सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 158, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 158

१५० द्रव्यगुणः।
स्निग्धोष्णं मारुते शस्तं पित्ते मधुरशीतलम् ।
कफेऽनुपानं रूक्षोष्णं क्षये मांसरसं पयः ॥ ३ ॥
उष्णोदकानुपानन्तु स्नेहानामथ शस्यते ।
ऋते भल्लातकस्नेहात्तत्र तोयं सुशीतलम् ॥ ४ ॥
अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम् ॥ ५ ॥
शीतोष्णतोयादिषु मध्ये यदनुपानं यस्मै हितं भवेत्तस्मै
तदेव देयम् । कथमित्याह । व्याधिं ज्वरादिकं तथा व्याधि-
शब्देन व्याधिहेतवो वातादयोऽपि गृह्यन्ते उपचारात् । एतन्न
सङ्गतमित्यन्ये । युगपद्वृत्तिद्वयापत्तिप्रसङ्गात् । कालमार्त्तव-
मावस्थिकञ्च । द्रव्याणि द्रवप्रधानानि स्नेहादीनि । भोज्यानि
शूकधान्यादीनि । विभाव्येति विशेषेण ज्ञात्वा न सामान्यरूपेण
अवधार्य्य इत्यर्थः ॥ २ ॥
सामान्येनानुपानमभिधाय विशेषेणानुपानेऽभिधातव्ये प्रथमं
दोषविशेषेऽनुपानविशेषमाह स्निग्धोष्णमित्यादि ॥ ३ ॥
दोषभेदेनानुपानभेदमभिधाय द्रव्यभेदेनानुपानभेदे वक्तव्ये
शीतोष्णतोययोः प्रथमं सूत्रितत्वात् प्रथमं तयोर्विषयमाह
उष्णोदकेत्यादि ॥ ऋते भल्लातकस्नेहादिति उष्णोदकानुपान-
स्यापवादः । तत्र तोयं सुशीतलमित्यस्य स्थाने स्नेहात्तौवरि-
कात्तथेति केचित् पठन्ति । तत्र
पत्रैस्तु केशराकारैः फलैः सर्षपसन्निभैः ।
वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः ।
तेन तुवरकफलोद्भवः स्नेहस्तौवरक इत्यर्थः । तेन भल्ला-
तकस्नेहे तौवरकस्नेहेऽप्युष्णजलस्य निषेधाच्छीतजलानुपानमर्था-
ल्लब्धमेव ॥ ४ ॥