दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
८४ दशरूपकं [ प्रकाशः ४
अथ गर्वः—
गर्वोऽभिजनलावण्यबलैश्वर्यादिभिर्मदः ।
कर्माण्यधर्षणावज्ञा सविलासाङ्गवीक्षणम् ॥ १९ ॥
यथा वीरचरिते ( २।२७ )—
‘मुनिरयमथ वीरस्तादृशस्तत्प्रियं मे विरमतु परिकम्पः कातरे क्षत्रियाऽसि ।
तपसि विततकीर्तेर्दपकण्डूलदोष्र्णः परिचरणसमर्थो राघवः क्षत्रियोऽहम् ॥’
यथा वा तत्रैव—
‘ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥’ ( वीर० २।१० )
अथ स्मृतिः—
सदृशज्ञानचिन्ताद्यैः संस्कारात्स्मृतिरत्र च ।
ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नयनादयः ॥ २० ॥
यथा—
‘मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं
शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि ।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावण-
मा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥’
यथा वा मालतीमाधवे—‘माधवः—मम हि प्राक्तनोपलम्भसंभाविता-
त्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतायमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृ-
प्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति वृत्तिसारूप्यत-
श्चैतन्यम् ।
‘लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च
प्रत्युप्तेव च वज्रसारघटितेवान्तर्निखातेव च ।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि-
श्चिन्तासंततितन्तुजालनिविडस्यूतेव लग्ना प्रिया ॥’ ( मालती० ५।१० )
अथ मरणम्—
मरणं सुप्रसिद्धत्वादनर्थत्वाच्च नोच्यते ।
यथा—
‘संप्राप्तेऽवधिवासरे क्षणमनु स्वद्वर्त्मवातायनं
वारंवारमुपेत्य निष्क्रियतया निश्चिल्य किंचिच्चिरम् ।
संप्रत्येव निवेद्य केलिकुररीं साश्रं सखीभ्यः कृशो-
र्मध्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥’
इत्यादिवच्छृङ्गारस्यालम्बनत्वेन मरणे व्यवसायमात्रमुपनिबन्धनीयम् । अन्यत्र
कामचारः । यथा वीरचरिते—‘पश्यन्तु भवन्तस्ताडकाम्—...
श्लो० १९–२४ ] अवलोकसमेतम् । ८५
'हृन्मर्मभेदिपतदुत्कटकङ्कपत्रसंवेगतत्क्षणकृतस्फुरदङ्गभङ्गा ।
नासाकुटीरकुहरद्वयतुल्यनिर्यदुद्बुद्बुद्ध्वनदसृक्प्रसरा मृतेव ॥'
( वीर० १।३९ )
अथ मदः—
हर्षोत्कर्षो मदः पानात्स्खलदङ्गवचोगतिः ॥ २१ ॥
निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमादिषु ।
यथा माघे ( १०।१३ )—
'हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः ।
चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥'
इत्यादि ।
अथ सुप्तम्—
सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्वासक्रियापरम् ॥ २२ ॥
यथा—
लघूनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने ।
परिहरति सुपुप्तं हालिकद्वन्द्वमारात्कुचकलशमहोष्मावद्धरेखस्तुषारः ॥'
अथ निद्रा—
मनःसंमीलनं निद्रा चिन्तालस्यक्लमादिभिः ।
तत्र जृम्भाङ्गभङ्गाक्षीमीलनोच्छ्वसतादयः ॥ २३ ॥
यथा ( विल्हणः )—
'निद्रार्धमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि ।
अद्यापि मे मृगदृशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥'
यथा च माघे ( ११।४ )—
'प्रहरकमपनीय खं निदिद्रासतोच्चैः प्रतिपदमपहूतः केनचिज्जागृहीति ।
मुहुरविशदवर्णं निद्रया शून्यशून्यां दददपि गिरमन्तर्बुद्ध्यते नो मनुष्यः ॥'
अथ विबोधः—
विबोधः परिणामादेस्तत्र जृम्भाक्षिमर्दने ।
यथा माघे ( ११।१३ )—
'चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥'
अथ व्रीडा—
दुराचारादिभिर्व्रीडा धार्ष्ट्याभावस्तदुच्यतेत् ।
साचीकृताङ्गावरणवैवर्ण्याधोमुखादिभिः ॥ २४ ॥
यथामरुशतके ( श्लो० ४१ )—
'पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
१ 'उच्छ्वासनादयः' इति पाठः.
द० ८
८६ दशरूपकं [ प्रकाशः ४
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यल्यन्तः प्रथमपरिहासे नववधूः ॥'
अथापस्मारः-
आवेशो ग्रहदुःखायैरपस्मारो यथाविधिः ।
भूपात कम्पप्रस्वेदलालाफेनोद्गमादयः ॥ २५ ॥
यथा माघे (३।७२)-
'आश्लिष्टभूमिं रसतारमुच्चैर्लोलद्धुजाकारवृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥'
अथ मोहः-
मोहो विचित्तता भीतिदुःखावेशानुचिन्तनैः ।
तत्राज्ञानभ्रमाघातघूर्णनादर्शनादयः ॥ २६ ॥
यथा कुमारसंभवे (३।७३)-
'तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥'
यथा चोत्तररामचरिते (१।३५)-
'विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥'
अथ मतिः-
भ्रान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीर्मतिः ।
यथा किराते (२।३०)-
'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥'
यथा च-
'न पण्डिताः साहसिक भवन्ति श्रुत्वापि ते संतुलयन्ति तत्त्वम् ।
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥'
अथालस्यम्-
आलस्यं श्रमगर्भादेर्जह्ययजृम्भासितादिमत् ॥ २७ ॥
यथा ममैव-
'चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालिनाम् ।
आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥'
अथावेगः-
आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो
वातात्पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः ।
१ 'मायाभियोगो' इति पाठः.
