॥ १३ ॥
भुक्त्वा पादशतं गत्वा वामपार्श्वेन संविशेत् ।
शब्दान् रूपरसान् गन्धान् स्पर्शांश्च मनसः प्रियान् ।
आधारविशेषमभिधाय देशविशेषेण आहारविधिमाह पुर-
स्तादिति । पुरस्तादग्रत इत्यर्थः । न केवलं पुरस्तात् द्वयोरपि
च मध्यत इति द्वयोर्मध्ये एकस्मिन् पार्श्वे दद्यात् । एतेन
सर्वत्र दातव्यमिति डल्लनो व्याचष्टे ॥ १० ॥
निःसम्पाते तु निर्वाते ॥ ११ ॥
इदानीं भोजनस्यानुपूर्वीमाह पूर्वमिति । पूर्वं मधुरमिति
वातजयार्थम् । मध्येऽम्ललवणाविति मध्यस्थिताग्न्युत्तेजना-
र्थम् । शेषानिति कटुतिक्तकषायान् तेन पश्चादूर्द्धं श्लेष्मजयार्थं
देयाः ॥ १२ ॥
इदानीं द्रवाद्रवरूपस्याहारस्य मात्रामाह अन्नेनेति ॥ १३ ॥

१३८ द्रव्यगुणः।
भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ।
भुक्त्वोपविशतस्तुन्दं शयानस्य वपुर्भवेत् ॥
आयुश्चङ्क्रममाणस्य मृत्युर्धावति धावतः ।
ताम्बूलमुपसेवेत कर्पूराद्यधिवासितम् ॥ १४ ॥
ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम् ।
विषमूर्च्छामदार्त्तानामपथ्यं शोषिणामपि ॥१५॥
अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति ।
तद्द्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम् ॥
समानेनावधूतोऽग्निरुदीर्य्यः पवनेन तु ।
काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये ॥१६॥
एवं रसमलायान्नमाशयस्थमधःस्थितः ।
पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्॥१७॥
भोजनान्तरीयं विधिमाह भुक्तेति ॥ १४ ॥
इदानीमाहारस्याग्निना पाको यथा भवति यथा च पच्यमा-
नमन्नं देहधात्वादिरूपतामापद्यते तदाह अन्नमिति । आदान-
माहारनयनं कर्म्म यस्य स तथा । प्रकर्षतीति नयति । द्रवैरिति
पानीयादिभिः । भिन्नसङ्घातम् अवयवशैथिल्यमापन्नम् । अवधूत
इत्युद्दोपितः । समानेन इत्यनन्तरमविकृतेनेति शेषः । विकृतस्य
वायोरग्निवैषम्यकरत्वात् । काले इति बुभुक्षाकाले । सममिति
मात्राप्रकृत्यादिभिरुचितम् । सम्यगिति निर्विकारम् ॥१६॥
रसमलायेति । रसार्थं मलार्थञ्च पचतीत्यर्थः । आशयस्थ-
मित्यामाशयस्थम् । अधःस्थित इत्यनेन वहिरग्नेर्यथा ऊर्द्ध्वज्व-

द्रव्यगुणः। १३८
अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक् ।
देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि च१८
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः ।
लनस्वभावतया ऊर्ध्वपाकसामर्थ्यं तथान्तराग्नेरपीति तत्सा-
धर्म्यं दर्शयति । अमुमेवार्थं दृष्टान्तेनोपपादयति यथेत्यादि
॥ १७ ॥
अन्नस्य पाकसम्पाद्यं कार्यान्तरमप्याह अन्नमिति । अन्नं
कर्तृ देहस्थितान् गन्धादीन् प्रीणाति आप्याययति । ननु अन्नेन
द्रव्येण द्रव्यपोषणमेव युक्तं न तु गुणपोषणमित्यतोऽन्नं विशि-
नष्टि गन्धादिभिरुपहितमिति गन्धरूपरसस्पर्शशब्दैर्युक्तमि-
त्यर्थः । एतेन विशेषणद्वारा अन्नगतैर्गन्धादिभिर्देहगतगन्धादि-
पोषणमिति सिद्धम् । तथा गुणवृद्धिस्तु गुणिवृद्धिं विना न भव-
तीति पाञ्चभौतिकेन आहारेण देहगतपञ्चभूतपोषणमप्यत एव
सिद्ध्यति । इष्टमिति विशेषणेन चान्नस्यानिष्टस्यानिष्टगन्धादिभि-
र्युक्तस्य न देहव्यवस्थितगन्धादितर्पकत्वमिति दर्शयति । न
केवलं गन्धादीनेव प्रीणाति किन्तु घ्राणादीनीन्द्रियाणि च
प्रीणाति । आदिशब्दाद्रसनादीनां चतुर्णां ग्रहणम् । पृथगित्यनेन
आहारगतो यः पार्थिवो भागः स घ्राणं तद्गतगन्धञ्च देहगन्धं
प्रीणाति । एवं आहारगतो जलीयभागो रसनां पुष्णाति ।
तद्गतो रसः देहरसं पुष्णातीत्यादि व्याख्येयम् ॥ १८ ॥
भौतिकाग्निव्यापारमाह भौमेत्यादि । पार्थिवादिद्रव्येषु
हि पाकेन विशिष्टगन्धवर्णादयो जायन्ते । पाकस्त्वूष्माणं विना
न भवतीति पाकान्यथानुपपत्त्या पार्थिवादिद्रव्यवस्थिताः पञ्चो-
ष्माणः स्वीक्रियन्ते । ते तु सौक्ष्म्यात् तत्तद्द्रव्येषु साक्षान्नोपलभ्यन्ते ।

