दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 105, कुल 168 में से
संदर्भ में पढ़ें९४ दशरूपकं [ प्रकाशः ४
इत्यादावनुरागजन्यावस्थाविशेषानुभाववद्गिरिजालक्षणविभावोपवर्णनादेवाऽशब्दापि
शृङ्गारप्रतीतिरुदेति । रसान्तरेष्वप्ययमेव न्यायः । न केवलं रसेष्वेव यावद्व-
स्तुमात्रेऽपि । यथा ( गाथा० २।७५ )—
'भम धम्मिअ वीसद्धो सो सुणहो अज्ज मारिओ तेण ।
गोलाणइकच्छकुडंगवासिणा दरिअसीहेण ॥'
इत्यादौ निषेधप्रतिपत्तिरशब्दापि व्यञ्जकशक्तिमूलैव । तथालंकारेष्वपि—
'लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन्स्मेरेऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥'
इत्यादिषु चन्द्रतुल्यं तन्वीवदनारविन्दमित्याद्युपमाद्यलंकारप्रतिपत्तिर्व्यञ्जकत्वनि-
बन्धनेति । न चासावर्थापत्तिजन्या । अनुपपद्यमानार्थापेक्षाभावात् । नापि
वाक्यार्थत्वम्, व्यङ्ग्यस्य तृतीयकक्षाविषयत्वात् । तथाहि—'भ्रम धार्मिक' इत्यादौ
पदार्थविषयाभिधालक्षणप्रथमकक्षातिक्रान्तक्रियाकारकसंसर्गात्मकविधिविषयवा-
क्यार्थकक्षातिक्रान्ततृतीयकक्षाक्रान्तो निषेधात्मा व्यङ्ग्यलक्षणोऽर्थो व्यञ्जकश-
क्त्यधीनः स्फुटमेवावभासते । अतो नासौ वाक्यार्थः । ननु च तृतीयकक्षावि-
षयत्वमश्रूयमाणपदार्थतात्पर्येषु 'विषं भुङ्क्ष्व' इत्यादिवाक्येषु निषेधार्थविषयेषु
प्रतीयत एव वाक्यार्थः । न चात्र व्यञ्जकत्ववादिनापि वाक्यार्थत्वं नेष्यते तात्प-
र्यादन्यत्वाद्ध्वनेः । तत्र स्वार्थस्य द्वितीयकक्षायामविश्रान्तस्य तृतीयकक्षाभा-
वात् । सैव निषेधकक्षा तत्र द्वितीयकक्षाविधौ क्रियाकारकसंसर्गानुपपत्तेः । प्रक-
रणात्पितरि वक्तरि पुत्रस्य विषभक्षणनियोगाभावात् । रसवद्वाक्येषु च विभाव-
प्रतिपत्तिलक्षणद्वितीयकक्षायां रसानवगमात् । तदुक्तम्—
'अप्रतिष्ठमविश्रान्तं स्वार्थे यत्परतामिदम् ।
वाक्यं विगाहते तत्र न्याय्या तत्परतास्य सा ॥
यत्र तु स्वार्थविश्रान्तं प्रतिष्ठां तावदागतम् ।
तत्प्रसर्पति तत्र स्यात्सर्वत्र ध्वनिना स्थितिः ॥'
इत्येवं सर्वत्र रसानां व्यङ्ग्यत्वमेव । वस्त्वलंकारयोस्तु क्वचिद्वाच्यत्वं क्वचिद्व्यङ्ग्य-
त्वम् । तत्रापि यत्र व्यङ्ग्यस्य प्राधान्येन प्रतिपत्तिस्तत्रैव ध्वनिः, अन्यत्र गुणी-
भूतव्यङ्ग्यत्वम् । तदुक्तम्—
'यत्रार्थः शब्दो वा यमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥'
यथा—'उपोढरागेण' इत्यादि । तस्य च ध्वनेर्विवक्षितवाच्याविवक्षितवा-
च्यत्वेन द्वैविध्यम् । अविवक्षितवाच्योऽत्यन्ततिरस्कृतस्वार्थोऽर्थान्तरसंक्रमितवा-
१ 'भ्रम धार्मिक विश्रब्धः स श्वाऽद्य मारितस्तेन ।
गोदावरीनदीकच्छकुटङ्गवासिना दरीसिंहेन ॥' इति च्छाया.