श्लो० २५–२८ ] अवलोकसमेतम् । ८७
उत्पातात्त्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा
वह्नेर्धूमाकुलास्यः करिजमनु भयस्तम्भकम्पापसाराः ॥ २८॥
अभिसरः=राजविद्रवादिः, तद्धेतुरावेगः । यथा ममैव—
‘आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे
खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्गप्रविष्टम् ।
संरम्भोन्निद्रितानां क्षितिमृति गहनेऽन्योन्यमेवं प्रतीच्छन्
वादः क्षप्राभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥’
इत्यादि ।
‘तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः ।
इति शुश्रुविरे विश्वगुद्धटाः सुभटोक्तयः ॥’
यथा वा—
‘प्रारब्धां तरुपुत्रकेषु सहसा संत्यज्य सेकक्रिया-
मेतास्तापसकन्यकाः किमिदमित्यालोकयन्त्याकुलाः ।
आरोहन्त्युटजद्रुमांश्च वटवो वाचंयमा अप्यमी
सद्यो मुक्तसमाधयो निजवृसीष्वेवोच्चपादं स्थिताः ॥’
वातावेगो यथा—‘वाताहतं वसनमाकुलमुत्तरीयम्’ इत्यादि ।
वर्षजो यथा—
‘देवे वर्षत्यशनपवनव्यापृता वह्निहेतो-
र्गेहाद्गेहं फलकनिचितैः सेतुभिः पङ्कसीताः ।
नीध्रप्रान्तप्रविरलजलान्पाणिभिस्ताडयित्वा
शूर्पच्छत्रस्थगितशिरसो योषितः संचरन्ति ॥’
उत्पातजो यथा—
‘पौलस्त्यपीनभुजसंपदुदस्यमानकैलाससंभ्रमविलोळदृशः प्रियायाः ।
श्रेयांसि वो दिशतु निहुतकोपचिह्नमलिङ्गितोत्पुलकमासितमिन्दुमौलेः ॥’
अहितकृतस्त्वनिष्टदर्शनश्रवणाभ्याम् । तथथोदात्तराघवे—‘चित्रमयः—
( ससंभ्रमम् ।) भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम् । (इत्याकुलतां
नाटयति ।)’ इत्यादि । पुनः ‘चित्रमयः—
मृगरूपं परित्यज्य विधाय विकटं वपुः ।
नीयते रक्षसानेन लक्ष्मणो युधि संशयम् ॥
रामः—
वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसा-
त्र्रस्तश्चैष मुनिर्बिरौति मनसश्चास्त्येव मे संभ्रमः ।
माहासीर्जनकात्मजामिति मुहुः स्नेहाद्गुरुर्याचते
न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥’
इत्यन्तेनानिष्टप्राप्तिकृतसंभ्रमः ।
८८ दशरूपकं [ प्रकाशः ४
इष्टप्राप्तिकृतो यथात्रैव—'(प्रविश्य पटाक्षेपेण संभ्रान्तो वानरः ।) वानरः—
मेहराज, एदं खु पवणगंदणागमणेण पहरिस-' इत्यादि 'देवैस्स हिअआणंद-
जणणं विअलिदं मधुवणं ।' इत्यन्तम् ।
यथा वा वीरचरिते ( १।५५ )—
'एह्येहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरस्य परिष्वजे त्वाम् ।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥'
वह्निजो यथामरुशतके ( श्लो० २ )—
'क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन्त्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥'
यथा वा रत्नावल्याम् ( ४।१६ )—
विरम विरम वहे मुञ्च धूमाकुलत्वं प्रसरयसि किमुच्चैरर्चिषां चक्रवालम् ।
विरहहुतभुजाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं लं करोषि ॥'
करिजो यथा रघुवंशे ( ५।४९ )—
'स च्छिन्नबन्धद्रुतयुग्मशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥'
करिग्रहणं व्यालोपलक्षणार्थम् । तेन व्याघ्रशूकरवानरादिप्रभवा आवेग
व्याख्याताः ।
अथ वितर्कः—
तर्को विचारः संदेहाद्भूशिरोऽङ्गुलिनर्तकः ।
यथा—
'किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं
सद्यः स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा ।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु-
र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥'
अथवा,—
'कः समुचिताभिषेकादार्यं प्रच्यवयेद्गुणज्येष्ठम् ।
मन्ये ममैष पुण्यैः सेवावसरः कृतो विधिना ॥'
अथावहित्थम्—
लज्जाद्यैर्विक्रियागुप्ताववहित्थाङ्गविक्रिया ।
१ 'महाराज, एतत्खलु पवननन्दनागमनेन प्रहर्ष—' इति च्छाया. २ 'देवस्य
हृदयानन्दजननं विदलितं मधुवनम्' इति च्छाया.
पृ० २९)—'हा आर्ये ताडके, किं हि नामैतत् । अम्बुनिLine 26:मज्जन्त्यलाबूनि, ग्रावाणः प्लवन्ते ।Line 27:'नन्वेष राक्षसपतेः स्खलितः प्रतापः प्राप्तोऽद्भुतः परिभवो हि मनुष्यपोतात् ।Line 28:दृष्टः स्थितेन च मया स्वजनप्रमाथो दैन्यं जरा च निरुणद्धि कथं करोमि ॥'Line 29:( वीर० १।४० )Line 30:अथौत्सुक्यम्—Line 31:कालाक्षमत्वमौत्सुक्यं रम्येच्छारतिसंभ्रमैः ।Line 32:तत्रोच्छ्वासत्वैनिःश्वासहृत्तापस्वेदविभ्रमाः ॥ ३२ ॥Line 33:यथा कुमारसंभवे ( ७।२२ )—Line 34:'आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी ।Line 35:हरोपयाने
९० दशरूपकं [ प्रकाशः ४
यथा वा तत्रैव—