१४० द्रव्यगुणः ।
पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन्
पचन्ति हि ॥ १६ ॥
सप्तभिर्देहधातारो धातवो द्विविधं पुनः ।
अतस्त एव जाठराग्निसन्धुक्षितबलाः सन्तः स्वान् स्वान् पार्थि-
वादीन् पञ्चाहारगुणान् पचन्ति । पूर्वस्थितपार्थिवादिगन्धविल-
क्षणान् पाकेन निवर्त्तयन्तीत्यर्थः । एतदेव चरके विविधाशित-
पीतीये उक्तम् । विविधाशितं पीतञ्च लीढं खादितं जन्तो-
र्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपाच्य-
मानमिति । आहारस्य गुणाः आहारगुणाः । किं वा आहा-
राश्च गुणाश्च आहारगुणाः । यद्यपि भूताग्निना द्रव्याण्येव
पच्यन्ते नतु गुणाः उक्तं हि
जाठरेणाग्निना पूर्वं कृते सङ्घातभेदने ।
पश्चाद् भूताग्नयः पञ्च स्वं स्वं द्रव्यं पचन्ति हि ॥
तथापि द्रव्यपाकवशाद् विशिष्टगन्धादिगुणा जायन्ते इत्य-
भिप्रायेण गुणानामपि पाक उक्तः । ननु तेजः स्वयमेव पाच-
कम् तस्य पाचकेनाग्न्यन्तरेण किं क्रियते । ब्रूमः न वयं तेजसि
पाचकमग्निं स्वीकुर्मः । किन्तु तैजसस्य सुवर्णादिद्रव्यतुल्यस्य
पित्तादेः पाकजन्यत्वेन पाचकाग्न्यपेक्षा युक्तैव । एवं वायवीय-
नाभसद्रव्ययोरप्याश्रित उष्मा वात्वग्निनाभसाग्निवाच्यो ज्ञेयः
॥ १६ ॥
भौतिकाग्नि-व्यापारमभिधाय-विशिष्ट-धात्वग्निव्यापारमाह
सप्तभिरित्यादि । पुनरिति जाठराग्निपाकानन्तरम् । द्विविध-
मिति द्विप्रकारम् । तदेव प्रकारद्वयमाह किट्टप्रसादवदिति
किट्टप्रसादरूपमित्यर्थः । वतिरयमर्द्धार्थे । किं वा किट्टप्रसादव-
दिति मतुबन्तं क्रियाविशेषणम् । ननु धात्वग्निवदुपधातुम-

द्रव्यगुणः । १४१
यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत् ॥२०॥
रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च ।
लादिगता अपि पृथगग्नयः किमिति नाना स्वीक्रियन्ते । अथ
तत्र पञ्चभूतानि सन्तीति भूताग्निभिरेव तेषां पाक उत्पत्स्यत
इति चेत्तर्हि कृतं धात्वग्निभिरपि भूताग्निभिरेव धातुपाक-
स्याप्युपपत्तेः । नैवं बाह्येषु फलादिषु भूताग्निजन्यो यः पाको
दृश्यते स किट्टप्रसादरूपतया नानुभूयते । उपधातुमलादिगतो-
ऽपि पाकस्तादृग एवेति वैलक्षण्याभावादुपधात्वादिषु पृथगग्नि-
स्वीकारोऽकिञ्चित्करः । रसादिधातुपाकस्तु किट्टप्रसादरूपतया
विलक्षण इति तत्र पृथगग्निखीकारो युक्त एवेति । धातुषु ये
भूताग्नयस्ते धात्वग्नेरेव सहाया इति । यद्यपि शुक्रस्य प्रसाद-
रूपतया किट्टवान् पाको नास्ति तथापि बहूनां किट्टवत्त्वाद्
द्विविधनिर्देशो ज्ञेयः । यथा छत्रिणो गच्छन्तीति ॥ २० ॥
तत्र पाकजन्यैः प्रसादांशैर्यैन क्रमेण ये ये जन्यन्ते तानाह
रसादिति ॥ प्रसादज इत्यस्य लिङ्गविपरिणामेन रक्तमित्या-
दिषु सर्वत्र सम्बन्धः । प्रसादजञ्च सारभागः । तेन रसाद्रक्तं
प्रसादजम् । ततो रक्तान्मांसं प्रसादजम् । मांसाच्च मेदः प्रसादज-
मित्यादि योज्यम् । रसाद्रक्तं प्रसादजमिति रसात् पाकेन जायते
यः प्रसादांशस्तस्माद्रक्तं जायते । एवं रक्तात् पाकेन जायते यः
प्रसादांशस्तस्माच्च मांसं जायत इत्यादि व्याख्येयम् । जनि-
श्चायं पोषण एव वर्त्तते नापूर्वोत्पादे । यतो रक्तादयो गर्भात्
प्रभृत्येव उत्पन्ना रसादिभिः पोष्यन्ते । अन्ये तु गर्भप्रसादज-
मिति पठित्वा गर्भप्रसादजमिति समस्तपदेन ओज आचक्षते ।
अस्मिंस्तु पक्षे प्रसादजशब्दस्य न सर्वत्रान्वयः । ननु पुष्यन्ति
त्वाहाररसादिना चरके रसेन रसपोषणमुक्तम् अत्र तु रसा-

