सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 101, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 101

९० दशरूपकं [ प्रकाशः ४
यथा वा तत्रैव—
‘पशुपतिरपि तान्यहानि कृच्छ्रादनिनयद्रद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥’
( कुमार० ६।९५ )
अथ चापलम्—
मात्सर्यद्वेषरागादेश्चापलं त्वनवस्थितिः ।
तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ ३३ ॥
यथा विकटनितम्बायाः—
‘अन्यास तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु ।
बालामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥’
यथा वा—
‘विनिकषणरणत्कठोरदंष्ट्राक्रकचविशङ्कटकन्दरोदराणि ।
अहमहमिकया पतन्तु कोपात्सममधुनैव किमत्र मन्मुखानि ॥’
अथवा प्रस्तुतमेव तावत्सुविहितं करिष्ये ।’ इति ।
अन्ये च चित्तवृत्तिविशेषा एतेषामेव विभावानुभावस्वरूपानुप्रवेशान्न पृथ-
ग्वाच्याः ।
अथ स्थायी—
विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः ।
आत्मभावं नयत्यान्यान्स स्थायी लवणाकरः ॥ ३४ ॥
सजातीयविजातीयभावान्तरैरतिरस्कृतत्वेनोपनिबध्यमानो रत्यादिः स्थायी ।
यथा वृहत्कथायां नरवाहनदत्तस्य मदनमञ्जूषायामनुरागः । तत्तदवान्तरानैक-
नायिकानुरागैरतिरस्कृतः स्थायी । यथा च मालतीमाधवे श्मशानाङ्के बीभ-
त्सेन मालत्यानुरागस्यातिरस्कारो मम हि प्राक्तनोपलम्भसंभावितात्मजन्मनः
संस्कारस्यानवरतप्रबोधात्प्रतीयमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रिय-
तमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमित्र करोत्यन्तर्वृत्तिसारूप्यतश्चैतन्यमित्यादि-
नोपनिबद्धः । तदनेन प्रकारेण विरोधिनामविरोधिनां च समावेशो न
विरोधी । तथा हि—विरोधः सहानवस्थानं बाध्यबाधकभावो वा । उभयरूपेणापि
न तावत्तादात्म्यमनैकरूपत्वेनैवाविर्भावात् । स्थायिनां च विभावादीनां यदि
विरोधस्तत्रापि न तावत्सहानवस्थानं रत्याद्युपरक्ते चेतसि एकसूत्रन्यायेनावि-
रोधिनां व्यभिचारिणां चोपनिबन्धः समस्तभावकस्वसंवेदनसिद्धः । यथैव
खसंवेदनसिद्धस्तथैव काव्यव्यापारसंरम्भेणानुकार्येऽप्यावेश्यमानः स्वचेतःसंभे-
देन तथाविधानन्दसंविदुन्मीलनहेतुः संपद्यते । तस्मान्न तावद्भावानां सहानव-
स्थानम् । बाध्यबाधकभावस्तु भावान्तरैर्भावान्तरतिरस्कारः । स च व्यभिचा-
रिणां स्थायिनामविरुद्धव्यभिचारिभिः स्थायिनोऽविरुद्धस्तेषामङ्गत्वात्प्रधानविरुद्धस्य
चाङ्गत्वायोगादानन्तर्यविरोधित्वमप्यनेन प्रकारेणापास्तं भवति । तथा च मालती-
माधवे शृङ्गारानन्तरं बीभत्सोपनिबन्धेऽपि न किंचिद्दैरस्यं तदेवमेव स्थिते