‘पशुपतिरपि तान्यहानि कृच्छ्रादनिनयद्रद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥’
( कुमार० ६।९५ )
अथ चापलम्—
मात्सर्यद्वेषरागादेश्चापलं त्वनवस्थितिः ।
तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ ३३ ॥
यथा विकटनितम्बायाः—
‘अन्यास तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु ।
बालामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥’
यथा वा—
‘विनिकषणरणत्कठोरदंष्ट्राक्रकचविशङ्कटकन्दरोदराणि ।
अहमहमिकया पतन्तु कोपात्सममधुनैव किमत्र मन्मुखानि ॥’
अथवा प्रस्तुतमेव तावत्सुविहितं करिष्ये ।’ इति ।
अन्ये च चित्तवृत्तिविशेषा एतेषामेव विभावानुभावस्वरूपानुप्रवेशान्न पृथ-
ग्वाच्याः ।
अथ स्थायी—
विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः ।
आत्मभावं नयत्यान्यान्स स्थायी लवणाकरः ॥ ३४ ॥
सजातीयविजातीयभावान्तरैरतिरस्कृतत्वेनोपनिबध्यमानो रत्यादिः स्थायी ।
यथा वृहत्कथायां नरवाहनदत्तस्य मदनमञ्जूषायामनुरागः । तत्तदवान्तरानैक-
नायिकानुरागैरतिरस्कृतः स्थायी । यथा च मालतीमाधवे श्मशानाङ्के बीभ-
त्सेन मालत्यानुरागस्यातिरस्कारो मम हि प्राक्तनोपलम्भसंभावितात्मजन्मनः
संस्कारस्यानवरतप्रबोधात्प्रतीयमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रिय-
तमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमित्र करोत्यन्तर्वृत्तिसारूप्यतश्चैतन्यमित्यादि-
नोपनिबद्धः । तदनेन प्रकारेण विरोधिनामविरोधिनां च समावेशो न
विरोधी । तथा हि—विरोधः सहानवस्थानं बाध्यबाधकभावो वा । उभयरूपेणापि
न तावत्तादात्म्यमनैकरूपत्वेनैवाविर्भावात् । स्थायिनां च विभावादीनां यदि
विरोधस्तत्रापि न तावत्सहानवस्थानं रत्याद्युपरक्ते चेतसि एकसूत्रन्यायेनावि-
रोधिनां व्यभिचारिणां चोपनिबन्धः समस्तभावकस्वसंवेदनसिद्धः । यथैव
खसंवेदनसिद्धस्तथैव काव्यव्यापारसंरम्भेणानुकार्येऽप्यावेश्यमानः स्वचेतःसंभे-
देन तथाविधानन्दसंविदुन्मीलनहेतुः संपद्यते । तस्मान्न तावद्भावानां सहानव-
स्थानम् । बाध्यबाधकभावस्तु भावान्तरैर्भावान्तरतिरस्कारः । स च व्यभिचा-
रिणां स्थायिनामविरुद्धव्यभिचारिभिः स्थायिनोऽविरुद्धस्तेषामङ्गत्वात्प्रधानविरुद्धस्य
चाङ्गत्वायोगादानन्तर्यविरोधित्वमप्यनेन प्रकारेणापास्तं भवति । तथा च मालती-
माधवे शृङ्गारानन्तरं बीभत्सोपनिबन्धेऽपि न किंचिद्दैरस्यं तदेवमेव स्थिते
श्लो० ३३-३४ ] अवलोकसमेतम् । ९१
विरुद्धरसैकावलम्बनत्वमेव विरोधे हेतुः । सत्त्वविरुद्धरसान्तरव्यवधानेनोपनिब-
ध्यमानो न विरोधी । यथा—
'अेण्णहुणाहमहेलिअहुजुहुपरिमलुसुसुअंधु ।
मुहुकंतह अगत्थहअंग ण फिट्टइ गंधु ॥'
इत्यत्र वीभत्सरसस्याङ्गभूतसान्तरव्यवधानेन शृङ्गारसमावेशो न विरुद्धः प्रका-
रान्तरैरेकाश्रयविरोधी परिहर्त्तव्यः । ननु यत्रैकतात्पर्येणेतरेषां विरुद्धानामविरु-
द्धानां च न्यग्भूतत्वेनोपादानं तत्र भवत्वङ्गत्वेनाविरोधः । यत्र तु समप्रधान-
त्वेनानेकस्य भावस्योपनिबन्धनं तत्र कथम् । यथा—
'ऐक्कत्तो रुअइ पिआ अण्णत्तो समरतूरणिग्घोसो ।
पेम्मेण रणरसेण अ भडस्स डोलाइअं हिअअं ॥'
इत्यादौ रत्युत्साहयोः । यथा वा (शृंगार० ३६)—
'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु ।
सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥'
इत्यादौ रतिशमयोः । यथा च—
'इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः
स चायं दुष्टात्मा खसुरपकृतं येन मम तत् ।
इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः
कृतो वेपश्वायं कथमिदमिति भ्राम्यति मनः ॥'
इत्यादौ तु रतिक्रोधयोः ।
'अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल-
व्यक्तोत्तंसभृतः पिनद्धशिरसा हृत्पुण्डरीकस्रजः ।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिव-
न्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥'
(मालती० ५।१८)
इत्यादावेकाश्रयत्वेन रतिजुगुप्सयोः ।
'एकं ध्याननिमीलनानमुकुलितं चक्षुर्द्वितीयं पुनः
पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम् ।
अन्यद्दूरनिकृष्टचापमदनक्रोधनलोद्दीपितं
शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥'
इत्यादौ शमरतिक्रोधानाम् ।
'एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थं
भानोर्बिम्बं सजललुलितेनापरेणात्मकान्तम् ।
१ नितान्तास्फुटत्वादस्य श्लोकस्य व्याख्या न लिख्यतेऽस्माभिः.
२ 'एकतो रोदिति प्रियान्यतः समरतूर्यनिर्घोषः ।
प्रेम्णा रणरसेन च भटस्य दोलायितं हृदयम् ॥' इति च्छाया.