अस्थ्यो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः॥२१
द्रक्तमित्यादिना रसेन रक्तपोषणमुच्यते इति विरोधः । नैवमेक
एवायमाहाररसो द्विप्रस्थानः पोष्यपोषकभेदेन । तत्रान्नपाना-
दुत्पन्नो रसः पोषकः रक्तादिवत् स्थायी यः स पोष्यः तस्यैव
हृदवस्थानमुक्तम् । अतएव पोष्यस्थायिरसव्यवच्छेदार्थमाहारेति
रसविशेषणमुक्तं चरकेण । यत्तु रसाद्रक्तमित्यादिवचनं तद्रस-
त्वेनाभेदविवक्षया रसं परित्यज्य रक्तमेव पठितं न तु पोष्यस्य
रसाख्यधातोरभावादिति । न चैवमष्टधातुकत्वं शरीरस्येति
वाच्यम् । यतः स्थायिरसभागपोषकरसभागयोः स्थानभेदाग्नि-
भेदाद्यभावादेकत्वमेवेति सप्तधातुकमेव शरीरमित्युच्यत इति ।
अत्र च रसाद्रक्ताद्युत्पादे केचिदिदं वदन्ति । यद्रसोऽग्नि-
पच्यमानः सर्वात्मना रक्ततां याति रक्तञ्च मांसतामित्यादि पूर्व-
पूर्वधातुपरिणामेन उत्तरोत्तरधातूत्पादो यथा सर्वात्मना क्षीरा-
द्दधि भवति दध्नो नवनीतं नवनीताद्धृतं घृताच्च घृतमण्ड
इत्येकः पक्षः । किं वा रस एव रक्तं प्रथमं प्लावयति तत्र रक्त-
स्थानसम्बन्धात् रक्तसादृश्यं रक्तव्यपदेशञ्चानुभवति । रक्तञ्च रक्त-
समानेन स्तोकेनांशेनास्रं पोषयति । ततो रक्तमाप्लाव्य मांस-
माप्लावयति तत्रापि मांससमानेनांशेन मांसपोषणं करोति ।
मांससादृश्यं मांसशब्दाभिधेयतां चानुभवति । एवमुत्तरोत्तरधा-
तून् रस एव प्लावयति । यथा केदारनिषिक्तं कुल्याजलं प्रत्यासन्नां
केदारामाप्लावयतौति द्वितीयः पक्षः । एतदेवोक्तं हारीते । यद्रसः
सप्ताहादर्वाक् परिवर्त्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशु-
कालक्तरसप्रख्यश्चायं यथाक्रमं दिवसपरिवर्त्ताद्वर्णपरिवर्त्तमा-
पद्यमानः पित्तोष्मोपरागाच्छोणितत्वमापद्यत इति । तथा
सुश्रुतेऽपि तत्रैषां धातूनामित्यादिना तथा स खलु त्रीणि

द्रव्यगुणाः । १४३
त्रीणि इत्यादिना रसेनैव रक्तादिधातुपोषणमनेन न्यायेनोक्तम् ।
किं वा आहाररस उत्पन्नो भिन्नैरेव मार्गैः स्थायिरसरुधिरमां-
सादीन् रसरुधिरादिसमानांशेन तर्पयति । तत्र यः प्रत्यासन्नो
धातुस्तत्पोषको भागस्तच्छीघ्रं पुष्णाति । यस्तु विदूरधातुस्तस्य
सूक्ष्मविदूरमार्गतया चिरेण पोषणं भवति । एवं भिन्नैरपि मार्गै-
र्धातुपोषणं भवति तेन रक्तपोषणकालादुत्तरकालं मांसपोषको
रसभागो मांसं पोषयति । तथा मांसपोषणकालादुत्तरकालं
मेदःपोषको रसभागो मेदः पोषयतीत्यादि । तेन रसाद्रक्त-
मित्यादिवचनस्यायमर्थो यद् यत् रसपुष्टिकालादुत्तरकालं रक्तं
प्रवर्त्तते रक्तपुष्टिकालादुत्तरकालं मांसं प्रवर्त्तत इत्यादि ।
अस्मिंस्तु पक्षे
विण्मूत्रमाहारमलः सारः प्रागीरितो रसः ।
स तु व्यानेन निक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ॥
इत्यादिवचनस्य मुख्यार्थमेव घटते । तेन यथा खले उप-
चितानां कपोतानां भिन्नदिग्गामिनां स्वीयस्वीयमार्गेणैव
गच्छतां गम्यदेशस्य प्रत्यासन्नत्वविप्रकृष्टत्वादिभेदेन शीघ्रं चिरेण
गमनं भवति तद्वदिति क्षीरदधिन्यायकेदारीकुल्यान्यायः । खले
कपोतन्यायात्त्रिधा धातुपोषणक्रमः । तत्र एतेषु पक्षेषु सर्वात्म-
परिणामि त्रिचतुरोपवासेनैव देहस्य नौरसत्वं स्यात् । मासोप-
वासाच्च शुक्रमयं शरीरं स्यादित्यपेक्षणीय एव प्रथमः पक्षः ।
केदारीकुल्यान्यायपक्षे तु रसाद्रक्तादिपोषणं मुख्यार्थतया भवति ।
यद्यपि रक्तादेर्मांसादिपोषणं तदपि रसादेव रक्तादिधर्मतया
रक्तादिव्यपदेशभाजो भवन्तीति व्युत्पादितमेव । यत्तु रसस्य
सर्वधातुपोषकत्वमुक्तं तदपि रक्तादिपोषकतया तथा हृदय-
स्थायिरसस्य कृत्स्नदेहव्यापकत्या वोपपन्नम् । एवं चरकेऽप्यु-
क्तम् ।

