सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 95, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 95

८४ दशरूपकं [ प्रकाशः ४

अथ गर्वः—
गर्वोऽभिजनलावण्यबलैश्वर्यादिभिर्मदः ।
कर्माण्यधर्षणावज्ञा सविलासाङ्गवीक्षणम् ॥ १९ ॥
यथा वीरचरिते ( २।२७ )—
‘मुनिरयमथ वीरस्तादृशस्तत्प्रियं मे विरमतु परिकम्पः कातरे क्षत्रियाऽसि ।
तपसि विततकीर्तेर्दपकण्डूलदोष्र्णः परिचरणसमर्थो राघवः क्षत्रियोऽहम् ॥’
यथा वा तत्रैव—
‘ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥’ ( वीर० २।१० )
अथ स्मृतिः—
सदृशज्ञानचिन्ताद्यैः संस्कारात्स्मृतिरत्र च ।
ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नयनादयः ॥ २० ॥
यथा—
‘मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं
शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि ।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावण-
मा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥’
यथा वा मालतीमाधवे—‘माधवः—मम हि प्राक्तनोपलम्भसंभाविता-
त्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतायमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृ-
प्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति वृत्तिसारूप्यत-
श्चैतन्यम् ।
‘लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च
प्रत्युप्तेव च वज्रसारघटितेवान्तर्निखातेव च ।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि-
श्चिन्तासंततितन्तुजालनिविडस्यूतेव लग्ना प्रिया ॥’ ( मालती० ५।१० )
अथ मरणम्—
मरणं सुप्रसिद्धत्वादनर्थत्वाच्च नोच्यते ।
यथा—
‘संप्राप्तेऽवधिवासरे क्षणमनु स्वद्वर्त्मवातायनं
वारंवारमुपेत्य निष्क्रियतया निश्चिल्य किंचिच्चिरम् ।
संप्रत्येव निवेद्य केलिकुररीं साश्रं सखीभ्यः कृशो-
र्मध्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥’
इत्यादिवच्छृङ्गारस्यालम्बनत्वेन मरणे व्यवसायमात्रमुपनिबन्धनीयम् । अन्यत्र
कामचारः । यथा वीरचरिते—‘पश्यन्तु भवन्तस्ताडकाम्—...