९२ दशरूपकं [ प्रकाशः ४
अहश्छेदे दयितविरहाशङ्किनी चक्रवाकी
द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥'
इत्यादौ रतिशोकक्रोधानां समप्राधान्येनोपनिबन्धस्तत्कथं न विरोधः ? अत्रो-
च्यते—अत्राप्येक एव स्थायी । तथा हि—'एक्कत्तो रुअइ पिआ' इत्यादौ
स्थायिभूतोत्साहव्यभिचारिलक्षणवितर्कभावहेतुसंदेहकारणतया करुणसंग्रामतूर्य-
योरुपादानं वीरमेव पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादितम् । न च द्वयोः
समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेकवाक्यभावो युज्यते । किंचो-
पक्रान्ते संग्रामे सुभटानां कार्यान्तरकरणेन प्रस्तुतसंग्रामौदासीन्येन महद-
नौचित्यम् । अतो भर्तुः संग्रामैकरसिकतया शौर्यमेव प्रकाशयन्प्रियतमाकरुणो
वीरमेव पुष्णाति । एवम् 'मात्सर्यम्—' इत्यादावपि चिरप्रवृत्तरतिवासनाया
हेयतयोपादानाच्छमैकपरत्वम् 'आर्याः समर्यादम्' इत्यनेन प्रकाशितम् ।
एवम् 'इयं सा लोलाक्षी' इत्यादावपि रावणस्य प्रतिपक्षनायकतया निशाचर-
त्वेन मायाप्रधानतया च रौद्रव्यभिचारिविषादविभाववितर्कहेतुतया रतिक्रोध-
योरुपादानं रौद्रपरमेव । 'अङ्गैः कल्पितमङ्गलप्रतिसराः' इत्यादौ हास्यरसैक-
परत्वमेव । 'एकं ध्याननिमीलनात्' इत्यादौ शंभोर्भावान्तरैरनाक्षिप्ततया
शमस्थस्यापि योग्यन्तरशमाद्वैलक्षण्यप्रतिपादनेन शमैकपरतैव 'समाधिसमये'
इत्यनेन स्फुटीकृता । 'एकेनाक्ष्णा' इत्यादौ तु समस्तमपि वाक्यं भविष्यद्विप्र-
लम्भविषयमिति न क्वचिदनेकतात्पर्यम् । यत्र तु श्लेषादिवाक्येष्वनेकतात्पर्य-
मपि तत्र वाक्यार्थभेदेन स्वतन्त्रतया चार्थद्वयपरतेत्यदोषः । यथा—
'श्लाघ्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित-
त्रैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः ।
बिभ्राणां मुखमिन्दुसुन्दररुचं चन्द्रात्सचक्षुर्द्वध-
त्स्थाने यां स्तनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् ॥'
इत्यादौ । तदेवमुक्तप्रकारेण रत्याद्युपनिबन्धे सर्वत्राविरोधः । यथा वा श्रूय-
माणरत्यादिपदेष्वपि वाक्येषु तत्रैव तात्पर्यं तथाग्रे दर्शयिष्यामः ।
ते च—
रत्युत्साहजुगुप्साः क्रोधो हासः स्मयो भयं शोकः ।
शममपि केचित्प्राहुः पुष्टिर्नाट्येषु नैतस्य ॥ ३५ ॥
इह शान्तरसं प्रति वादिनामनेकविधा विप्रतिपत्तयः । तत्र केचिदाहुः—
नास्त्येव शान्तो रसः । तस्याचार्येण विभावाद्यप्रतिपादनाल्लक्षणाकरणात् । अन्ये
तु वस्तुतस्तस्याभावं वर्णयन्ति । अनादिकालप्रवाहायातरागद्वेषयोरुच्छेत्तुमश-
क्यत्वात् । अन्ये तु वीरबीभत्सादावन्तर्भावं वर्णयन्ति । एवं वदन्तः शममपि
नेच्छन्ति । यथा तथास्तु । सर्वथा नाटकादावभिनयात्मनि स्थायित्वमस्माभिः
शमस्य निषिध्यते । तस्य समस्तव्यापारप्रविलयरूप
श्लो० ३५–३६ ] अवलोकसमेतम् । ९३
प्रवृत्तेन विद्याधरचक्रवर्तित्वप्राप्त्याऽविरुद्धम् । न ह्येकानुकार्यविभावालम्बनौ विष-
यानुरागापरागानुपलब्धौ । अतो दयावीरोत्साहस्यैव तत्र स्थायित्वम् । तत्रैव
शृङ्गारस्याङ्गत्वेन चक्रवर्तित्वावाप्तेश्च फलत्वेनाविरोधादीप्सितमेव च सर्वत्र कर्त-
व्यमिति परोपकारप्रवृत्तस्य विजिगीषोर्नान्तरीयकतया फलं संपद्यत इत्यावेदित-
मेव प्राक् । अतोऽष्टावेव स्थायिनः । ननु च 'रसनाद्रसत्वमेषां मधुरादीना-
मिवोक्तमाचार्यैः । निर्वेदादिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः ॥' इत्यादिना
रसान्तराणामप्यन्यैरभ्युपगतत्वात्स्थायिनोऽप्यन्ये कल्पिता इत्यवधारणानुपपत्तिः ।
अत्रोच्यते—
निर्वेदादिरताद्रूप्यादस्थायी स्वदते कथम् ।
[L
९४ दशरूपकं [ प्रकाशः ४
इत्यादावनुरागजन्यावस्थाविशेषानुभाववद्गिरिजालक्षणविभावोपवर्णनादेवाऽशब्दापि
शृङ्गारप्रतीतिरुदेति । रसान्तरेष्वप्ययमेव न्यायः । न केवलं रसेष्वेव यावद्व-
स्तुमात्रेऽपि । यथा ( गाथा० २।७५ )—
'भम धम्मिअ वीसद्धो सो सुणहो अज्ज मारिओ तेण ।
गोलाणइकच्छकुडंगवासिणा दरिअसीहेण ॥'
इत्यादौ निषेधप्रतिपत्तिरशब्दापि व्यञ्जकशक्तिमूलैव । तथालंकारेष्वपि—
'लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन्स्मेरेऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥'
इत्यादिषु चन्द्रतुल्यं तन्वीवदनारविन्दमित्याद्युपमाद्यलंकारप्रतिपत्तिर्व्यञ्जकत्वनि-
बन्धनेति । न चासावर्थापत्तिजन्या । अनुपपद्यमानार्थापेक्षाभावात् । नापि
वाक्यार्थत्वम्, व्यङ्ग्यस्य तृतीयकक्षाविषयत्वात् । तथाहि—'भ्रम धार्मिक' इत्यादौ
पदार्थविषयाभिधालक्षणप्रथमकक्षातिक्रान्तक्रियाकारकसंसर्गात्मकविधिविषयवा-
क्यार्थकक्षातिक्रान्ततृतीयकक्षाक्रान्तो निषेधात्मा व्यङ्ग्यलक्षणोऽर्थो व्यञ्जकश-
क्त्यधीनः स्फुटमेवावभासते । अतो नासौ वाक्यार्थः । ननु च तृतीयकक्षावि-
षयत्वमश्रूयमाणपदार्थतात्पर्येषु 'विषं भुङ्क्ष्व' इत्यादिवाक्येषु निषेधार्थविषयेषु
प्रतीयत एव वाक्यार्थः । न चात्र व्यञ्जकत्ववादिनापि वाक्यार्थत्वं नेष्यते तात्प-
र्यादन्यत्वाद्ध्वनेः । तत्र स्वार्थस्य द्वितीयकक्षायामविश्रान्तस्य तृतीयकक्षाभा-
वात् । सैव निषेधकक्षा तत्र द्वितीयकक्षाविधौ क्रियाकारकसंसर्गानुपपत्तेः । प्रक-
रणात्पितरि वक्तरि पुत्रस्य विषभक्षणनियोगाभावात् । रसवद्वाक्येषु च विभाव-
प्रतिपत्तिलक्षणद्वितीयकक्षायां रसानवगमात् । तदुक्तम्—
'अप्रतिष्ठमविश्रान्तं स्वार्थे यत्परतामिदम् ।
वाक्यं विगाहते तत्र न्याय्या तत्परतास्य सा ॥
यत्र तु स्वार्थविश्रान्तं प्रतिष्ठां तावदागतम् ।
तत्प्रसर्पति तत्र स्यात्सर्वत्र ध्वनिना स्थितिः ॥'
इत्येवं सर्वत्र रसानां व्यङ्ग्यत्वमेव । वस्त्वलंकारयोस्तु क्वचिद्वाच्यत्वं क्वचिद्व्यङ्ग्य-
त्वम् । तत्रापि यत्र व्यङ्ग्यस्य प्राधान्येन प्रतिपत्तिस्तत्रैव ध्वनिः, अन्यत्र गुणी-
भूतव्यङ्ग्यत्वम् । तदुक्तम्—
'यत्रार्थः शब्दो वा यमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥'
यथा—'उपोढरागेण' इत्यादि । तस्य च ध्वनेर्विवक्षितवाच्याविवक्षितवा-
च्यत्वेन द्वैविध्यम् । अविवक्षितवाच्योऽत्यन्ततिरस्कृतस्वार्थोऽर्थान्तरसंक्रमितवा-
१ 'भ्रम धार्मिक विश्रब्धः स श्वाऽद्य मारितस्तेन ।
गोदावरीनदीकच्छकुटङ्गवासिना दरीसिंहेन ॥' इति च्छाया.