१४४ द्रव्यगुणः ।
रसात् स्तन्यं तथा रक्तमसृजः कण्डराः शिराः ।
व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा ।
युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा ॥
इत्यादि । तदप्युक्तनायात् एवोपपन्नं यदपि मांसादिना
समानेन मांसादेरेव पोषणम् । तदपि धात्वाप्लावनन्यायेन
गच्छतापि रसेन तद्धातुसमानेनांशेन तद्धातुपोषणादुपपन्नम् ।
वृष्यन्तु प्रभावात् यथा खले कपोतन्यायेन विदूरमपि शुक्रं
प्रभावात् शीघ्रं याति तथात्रापि शीघ्रमेव वृष्योत्पन्नो रसो
रक्तादिधातून् शीघ्रमाप्लावयतीति सुघटम् । एवमनया दिशाप्यत्र
दूषणमुद्धार्यम् । तेनायं पक्षस्तावत् साधुः । खले कपोतपक्षेऽपि
यथा रसाद्रक्तमित्यादि गौणतया भवति तद्दर्शितमेव । यत्तु
चरके विवृद्धमार्गत्वान्मांसादीन् प्रपद्यत इत्युक्तं तत् कृत्स्नदेह-
चारिशोणिताभिप्रायेण न तु पोषकरक्ताभिप्रायेणेति व्यवस्था-
प्यते । यत्तु एकैकस्मिन् धातौ त्रीणि त्रीणीत्यादिना धातौ
अवस्थानकाल उक्तः । स पूर्वपूर्वरक्तादिधातुलङ्घनकालो विदू-
रगामिरसस्येति व्यवस्थाप्यते । एवमनयोः पक्षयोर्महाजनपरि-
गृहीतयोर्गतिरुदर्शिता स्वरसस्तु अस्माकं केदारीकुल्यान्‍याये ।
यत्तु अन्यैः खले कपोतन्यायस्वीकारेण चरके सन्ततज्वरस्य
द्वादशाश्रयत्वं युक्तमित्याद्युक्तम् । तन्न बुद्ध्यामहे । येन सन्ततस्य
द्वादशाश्रयत्वं दोषमहिम्ना कृत्स्नदेहव्यापकत्या । यथा धातु
तथा मूत्रं पुरीषञ्चानिलादय इत्यादिनोक्तम् । दोषाणाञ्च कुपि-
तानां सम्प्राप्तिविशेषात् किमगम्यमस्ति देहे येन यावद्रसमेव
परं सर्वधात्वादिव्यापकं सर्वधातुदूषणेऽपेक्षन्त इति ॥ २१ ॥
सम्प्रति प्रसादजन्यतां धातूनामभिधाय उपधातूनामप्याह
रसादिति । अत्रापि रसात् स्तन्यं प्रसादजमित्यादि योज्यम् ।

द्रव्यगुणः । १४५
मांसाद्वसास्त्वचः षट् च मेदसः स्नायुसम्भवः ॥२२॥
रक्तमिति स्त्रीणां रजःसंज्ञं रक्तमप्युपधातुरूपम् । रसादेव रक्तं
प्रसादभागजन्यमित्यर्थः । उक्तञ्च सुश्रुते ।
रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रपद्यते ।
इति । एतच्च रजोरूपं रक्तरसजन्यमपि धातुशोणितवत् न
शीघ्रं जायते किन्तु शुक्रवन्मासेनैव । तदुक्तं सुश्रुते । एवं मासेन
रसः शुक्लीभवति स्त्रीणाञ्च आर्त्तवमिति । अन्ये तु
घृतकुम्भो यथैवाग्निमाश्रितः प्रविलीयते ।
विसर्पत्यार्त्तवं पुंसां तथा स्त्रीणां समागमे ॥
इत्यत्र यथा आर्त्तवशब्देन शुक्रमुच्यते तथा स्त्रीणाञ्च
आर्त्तवमित्यत्रापि आर्त्तवशब्दः शुक्र एव वर्त्तते न तु रजसि ।
रजो हि रसादृक्तवत् शीघ्रमेव जायते न तु मासेन इत्याहुः ।
तन्नेत्यन्ये । विसर्पत्यार्त्तवमित्यादावपि स्त्रीणामात्तं वं पुंसां
समागमे सति विसर्पतीति योजनया आर्त्तवशब्दस्य रजोवच-
नत्वेनाप्युपपत्तेः । वस्तुतस्तु । आर्त्तवस्य रक्तरूपतया यद्यपि
मासादवार्ग्भवति तथापि तस्यार्त्तरूपता गर्भाशयप्राप्त्यैव
भवति । गर्भाशयप्राप्तिस्तु मासेनैव भवतीति कृत्वा मासेनार्त्तवं
भवतीति सुश्रुतेनोक्तम् । उक्तं हि विश्वामित्रेण
सूक्ष्माः केशप्रतीकाशा वीजरक्तवहाः शिराः ।
गर्भाशयं पूरयन्ति मासाद्बोजाय कल्पते ॥
इति । तत्र वीजभूतरक्तं वीजरक्तमार्त्तवमित्यर्थः । असृजः
कण्डरा इति स्थूलस्नायवः । मेदसः स्नायुसम्भव इत्यनेन तु
मेदसःसूक्ष्मा स्नायुपोषकमिति ज्ञेयम् । चरके हि कण्डराशब्दः
स्थूलस्नायुवाची । सुश्रुते च स्थूलशिरावाचीति ज्ञेयम् । एते
च स्नायादयः शरीरधारका अपि उपधातुशब्देनैवोच्यन्ते । तत्तु
१३

१४६ द्रव्यगुणः ।
किट्टमन्नस्य विण्मूत्रं रसस्य तु कफोऽसृजः ।
पित्तं मांसस्य खमला मलः स्वेदस्तु मेदसः ॥
धातुशब्देन धातुशब्दप्रवृत्तेर्धारणपोषणनिमित्तत्वात् । तेन ये
शरीरं धारयन्ति धातूंश्च पुष्णन्ति रसादयस्त एव मुख्यतया धातु-
शब्दवाच्या न स्तन्यादयः ते हि शरीरं धारयन्त्येव न तु कि-
ञ्चित् पुष्णन्ति । उक्तं हि भोजे ।
शिरास्नायूरजस्तन्यस्त्वचो गतिविवर्जिताः ।
धातुभ्यश्चोपजायन्ते तस्मात्ते उपधातवः ॥
इति । अत्र गतिविवर्जिता इत्यनेन धात्वन्तरपोषणाया
गतिर्निषेध्यते । अतएव धातुभ्यश्चोपजायन्त एव न तु परं जन-
यन्तीत्यर्थः । यत्तु किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणमित्यत्र
धातुशब्देन दोषाणामपि ग्रहणम् । तद्गौणधातुशब्दप्रयोगाज्-
ज्ञेयम् । उक्तं हि दोषा ह्यपि धातुसंज्ञां लभन्ते इति । शुक्र-
स्याप्योजःपोषकतया धारणपोषणयोगोऽस्तीति धातुत्वम-
खण्डितमेव । ओजस्तु यद्यपि न धातुषु नाप्युपधातुषु पठितं
तथापि तत् सप्तधातुसाररूपतया सप्तधात्वन्तर्गतमेवेति ज्ञे-
यम् । अतएव तस्याग्निरपि पृथङ्नोक्तः ॥ २२ ॥
प्रसादभागोत्पादनमभिधाय मलभागोत्पादनमाह किट्ट-
मिति । रसस्य तु कफ इति रसात् स्वाग्निपच्यमानात् यः
किट्टभाग इति मलभागः स कफः प्रसादजश्च रक्तं न तु रसो-
त्पत्तिमात्र एव कफो जायत इति । एवं रक्तादिमलेऽपि ज्ञेयम्
मांसस्य खमला इति कर्णनासास्यप्रजननादिस्रोतोमलाः ।
स्यात् किट्टं केशलोमास्थ्न इति । अत्र नखस्याप्यस्थिमलत्वं सु-
श्रुतप्रामाण्यादुन्नेयम् । तत्र हि नखा अप्यस्थिमलत्वेनोक्ताः ।
अतएव बहुधा शीतपीतीये चरकेऽप्युक्तम् किट्टात् केशनखादयः

