दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 106, कुल 168 में से
संदर्भ में पढ़ेंश्लो० ३७ ] अवलोकसमेतम् । ९५
च्येति द्विधा । विवक्षितवाच्यश्च असंलक्ष्यक्रमः क्रमद्योतश्चेति द्विविधः । तत्र
रसादीनामसंलक्ष्यक्रमे ध्वनित्वं प्राधान्यप्रतीतौ सत्यामङ्गत्वेन प्रतीतौ रसवद-
लंकार इति ।
अत्रोच्यते—
वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया ।
वाक्यार्थः कारकैर्युक्ता स्थायी भावस्तथेतरैः ॥ ३७ ॥
यथा लौकिकवाक्येषु श्रूयमाणक्रियेषु ‘गामभ्याज—’ इत्यादिष्वश्रूयमाण-
क्रियेषु च ‘द्वारं द्वारम्’ इत्यादिषु स्वशब्दोपादानात्प्रकरणादिवशाद्बुद्धिसंनिवे-
शिनी क्रियैव कारकोपचिता वाक्यार्थस्तथा काव्येष्वपि स्वशब्दोपादानात्क-
चित् ‘प्रीत्यै नवोढा प्रिया’ इत्येवमादौ, क्वचिच्च प्रकरणादिवशान्नियताविहित-
विभावायविनाभावाद्वा साक्षाद्भावकचेतसि विपरिवर्तमानो रत्यादिः स्थायी