३. तृतीय-चतुर्थ प्रकाश: दश रूपक भेद (नाटक, प्रकरण, भाण, प्रहसन आदि), रस-स्वरूप व उपसंहार
श्लो० ३७ ] अवलोकसमेतम् । ९५
च्येति द्विधा । विवक्षितवाच्यश्च असंलक्ष्यक्रमः क्रमद्योतश्चेति द्विविधः । तत्र
रसादीनामसंलक्ष्यक्रमे ध्वनित्वं प्राधान्यप्रतीतौ सत्यामङ्गत्वेन प्रतीतौ रसवद-
लंकार इति ।
अत्रोच्यते—
वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया ।
वाक्यार्थः कारकैर्युक्ता स्थायी भावस्तथेतरैः ॥ ३७ ॥
यथा लौकिकवाक्येषु श्रूयमाणक्रियेषु ‘गामभ्याज—’ इत्यादिष्वश्रूयमाण-
क्रियेषु च ‘द्वारं द्वारम्’ इत्यादिषु स्वशब्दोपादानात्प्रकरणादिवशाद्बुद्धिसंनिवे-
शिनी क्रियैव कारकोपचिता वाक्यार्थस्तथा काव्येष्वपि स्वशब्दोपादानात्क-
चित् ‘प्रीत्यै नवोढा प्रिया’ इत्येवमादौ, क्वचिच्च प्रकरणादिवशान्नियताविहित-
विभावायविनाभावाद्वा साक्षाद्भावकचेतसि विपरिवर्तमानो रत्यादिः स्थायी
९६ दशरूपकं [ प्रकाशः ४
प्रतिपाद्यस्य विश्रान्तिरपेक्षापूरणाद्यदि ।
वक्तुर्विवक्षितप्राप्तेर्विश्रान्तिर्न वा कथम् ॥
पौरुषेयस्य वाक्यस्य विवक्षापरतन्त्रता ।
वक्त्रभिप्रेततात्पर्यमतः काव्यस्य युज्यते ॥'
इति । अतो न रसादीनां काव्येन सह व्यङ्ग्यव्यञ्जकभावः । किं तर्हि भाव्यभा-
वकसंबन्धः ? काव्यं हि भावकम् । भाव्या रसादयः । ते हि सतो भवन्त एव
भावकेषु विशिष्टविभावादिमता काव्येन भाव्यन्ते । न चान्यत्र शब्दान्तरेषु
भाव्यभावकलक्षणसंबन्धाभावात्काव्यशब्देष्वपि तथा भाव्यमिति वाच्यम् ।
भावनाक्रियावादिभिस्तथाङ्गीकृतत्वात् । किंच मा चान्यत्र तथास्त्वन्वयव्यतिरेकाभ्या-
मिह तथावगमात् । तदुक्तम्—
‘भावाभिनयसंबन्धान्भावयन्ति रसानिमान् ।
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥’
इति । कथं पुनरगृहीतसंबन्धेभ्यः पदेभ्यः स्थाय्यादिप्रतिपत्तिरिति चेल्लोके
तथाविधचेष्टायुक्तस्त्रीपुंसादिषु रत्याद्यविनाभावदर्शनादिहापि तथोपनिबन्धे सति
रत्याद्यविनाभूतचेष्टादिप्रतिपादकशब्दश्रवणादभिधेया विनाभावेन लाक्षणिकी रत्या-
दिप्रतीतिः । यथा च काव्यार्थस्य रसभावकत्वं तथाग्रे वक्ष्यामः ।
रसः स एव स्वाद्यत्वाद्रसिकस्यैव वर्तनात् ।
नानुकार्यस्य वृत्तत्वात्काव्यस्यातत्परत्वतः ॥ ३८ ॥
द्रष्टुः प्रतीतिर्ब्रीडेर्ष्यारागद्वेषप्रसङ्गतः ।
लौकिकस्य स्वरमणीसंयुक्तस्येव दर्शनात् ॥ ३९ ॥
काव्यार्थोपप्लावितो रसिकवर्ती रत्यादिः स्थायीभावः स इति प्रतिनिर्दिश्यते ।
स च स्वाद्यतां निर्भरानन्दसंविदात्मतामापाद्यमानो रसो रसिकवर्तीति वर्तमा-
नत्वान्नानुकार्यरामादिवर्ती वृत्तत्वात्तस्यं । अथ शब्दोपहितरूपत्वेनावर्तमानस्यापि
वर्तमानवदवभासनमिष्यत एव । तथापि तदवभासस्यास्मादादिभिरनुभूयमान-
ह्लादैकसमतैकास्वादं प्रति विभावेन तु रामादेर्वर्तमानवदवभासनमिष्यत
एव । किंच न काव्यं रामादीनां रसोपजननाय कविभिः प्रवर्त्यते । अपि तु
सहृदयानन्दयितुम् । स च समस्तभावकस्वसंवेद्य एव । यदि चानुकार्यस्य
रामादेः शृङ्गारः स्यात्ततो नाटकादौ तद्दर्शने लौकिक इव नायके शृङ्गारिणि
स्वकान्तासंयुक्ते दृश्यमाने शृङ्गारवानयमिति प्रेक्षकाणां प्रतीतिमात्रं भवेन्न
रसानां स्वादः सत्पुरुषाणां च लज्जेतरेषां त्वसूयानुरागापहरेच्छादयः प्रसज्ये-
रन् । एवं च सति रसादीनां व्यङ्ग्यत्वमपास्तम् । अन्यतो लब्धसत्ताकं वस्त्व-
न्येनापि व्यज्यते । प्रदीपेनेव घटादि । न तु तदानीमेवाभिव्यञ्जकत्वाभिमतैरा-
पाद्य स्वभावम् । भाव्यन्ते च विभावादिभिः प्रेक्षकेषु रसा इत्यावेदितमेव ।
ननु च सामाजिकाश्रयेषु रसेषु को विभावः ? कथं सीतादीनां देवीनां
विभावत्वेनाविरोधः ? उच्यते—
श्लो० ३८-४५ ] अवलोकसमेतम् । ९७
धीरोदात्ताद्यवस्थानां रामादिः प्रतिपादकः ।
विभावयति रत्यादीन्स्वदन्ते रसिकस्य ते ॥ ४० ॥
न हि कवयो योगिन इव ध्यानचक्षुषा ध्यात्वा प्रातिस्विकीं रामादीनामवस्थां
इतिहासवदुपनिबध्नन्ति । किं तर्हि सर्वलोकसाधारणाः स्वोत्प्रेक्षाकृतसन्निधयो
धीरोदात्ताद्यवस्थाः क्वचिदाश्रयमात्रदायिन्यो दधति ।
ता एव च परित्यक्तविशेषा रसहेतवः ।
तत्र सीतादिशब्दाः परित्यक्तजनकतनयादिविशेषाः स्त्रीमात्रवाचिनः किमिवा-