द्रव्यगुणः । १४७
स्यात्किट्टं केशलोमास्थ्नो मज्ज्ञः स्नेहोऽक्षिविट्त्व-
चाम् ॥२३॥
प्रसादकिट्टधातूंनां पाकादेवं विधर्चुतः ॥ २४ ॥
परस्परोपसंस्तम्भा धातुस्नेहपरंपरा ॥ २५ ॥
पुष्णन्ति इति । यत्तु शरीरे अस्थिगणनायां विंशतिर्नखा
गणिताः तदस्थिसाम्येनोक्तम् । किं वा जीवन्नखस्यास्थित्वं मृत-
नखस्य तु मलत्वं ज्ञेयम् । अत्र केचिदाकृष्टान्डकोषस्य पुंसः
श्मश्रुणोऽभावात् श्मश्रूणि शुक्रमलतया वदन्ति । तन्न तन्त्रे
ऽनभिधानात् श्मश्रुहीनस्यापि शुक्रदर्शनाच्च । मज्ज्ञः स्नेहो-
ऽक्षिविट्त्वचामिति स्नेहस्त्वचामित्यन्वयः । अक्षिविडिति
दूषिका । अत्र मलस्थूलानुभागविशेषेण त्रिविधं परिणामं वर्ण-
यन्ति केचित् । यथा रसादग्निपक्कान्मलं कफः स्थूलभागो
रसः सूक्ष्मभागश्च रक्तम् । तथा रक्तादग्निपच्यमानात् मलं
पित्तं स्थूलभागः शोणितं सूक्ष्मभागस्तु मांसमित्यादि उप-
संहरति ॥ २३ ॥
धातूनां पाकादेवमुक्तक्रमेण प्रसादकिट्टे द्विधा ऋचुतो भवत
इत्यर्थः ॥ २४ ॥
इदानीं यथा पोषकेण रसादिना पोष्यस्य रक्तादेराप्यायनं
क्रियते तथा पोष्येणापि रक्तादिना पोषकस्यापि रसादेरा-
प्यायनं क्रियत इति परस्परधातूनामुपकारकत्वमाह । पर-
स्परमुपस्तम्भः सन्तर्पकत्वं यस्याः सा तथा । धातुस्नेहपरम्परा
धातुरूपसारपरम्परा । अतएवातिव्यवायेन पोष्यस्य शुक्रस्य
क्षयादपि पूर्वपूर्वपोषकधातुक्षयो य उक्तस्तन्त्रान्तरे स उपपद्यत

१४८ द्रव्यगुणः।
अन्नस्य पक्ता सर्वेषां पक्तॄणामधिको मतः ।
तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकः ॥२६॥
तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः ।
पालयेत् प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थितिः ॥२७॥
यो हि भुङ्क्ते विधिं मुक्त्वा ग्रहणीदोषजान् गदान् ।
स लौल्याल्लभते शीघ्रं तस्मान्नोल्लङ्घयेद्विधिम्॥२८॥
प्राणाः प्राणभृतामन्नमन्नं लोकोऽभिधावति ।
वर्णप्रसादसौस्वर्यं जीवितं प्रतिभा सुखम् ॥
तुष्टिः पुष्टिर्बलं मेधा सर्वमन्ने प्रतिष्ठितम् ।
इति ज्ञेयम् । एवमुक्तमग्नीनां कर्मोपसंहरति । इति भौतिक-
धात्वनुरूपपक्तॄणां कर्म भाषितम् ॥ २५ ॥
भौतिकाः पञ्च धात्वग्नयः सप्त अन्नस्य पक्तैकस्त्रयोदश । एषु
एव जाठराग्नेः प्राधान्यमाह अन्नस्येति । हि यस्मात्ते द्वादशा-
ग्नयस्तस्य जाठराग्नेर्वृद्ध्या वृद्ध्यात्मका वृद्धिरूपाः । तथा
क्षयेण च क्षयात्मका हि यस्मात्ते द्वादशाग्नयः क्षीणस्वरूपा
भवन्ति। तस्माज्जाठरानलान्वयव्यतिरेकोऽनुविधायित्वात्तन्मूला
इत्यर्थः ॥ २६ ॥
तस्मात्तं पालयेदिति योज्यम् । विधिवद्युक्तैरिति यथा-
विध्युपयुक्तैः । विधिश्च दर्शित एव ॥ २७ ॥
उक्तविधिविपर्य्यये दोषमाह यो हीत्यादि ॥ २८ ॥
इदानीं यथाविध्युपयुक्तस्यान्नस्य गुणमाह प्राणा इत्यादि ।
अभिधावति प्रार्थयते । किं वा अन्नमित्यनन्तरमुद्दिश्येति शेषः ।
प्रतिभा प्रज्ञा । लौकिकमिति अपरीक्षकलोकभवम् अपरीक्षका

