दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
DevanagariHindipublished168 पृष्ठ
पृष्ठ 104, कुल 168 में से
संदर्भ में पढ़ेंपृष्ठ 104
श्लो० ३५–३६ ] अवलोकसमेतम् । ९३
प्रवृत्तेन विद्याधरचक्रवर्तित्वप्राप्त्याऽविरुद्धम् । न ह्येकानुकार्यविभावालम्बनौ विष-
यानुरागापरागानुपलब्धौ । अतो दयावीरोत्साहस्यैव तत्र स्थायित्वम् । तत्रैव
शृङ्गारस्याङ्गत्वेन चक्रवर्तित्वावाप्तेश्च फलत्वेनाविरोधादीप्सितमेव च सर्वत्र कर्त-
व्यमिति परोपकारप्रवृत्तस्य विजिगीषोर्नान्तरीयकतया फलं संपद्यत इत्यावेदित-
मेव प्राक् । अतोऽष्टावेव स्थायिनः । ननु च 'रसनाद्रसत्वमेषां मधुरादीना-
मिवोक्तमाचार्यैः । निर्वेदादिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः ॥' इत्यादिना
रसान्तराणामप्यन्यैरभ्युपगतत्वात्स्थायिनोऽप्यन्ये कल्पिता इत्यवधारणानुपपत्तिः ।
अत्रोच्यते—
निर्वेदादिरताद्रूप्यादस्थायी स्वदते कथम् ।
[L