निष्टं कुर्युः । किमर्थं तर्ह्युपादीयन्त इति चेदुच्यते—
क्रीडतां मृन्मयैर्यद्वद्बालानां द्विरदादिभिः ॥ ४१ ॥
स्वोत्साहः स्वदते तद्वच्छ्रोतॄणामर्जुनादिभिः ।
एतदुक्तं भवति । नात्र लौकिकशृङ्गारादिवत्ह्रयादिविभावादीनामुपयोगः ।
किं तर्हि प्रतिपादितप्रकारेण लौकिकरसविलक्षणत्वं नाट्यरसानाम् । यदाह—
‘अष्टौ नाट्यरसाः स्मृताः’ इति ।
काव्यार्थभावनास्वादो नर्तकस्य न वार्यते ॥ ४२ ॥
नर्तकोऽपि न लौकिकरसेन रसवान्भवति । तदानीं भोग्यत्वेन स्वमहिला-
देरग्रहणात् काव्यार्थभावनया लसदादिवत्काव्यरसास्वादोऽस्यापि न वार्यते ।
कथं च काव्यात् स्वादोधूतिः, किमात्मा चासाविति व्युत्पाद्यते—
स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः ।
विकासविस्तरक्षोभविक्षेपैः स चतुर्विधः ॥ ४३ ॥
शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् ।
हास्याद्भुतभयोत्कर्षकरुणानां त एव हि ॥ ४४ ॥
अतस्तज्जन्यता तेषामत एवावधारणम् ।
काव्यार्थेन विभावादिसंसृष्टस्थाय्यात्मक्रेन भावकचेतः संभेदेऽन्योन्यसं-
चलने प्रत्यस्तमितस्वपरविभागे सति प्रवलतरस्वानन्दोद्भूतिः=स्वादः । तस्य च
सामान्यात्मकत्वेऽपि प्रतिनियतविभावादिकारणजन्यत्वेन संभेदेन चतुर्धा चित्त-
भूमयो भवन्ति । तद्यथा—शृङ्गारे विकासः, वीरे विस्तरः, बीभत्से क्षोभः,
रौद्रे विक्षेप इति, तदन्येषां चतुर्णां हास्याद्भुतभयानककरुणानां स्वसामग्रीलब्ध-
परिपोषाणां त एव चत्वारो विकासाद्याश्चेतसः संभेदाः । अत एव—
‘शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः ।
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥’
इति । हेतुहेतुमद्भाव एव संभेदापेक्षया दर्शितो न कार्यकारणभावाभिप्रायेण तेषां
कारणान्तरजन्यत्वात् ।
‘शृङ्गारानुकृतिर्या तु स हास इति कीर्तितः ।’
इत्यादिना विकासादिसंभेदैकलस्यैव स्फुटीकरणादवधारणमप्यत एवाष्टाविति
संभेदानां भावात् । ननु च युक्तं शृङ्गारवीरहास्यादिषु प्रमोदात्मकेषु वाक्यार्थ-
द० ९
९८ दशरूपकं [ प्रकाशः ४
संभेदादानन्दोद्भव इति । करुणादौ तु दुःखात्मकत्वे कथमिवासौ प्रादुःष्यात् ।
तथा हि—तत्र करुणात्मककाव्यश्रवणाद्दुःखाविर्भावोऽश्रुपातादयश्च रसिकाना-
मपि प्रादुर्भवन्ति । न चैतदानन्दात्मकत्वे सति युज्यते । सत्यमेतत् । किंतु
तादृश एवासावानन्दः सुखदुःखात्मको यथा प्रहरणादिषु संभोगावस्थायां कुट्ट-
मिते स्त्रीणामन्यश्च लौकिकात्करुणात् काव्यकरुणः । तथा हि—अत्रोत्तरोत्तररसिकानां
प्रवृत्तयः । यदि वा लौकिककरुणवद्दुःखात्मकत्वमेवेह स्यात्तदा न कश्चित्तत्र
प्रवर्तेत । ततः कारुण्यैकरसानां रामायणादिमहाप्रबन्धानामुच्छेद एव भवेद्-
श्रुपातादयश्चेति वृत्तवर्णनाकर्णनेन विनिपातितेषु लौकिकवैकल्यदर्शनादिवत् प्रेक्ष-
काणां प्रादुर्भवन्तो न विरुध्यन्ते । तस्माद्रसान्तरवत् करुणस्याप्यानन्दात्मक-
त्वमेव ।
ननु शान्तरसस्यानभिधेयतयाद्यद्यपि नाट्येऽनुप्रवेशो नास्ति तथापि सूक्ष्मा-
तीतादिवस्तूनां सर्वेषामपि शब्दप्रतिपाद्यतया विद्यमानत्वात् काव्यविषयत्वं न
निवार्यते । अतस्तदुच्यते—
शमप्रकर्षो निर्वाच्यो मुदितादेस्तदात्मता ॥ ४५ ॥
शान्तो हि यदि तावत्—
‘न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा ।
रसस्तु शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रधानः ॥’
इत्येवंलक्षणः, तदा तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तस्य
च स्वरूपेणानिर्वचनीयता । तथा हि—श्रुतिरपि ‘स एष नेति नेति’ इत्यन्या-
पोहरूपेणाह । न च तथाभूतस्य शान्तरसस्य सहृदयाः स्वादयितारः सन्त्यथ
तदुपायभूतो मुदितामैत्रीकरुणोपेक्षादिलक्षणस्तस्य च विकाशविस्तारक्षोभविक्षेप-
रूपतैविति । तदुक्तयैव शान्तरसास्वादो निरूपितः ।
इदानीं विभावादिविषयावान्तरकाव्यव्यापारप्रदर्शनपूर्वकः प्रकरणेनोपसंहारः
प्रतिपाद्यते—
पदार्थैरिन्दुनिर्वेदरोमाञ्चादिस्वरूपकैः ।
काव्याद्विभावसंचार्यनुभावप्रख्यतां गतैः ॥ ४६ ॥
भावितः स्वदते स्थायी रसः स परिकीर्तितः ।
अतिशयोक्तिरूपकाव्यव्यापाराहितविशेषैश्चन्द्राद्यैरुद्दीपनविभावैः प्रमदाप्रभृति-