द्रव्यगुणः। १४८
लौकिकं कर्म यद्वृत्तौ स्वर्गत्तौ यच्च वैदिकम् ॥
कर्मापवर्गे यच्चोक्तं तच्चाप्यन्ने प्रतिष्ठितम् ॥२६॥
शीतोष्णतोयासवमद्ययूष-
फलाम्लधान्याम्लपयोरसानाम् ।
यस्यानुपानन्तु हितं भवेद्य-
त्तस्मै प्रदेयं न्विह मात्रया तत् ॥ १ ॥
व्याधिश्च कालश्च विभाव्य धीरै-
र्द्रव्याणि भोज्यानि च तानि तानि ॥२॥
एव हि वर्त्तमानमात्रे प्रवर्त्तन्ते । परीक्षकस्तु जन्मान्तरोप-
कारिष्वेव प्रवर्त्तन्ते प्रायः कर्म यद्वृत्ताविति वर्त्तमाने साध्ये
यत् कर्म कृष्यादि स्वर्गताविति स्वर्गमभीप्सुः करोमीति यज्ञादि ।
अपवर्ग इति मोक्षे । एताय निमित्तमव्ययः । यच्चोक्तमिति ।
मोक्षशास्त्रे सत्यब्रह्मचर्य्यादि । अन्ने प्रतिष्ठितमिति । अन्ननिब-
न्धनदेहस्थित्यभावेन सर्व्वारम्भाभावात् । तस्माद्यथोक्तविधिना
अन्नं सेव्यमित्यर्थः ॥ २६ ॥
इति आहारविधिः ।
आहारानन्तरं हि सुखपाकार्थमनुपानं प्रयुज्यत इत्यनन्तर-
मनुपानमाह । तत्र सर्व्वाण्येवानुपानद्रव्याणि उत्तरत्र विवरीतुं
संक्षेपेण सूत्रयन्नाह शीतेत्यादि । फलाम्लं वीजपूरादि । धा-
न्याम्लं काञ्जिकादि । पयःशब्दस्तद्विकारयोर्वक्ष्यमाणयोर्मस्तु-
तक्रयोरपि ग्राहकः । इक्षुरसस्तु रसशब्देन गृह्यते ॥ १ ॥

१५० द्रव्यगुणः।
स्निग्धोष्णं मारुते शस्तं पित्ते मधुरशीतलम् ।
कफेऽनुपानं रूक्षोष्णं क्षये मांसरसं पयः ॥ ३ ॥
उष्णोदकानुपानन्तु स्नेहानामथ शस्यते ।
ऋते भल्लातकस्नेहात्तत्र तोयं सुशीतलम् ॥ ४ ॥
अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम् ॥ ५ ॥
शीतोष्णतोयादिषु मध्ये यदनुपानं यस्मै हितं भवेत्तस्मै
तदेव देयम् । कथमित्याह । व्याधिं ज्वरादिकं तथा व्याधि-
शब्देन व्याधिहेतवो वातादयोऽपि गृह्यन्ते उपचारात् । एतन्न
सङ्गतमित्यन्ये । युगपद्वृत्तिद्वयापत्तिप्रसङ्गात् । कालमार्त्तव-
मावस्थिकञ्च । द्रव्याणि द्रवप्रधानानि स्नेहादीनि । भोज्यानि
शूकधान्यादीनि । विभाव्येति विशेषेण ज्ञात्वा न सामान्यरूपेण
अवधार्य्य इत्यर्थः ॥ २ ॥
सामान्येनानुपानमभिधाय विशेषेणानुपानेऽभिधातव्ये प्रथमं
दोषविशेषेऽनुपानविशेषमाह स्निग्धोष्णमित्यादि ॥ ३ ॥
दोषभेदेनानुपानभेदमभिधाय द्रव्यभेदेनानुपानभेदे वक्तव्ये
शीतोष्णतोययोः प्रथमं सूत्रितत्वात् प्रथमं तयोर्विषयमाह
उष्णोदकेत्यादि ॥ ऋते भल्लातकस्नेहादिति उष्णोदकानुपान-
स्यापवादः । तत्र तोयं सुशीतलमित्यस्य स्थाने स्नेहात्तौवरि-
कात्तथेति केचित् पठन्ति । तत्र
पत्रैस्तु केशराकारैः फलैः सर्षपसन्निभैः ।
वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः ।
तेन तुवरकफलोद्भवः स्नेहस्तौवरक इत्यर्थः । तेन भल्ला-
तकस्नेहे तौवरकस्नेहेऽप्युष्णजलस्य निषेधाच्छीतजलानुपानमर्था-
ल्लब्धमेव ॥ ४ ॥

द्रव्यगुणः । १५१
शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः ।
दधिपायसमद्यार्ते विषदुष्टे तथैव च ॥ ६ ॥
केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् ॥ ७ ॥
पयोमांसरसो वापि शालिमुद्गादिभोजिनाम् ।
युद्धाध्वातपसन्तापविषमद्यरुजासु च ॥ ८ ॥
मांसादेरनुपानन्तु धान्याम्लं दधि मस्तु वा ॥६॥
अल्पाग्नीनामनिद्राणां तन्द्राशोकभयक्लमैः ।
मद्यमांसोचितानान्तु मद्यमेवानुशस्यते ॥
अमद्यपानामुदकं फलाम्लं वा प्रयोजयेत् ॥ १० ॥
स्नेहप्रसङ्गेनैकीयं मतं तैलानुपाने दर्शयन्नाह अनुपान-
मित्यादि । अत्र यूषाम्लकाञ्जिकमिति उष्णकाले यूषः । शीत-
काले काञ्जिकमित्याहुः ॥ ५ ॥
पिष्टान्नेविदाहरक्षार्थं पायसेऽपि गुरुत्वाद्विदाहरक्षार्थं शीत-
जलानुपानम् ॥ ६ ॥
सुखोदकमिति कटूष्णमुदकम् ॥ ७ ॥
अत्र यदाहारगुणैः पानं विपरीतं तदिष्यत इति वचनात्
शालिषु पयसः समानगुणस्यानुपानत्वं न मन्यमानाः केचित्
पयःस्थाने मस्तु पठन्ति । तन्न मनोरमम् । यतः शालिषु
पयोऽनुपानं शालिप्रभावादेव वचनादुन्नीयते । नहि सर्वत्रानु-
पानि कारणवर्णनं सुगमम् । ८ ॥
धान्याम्लन्तु काञ्जिकम् । दधिमस्तु यद्यपि शीतोष्णतोया-
सवमद्य इत्यादि वचने पूर्वं सूचितं तथापि तत्र पयोग्रहणस्य
गोरसोपलक्षणत्वात् लभ्यते इति प्रागेवोक्तम् ॥ ६ ॥

