दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 107, कुल 168 में से
संदर्भ में पढ़ें९६ दशरूपकं [ प्रकाशः ४
प्रतिपाद्यस्य विश्रान्तिरपेक्षापूरणाद्यदि ।
वक्तुर्विवक्षितप्राप्तेर्विश्रान्तिर्न वा कथम् ॥
पौरुषेयस्य वाक्यस्य विवक्षापरतन्त्रता ।
वक्त्रभिप्रेततात्पर्यमतः काव्यस्य युज्यते ॥'
इति । अतो न रसादीनां काव्येन सह व्यङ्ग्यव्यञ्जकभावः । किं तर्हि भाव्यभा-
वकसंबन्धः ? काव्यं हि भावकम् । भाव्या रसादयः । ते हि सतो भवन्त एव
भावकेषु विशिष्टविभावादिमता काव्येन भाव्यन्ते । न चान्यत्र शब्दान्तरेषु
भाव्यभावकलक्षणसंबन्धाभावात्काव्यशब्देष्वपि तथा भाव्यमिति वाच्यम् ।
भावनाक्रियावादिभिस्तथाङ्गीकृतत्वात् । किंच मा चान्यत्र तथास्त्वन्वयव्यतिरेकाभ्या-
मिह तथावगमात् । तदुक्तम्—
‘भावाभिनयसंबन्धान्भावयन्ति रसानिमान् ।
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥’
इति । कथं पुनरगृहीतसंबन्धेभ्यः पदेभ्यः स्थाय्यादिप्रतिपत्तिरिति चेल्लोके
तथाविधचेष्टायुक्तस्त्रीपुंसादिषु रत्याद्यविनाभावदर्शनादिहापि तथोपनिबन्धे सति
रत्याद्यविनाभूतचेष्टादिप्रतिपादकशब्दश्रवणादभिधेया विनाभावेन लाक्षणिकी रत्या-
दिप्रतीतिः । यथा च काव्यार्थस्य रसभावकत्वं तथाग्रे वक्ष्यामः ।
रसः स एव स्वाद्यत्वाद्रसिकस्यैव वर्तनात् ।
नानुकार्यस्य वृत्तत्वात्काव्यस्यातत्परत्वतः ॥ ३८ ॥
द्रष्टुः प्रतीतिर्ब्रीडेर्ष्यारागद्वेषप्रसङ्गतः ।
लौकिकस्य स्वरमणीसंयुक्तस्येव दर्शनात् ॥ ३९ ॥
काव्यार्थोपप्लावितो रसिकवर्ती रत्यादिः स्थायीभावः स इति प्रतिनिर्दिश्यते ।
स च स्वाद्यतां निर्भरानन्दसंविदात्मतामापाद्यमानो रसो रसिकवर्तीति वर्तमा-
नत्वान्नानुकार्यरामादिवर्ती वृत्तत्वात्तस्यं । अथ शब्दोपहितरूपत्वेनावर्तमानस्यापि
वर्तमानवदवभासनमिष्यत एव । तथापि तदवभासस्यास्मादादिभिरनुभूयमान-
ह्लादैकसमतैकास्वादं प्रति विभावेन तु रामादेर्वर्तमानवदवभासनमिष्यत
एव । किंच न काव्यं रामादीनां रसोपजननाय कविभिः प्रवर्त्यते । अपि तु
सहृदयानन्दयितुम् । स च समस्तभावकस्वसंवेद्य एव । यदि चानुकार्यस्य
रामादेः शृङ्गारः स्यात्ततो नाटकादौ तद्दर्शने लौकिक इव नायके शृङ्गारिणि
स्वकान्तासंयुक्ते दृश्यमाने शृङ्गारवानयमिति प्रेक्षकाणां प्रतीतिमात्रं भवेन्न
रसानां स्वादः सत्पुरुषाणां च लज्जेतरेषां त्वसूयानुरागापहरेच्छादयः प्रसज्ये-
रन् । एवं च सति रसादीनां व्यङ्ग्यत्वमपास्तम् । अन्यतो लब्धसत्ताकं वस्त्व-
न्येनापि व्यज्यते । प्रदीपेनेव घटादि । न तु तदानीमेवाभिव्यञ्जकत्वाभिमतैरा-
पाद्य स्वभावम् । भाव्यन्ते च विभावादिभिः प्रेक्षकेषु रसा इत्यावेदितमेव ।
ननु च सामाजिकाश्रयेषु रसेषु को विभावः ? कथं सीतादीनां देवीनां
विभावत्वेनाविरोधः ? उच्यते—