भिरालम्बनविभावैर्निर्वेदादिभिर्व्यभिचारिभावै रोमाञ्चाश्रुभ्रूक्षेपकटाक्षाद्यैरनुभावै-
रवान्तरव्यापारतया पदार्थीभूतैर्वाक्यार्थः स्थायीभावो भावितो भावरूपता-
मानीतः स्वदते स रस इति प्राक्प्रकरणे तात्पर्यम् ।
विशेषलक्षणान्युच्यन्ते—तत्राचार्येण स्थायिनां रत्यादीनां शृङ्गारादीनां च
पृथग्लक्षणानि विभावादिप्रतिपादनेनोदितानि । अत्र तु—
लक्षणैक्यं विभावैक्याद्भेदाद्रसभावयोः ॥ ४७ ॥
क्रियत इति वाक्यशेषः ।
श्लो० ४५-४८ ] अवलोकसमेतम् । ९९
तत्र तावच्छृङ्गारः—
रम्यदेशकलाकालवेषभोगादिसेवनैः ।
प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः ।
प्रहृष्यमाणा शृङ्गारो मधुराङ्गविचेष्टितैः ॥ ४८ ॥
इत्थमुपनिबध्यमानं काव्यं शृङ्गारास्वादाय प्रभवतीति । कन्युपदेशपरमेतत् ।
तत्र देशविभावो यथोत्तररामचरिते ( १।२६ )—
‘स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयोस्तान्यहानि ।
स्मरसि सरसतीरां तत्र गोदावरीं वा स्मरसि च तदुपान्तेष्वावयोर्र्वर्तनानि ॥’
कलाविभावो यथा—
‘हस्तैरन्तर्निहितवचनैः सूचितः सम्यगर्थः
पादन्यासैर्लयमुपगतस्तन्मयत्वं रसेषु ।
शाखायोनिर्मृदुरभिनयः षड्विकल्पोऽनुवृत्तै-
र्भावे भावे नुदति विषयानुरागबन्धः स एव ॥’
यथा च ( नागा० १।१५ )—
‘व्यक्तिर्व्यञ्जनधातुना दशविधेनाप्यत्र लब्धामुना
विस्पष्टो द्रुतमध्यलम्बितपरिच्छिन्नस्त्रिधाऽयं लयः ।
गोपुच्छप्रमुखाः क्रमेण गतयस्तिस्रोऽपि संपादिता-
स्तत्त्वौघानुगताश्च वाद्यविधयः सम्यक् त्रयो दर्शिताः ॥’
कालविभावो यथा कुमारसंभवे ( ३।२६ )—
‘अंसूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि ।
पादेन नापैक्षत सुन्दरीणां संपर्कमासिजितनूपुरेण ॥’
इत्युपक्रमे,—
‘मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
शृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥’ ( कुमार० ३।३६ )
वेषविभावो यथा तत्रैव ( कुमार० ३।५३ )—
‘अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् ।
मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥’
उपभोगविभावो यथा—
‘चक्षुर्लुप्तमषीकणं कवलितस्ताम्बूलरागोऽधरे
विश्रान्ता कबरी कपोलफलके लुप्तेव गात्रद्युतिः ।
जाने संप्रति मानिनि प्रणयिना कैरप्युपायक्रमै-
र्भग्नो मानमहातरुस्तरुणि ते चेतःस्थलीवर्धितः ॥’
प्रमोदात्मा रतिर्यथा मालतीमाधवे ( १।३९ )—
‘जगति जयिनस्ते ते भावा नवेन्दुकलादयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये ।
१०० दशरूपकं [ प्रकाशः ४
मम तु यदिदं याता लोके विलोचनचन्द्रिका
नयनविषयं जन्मन्येकः स एव महोत्सवः ॥'
युवतिविभावो यथा मालविकाग्निमित्रे ( २।३ )—
'दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः
संक्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली
छन्दो नर्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः ॥'
यूनोर्विभावो यथा मालतीमाधवे ( १।१८ )—
'भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।
साक्षात्कामं नवमिव रतिर्मालतीमाधवं य-
द्गाढोत्कण्ठा लुलितललितैरङ्गैस्ताम्यतीति ॥'
अन्योन्यानुरागो यथा तत्रैव ( मालती० १।३२ )—
'यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥'
मधुराङ्गविचेष्टितं यथा तत्रैव ( मालती० १।३० )—
'स्तिमितविकसितान्युल्लसद्भ्रूलतानि मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।
प्रतिनयननिपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥'
ये सत्त्वजाः स्थायिन एव चाष्टौ त्रिंशत्त्रयो ये व्यभिचारिणश्च ।
एकोनपञ्चाशदमी हि भावा युक्त्या निबद्धाः परिपोषयन्ति ।
आलस्यमौग्र्यं मरणं जुगुप्सा तस्याश्रयान्नैतद्विरुद्धमिष्टम् ॥ ४९ ॥
त्रयस्त्रिंशद्व्यभिचारिणश्चाष्टौ स्थायिन अष्टौ सात्त्विकाश्चेत्येकोनपञ्चाशत् ।
युक्ताङ्गत्वेनोपनिबध्यमानाः शृङ्गारं संपादयन्त्यालस्यौग्र्यजुगुप्सामरणादीन्ये-
कालम्बनविभावाश्रयत्वेन साक्षादङ्गत्वेन चोपनिबध्यमानानि विरुध्यन्ते ।
प्रकारान्तरेण चाविरोधः प्राक्प्रतिपादित एव ।
विभागस्तु—
अयोगो विप्रयोगश्च संभोगश्चेति स त्रिधा ।
अयोगविप्रयोगविशेषाद्विप्रलम्भस्यैतसामान्याभिधायित्वेन विप्रलम्भशब्द