१५२ द्रव्यगुणः ।
उपवासाध्वभाष्यस्त्रीमारुतातपकर्मभिः ।
क्लान्तानामनुपानार्थं पयः पथ्यं यथामृतम् ॥
सुरा कृशानां स्थूलानामनुशस्तं मधूदकम् ॥११॥
निरामयानां चित्रन्तु भक्तमध्ये प्रकीर्त्तितम् ॥१२॥
क्षीरमिचुरसश्चेति हितं शोणितपित्तिनः ॥१३॥
अर्कशेलुशिरीषाणामासवस्तु विषार्त्तिषु ॥ १४ ॥
यदाहारगुणैः पानं विपरीतं तदिष्यते ।
तच्चानुपानं धातूनां दृष्टं यन्न विरोधि च ॥१५॥
फलाम्लं दाड़िमादि ॥ १० ॥
कृशानां सुरा अनुशस्ता । स्थूलानान्तु मधूदकमनुशस्त-
मिति सम्बन्धः । मधुमिश्रितमुदकं मधूदकम् ॥ ११ ॥
सुस्थमधिकृत्यानुपानमाह निरामयाणामित्यादि । चित्र-
मिति नानाप्रकारं येन नानाप्रकारा दोषधातुमलाः स्वमान-
मनुवर्त्तन्ते । सामयानान्तु अनुपानं वातादिदोषापेक्षयैव देयम् ।
तच्च स्निग्धोष्णं मारुते शस्तं इत्यादिना प्रागेवोक्तम् ॥ १२ ॥
शीतोष्णतोयेत्यादिसूत्रे इक्षुरसस्यापि रसशब्देनाभिधा-
नात् । इक्षुरसोऽपि अनुपाने सूत्रित इति तदभिधानम्
नोत्सूत्रम् ॥ १३ ॥
विषार्त्तिषु देयमनुपानमाह अर्केत्यादि ॥ १४ ॥
अनुक्तानुपानज्ञानार्थमाह यदाहारेत्यादि ॥ आहारगुणै-
रिति शीतस्नेहमधुरादिभिः । विपरीतमिति विपरीतगुणमनु-
पेयम् । एवञ्च दध्नोऽम्लस्य मधुरं क्षीरं तथा पायसस्य च ।
काञ्जिकाद्यनुपानं स्यादित्यत आह । धातूनां यन्न विरोधि

द्रव्यगुणः । १५३
दोषवद्गुरु वा भुक्तमतिमात्रमथापि वा ।
यथोक्तेनानुपानेन सुखमन्नं प्रजीर्य्यति ॥ १६ ॥
रोचनं वृंहणं वृष्यं दोषघ्नं वातभेदनम् ।
तर्पणं मार्द्दवकरं श्रमक्लमहरं सुखम् ॥
दीपनं दोषशमनं पिपासाच्छेदनं परम् ।
वल्यं वलकरं सम्यगनुपानं सदोच्यते ॥ १७ ॥
तदादाै कर्षयेत्पीतं स्थापयेन्मध्यसेवितम् ।
पश्चात्पीतं वृंहयति तस्मादौच्य प्रयोजयेत् ॥ १८ ॥
चेति । एवं दध्यादिषु अम्लेषु क्षीराद्यनुपीयमानं धातुविरोध-
मावहतीति न तदनुपानमित्यर्थः । एवमन्यदपि विरुद्धमुन्ने-
यम् ॥ १५ ॥
अनुपानगुणमाह दोषवदित्यादि । दोषवदिति वातादि-
दोषकरम् । गुर्विति स्वभावगुरु लड्डुकपिटकादि । मात्रा-
गुरोस्तु अतिमात्रपदेन निर्दिष्टत्वात् ॥ १६ ॥
पुनः प्रशस्तं गुणमाह रोचनमित्यादि ॥ १७ ॥
अनुपानस्य भोजनादिमध्यान्तविभागेन गुणविशेषमाह-
तदादावित्यादि । आदौ पीतं वायुना अधोगतेन रूक्षी-
कृतम् आहाराकाङ्क्षाविरोधकतया च देहं कर्षयति । एतच्च
यद्यपि कस्यचित् पश्चान्न भवतीत्यतोऽनुपानार्थो न घटते अनु-
शब्दस्य पश्चादर्थत्वात् तथापि पानस्य सर्वकालिकत्वात् उप-
न्यस्तम् । किं वा अनुशब्दो लक्षणार्थः । तेन भाविभोजनं
तृष्णाञ्चानु लक्षीकृत्य पीयत इत्यनुपानमित्यर्थः । स्थापयेन्मध्य-
सेवितमिति । भोजनमध्ये सेवितमनुपानं पित्तस्य स्नेहेन