उपचारितवृत्तिर्मा भूदिति न प्रयुक्तः । तथा हि—दत्त्वा संकेतमप्राप्तेऽध्वव्यति-
क्रमे साध्येन नायिकान्तरानुसरणाच्च विप्रलम्भशब्दस्य मुख्यप्रयोगो वञ्च-
नार्थत्वात् ।
तत्रायोगोऽनुरागोऽपि नवयोरेकचित्तयोः ॥ ५० ॥
पारतन्त्र्येण दैवाद्वा विप्रकर्षादसङ्गमः ।
योगः=अन्योन्यस्वीकारः, तदभावः=अयोगः । पारतन्त्र्येण विप्रकर्षाद्दैवपित्राद्या-
श्लो० ४९-५७ ] अवलोकसमेतम् । १०१
यत्त्वात् सागरिकामाल्योर्वत्सराजमाधवाभ्यामिव दैवाद्गौरीशिवयोरिवासङ्गमः =
अयोगः ।
दशावस्थः स तत्रादावभिलाषोऽथ चिन्तनम् ॥ ५१ ॥
स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसंज्वराः ।
जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥ ५२ ॥
अभिलाषः स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे ।
दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाः ॥ ५३ ॥
साक्षात्प्रतिकृतिस्वप्नच्छायामायासु दर्शनम् ।
श्रुतिर्व्याजातसखीगीतमागधादिगुणस्तुतेः ॥ ५४ ॥
अभिलाषो यथा शाकुन्तले ( १।१९ )—
‘असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥’
विस्मयो यथा—
‘स्तनावालोक्य तन्वङ्ग्याः शिरः कम्पयते युवा ।
तयोरन्तरनिर्मग्नां दृष्टिमत्पाटयन्निव ॥’
आनन्दो यथा विद्धशालभञ्जिकायाम्—
‘सुधावद्द्म्रासैरुपवनचकोरैः कवलितां
किरन् ज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् ।
उपप्राकाराग्रं प्रहिणु नयने तर्कय मना-
गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥’
साध्वसं यथा कुमारसंभवे ( ५।८५ )—
‘तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेपणात् पदमुद्धृतमुद्वहन्ती ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥’
यथा वा ( कुमार० ८।२ )—
‘व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥’
सानुभावविभावास्तु चिन्ताद्याः पूर्वदर्शिताः ।
गुणकीर्तनं तु स्पष्टत्वान्न व्याख्यातम् ।
दशावस्थत्वमाचार्यैः प्रायो वृत्त्या निदर्शितम् ॥ ५५ ॥
महाकविप्रबन्धेषु दृश्यते तदनन्तता ।
दिङ्मात्रं तु—
दृष्टे श्रुतेऽभिलाषाच्च किं नौत्सुक्यं प्रजायते ॥ ५६ ॥
अप्राप्तौ किं न निर्वेदो ग्लानिः किं नातिचिन्तनात् ।
शेषं प्रच्छन्नकामितादि कामसूत्रादवगन्तव्यम् ।
१ ‘काम्ये’ इति पाठः. २ ‘प्रयोगेषु’ इति पाठः.
Here is the line-by-line transcription of the page into Devanagari:
अथ विप्रयोगः-
विप्रयोगस्तु विश्लेषो रूढविश्रम्भयोर्द्विधा ॥ ५७ ॥
मानप्रवासभेदेन मानोऽपि प्रणयेर्ष्ययोः ।
प्राप्तयोरप्राप्तिः=विप्रयोगः । तस्य द्वौ भेदौ—मानः, प्रवासश्च । मानविप्रयो-
गोऽपि द्विविधः—प्रणयमानः, ईर्ष्यामानश्चेति ।
तत्र प्रणयमानः स्यात्कोपोऽवसितयोर्द्वयोः ॥ ५८ ॥
प्रेमपूर्वो वशीकारः=प्रणयः, तदङ्गो मानः=प्रणयमानः । स च द्वयोर्नायक-
योर्भवति । तत्र नायकस्य यथोत्तररामचरिते ( ३।३७ )—
'अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः
सा हंसैः कृतकौतुका चिरमभूद्गोदावरीसैकते ।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया
कातर्यादरविन्दकुड्मलनिभो मुग्धः
वाद्य कथितं राधे मुधा ताम्यसि ।
Line 5:
इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचः शार्ङ्गिणः
Line 6:
सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः ॥’
(Note: there is a small '१' footnote marker after वः ॥’ in line 6? Wait, no, look at the quotes: ॥' followed by a comma or smudge? It's just quotes and a smudge.)
Line 7:
भोगाङ्गाऽनुमितो यथा—
Wait, let's look at the character between ङ्गा and नु:
Is it 'ऽ' (avagraha) or 'नु'?
It looks like "भोगाङ्गाऽनुमितो यथा—".
Wait, could it be "भोगाङ्गादनुमितो यथा—"?
Look at the mark: it is an avagraha 'ऽ'. In Sanskrit, "भोगाङ्गाऽनुमितो" (with avagraha indicating elision or sandhi, or typo for भोगाङ्गादनुमितो). Let's render as भोगाङ्गाऽनुमितो यथा—.
Line 8:
‘नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
Line 9:
प्रतिदिशमपरस्त्रीसङ्गशंसी वि