१५४ द्रव्यगुणः ।
स्थिरतां गतिमक्लिन्नमन्नमद्रवपायिनाम् ।
भवत्याबाधजननमनुपानमतः पिबेत् ॥ १९ ॥
न पिबेत् श्वासकासार्त्तो रोगे चाप्यूर्ध्वजत्रुगे ।
क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः ॥ २० ॥
पीत्वाध्वभाष्याध्ययनस्वप्नगेयान्न शीलयेत् ।
प्रदूष्यामाशयं तद्धि तस्य कंठोरसि स्थितम् ॥
स्यन्दाग्निसादच्छर्द्यादीन् जनयेदामयान् बहून॥ २१ ॥
अनुपानं प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलम् ।
पलद्वयन्त्वनिलजे पित्तजे तु पलत्रयम् ॥ २२ ॥
———
युक्तं सत् शरीरं समं स्थापयति । पश्चात् पीतञ्च श्लेष्मप्रस-
ङ्गात् स्निग्धतरं सद्बृंहयति । वीक्ष्य प्रयोजयेदिति कर्षणादि-
कार्य्यमपेक्ष्य प्रयोजयेदित्यर्थः ॥ १८ ॥
अनुपानाभावे दोषमाह स्थिरतामित्यादि ॥ १९ ॥
विषयविशेषेऽनुपाननिषेधमाह न पिवेदित्यादि । अत्र
केचिद्द्रवं विना जारणाभावात् नञश्च ईषदर्थत्वात् अल्पं पिबे-
दित्यर्थं वदन्ति ॥ २० ॥
द्रवं पीत्वा यन्न कार्य्यं करणे वा यो दोषस्तमाह । कण्ठो-
रसि स्थितमिति अध्वादिश्लोभितवातेनोर्ध्वं नीतत्वात् । स्यन्दः
कफप्रसेकः ॥ २१ ॥
अनुपानमात्रामाह अनुपानमित्यादि ॥ २२ ॥
इति अनुपानविधिः।

द्रव्यगुणः। १५५
अत ऊर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम् ।
कर्मभिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः ॥१॥
ह्लादनः स्तम्भनः शीतो मूर्च्छाटट्क्केददाहजित् ।
उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः ॥ २ ॥
स्नेह्मार्दवकृत् स्निग्धो बलवर्णकरस्तथा ।
रूक्षस्तद्विपरीतः स्याल्लेखनः स्तम्भनः खरः ॥ ३ ॥
पिच्छिलः पीड़नो बल्यः सन्धानः श्लेष्मलो गुरुः॥४
विशदो विपरीतः स्यात् क्लेदावृषणरोपणः ॥५॥
दाहपाककरस्तीक्ष्णः स्त्रावणो मृदुरन्यथा ॥ ६ ॥
अनुपानादौ प्रतिपादिता ये गुणास्ते हेयोपादेयका-
र्य्यकर्त्तृतयैव हेया उपादेया वा तेषाञ्च कार्य्यं कथं ज्ञातव्य-
मिति जिज्ञासायां गुणानां कर्माभिधातुं प्रकरणान्तरमारभते ।
अत ऊर्ध्वमित्यादि । कर्मेति कार्य्यं कार्य्यावच्छिन्ना वा क्रिया ।
यद्यप्यत्रापि शीतपिच्छिलादयः प्रत्यक्षास्तथापि ते तत्कार्य्य-
कर्त्तृतया अनुमेया एवेति कर्मभिस्त्वनुमीयन्त इत्युक्तम् ।
नाना च ते द्रव्याश्रयाश्चेति नानाद्रव्याश्रयाः ॥ १ ॥
ह्लादनः सुखकारक इत्यर्थः । स्तम्भनो रक्तातिप्रवृत्त्या-
दीनाम् । शीत इति शीतगुणः । पाचनो व्रणस्य आमस्य ॥२॥
खर इति खरत्वं कार्कश्यं तत्कर इति । ३ ॥
पीड़न इति व्रणपीड़नः ॥ ४ ॥
क्लेदावृषण इति क्लेदहारकः ॥ ५ ॥
स्रावण इति व्रणनयनस्रावणः । मृदुरन्यथेति तीक्ष्णविप-
रीतकर्मेत्यर्थः ॥ ६ ॥

१५६ द्रव्यगुणः ।
सादोपलेपबलकृत् गुरुस्तर्पणवृंहणः ॥ ७ ॥
लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा ।
दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषणैः ॥
दशैवान्यान् प्रवक्ष्यामि द्रवादींस्तन्निबोध मे ॥ ८॥
द्रवः प्रक्लेदनः सान्द्रः स्थूलः स्याद् वृन्दकारकः॥६॥
श्लक्ष्णः पिच्छिलवज्ज्ञेयः कफलो विशदो यथा॥१०•
सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ॥११॥
दुर्गन्धो विपरीतोऽस्मात् हृल्लासारुचिकारकः॥१२॥
सादोऽग्निससादः ॥ ७ ॥
कर्म इति ल्यब्लोपे पञ्चमी । तेन कर्म पुरस्कृत्य प्रोक्त
इत्यर्थः । तेषां गुणानां मध्ये विशिष्टैः कर्मभिरन्यान् दश प्रव-
क्ष्यामोत्यर्थः ॥ ८ ॥
सान्द्र इति सान्द्रगुणः । वृन्दो मेलक उपचय इति यावत्
तत्कारकः । केचित्तु
द्रवः प्रक्लेदनो व्यापी शुष्कः स्याद् द्वन्द्वकारकः ।
इति पठन्ति । तत्र शुष्क इति शुष्कगुण इत्यर्थः ॥ ६ ॥
सुगन्धगुणमाह सुखानुबन्धीत्यादि । सुखानुबन्धी सुखज-
नकः । सूक्ष्म इत्यवगाहकः । शोभनो गन्धः सुगन्धः ॥ ११ ॥
विपरीत इति दुःखानुबन्धी । तथा नैव पुरुषमवगाहते
अनभिलषितत्वात् । सुगन्धवैपरीत्येनैवारुचौ लब्धायां पुनस्त-
द्वचनं द्विविधारुचिज्ञापनार्थम् । द्विविधो हि अरोचकः । तत्रैकः
अनन्नाभिलाषरूपः । द्वितीयस्तु सत्यपि अभिलाषे अव्यवहारा-
सामर्थ्यरूपः ॥ १२ ॥