सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 98, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 98

श्लो० २५–२८ ] अवलोकसमेतम् । ८७
उत्पातात्त्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा
वह्नेर्धूमाकुलास्यः करिजमनु भयस्तम्भकम्पापसाराः ॥ २८॥
अभिसरः=राजविद्रवादिः, तद्धेतुरावेगः । यथा ममैव—
‘आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे
खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्गप्रविष्टम् ।
संरम्भोन्निद्रितानां क्षितिमृति गहनेऽन्योन्यमेवं प्रतीच्छन्
वादः क्षप्राभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥’
इत्यादि ।
‘तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः ।
इति शुश्रुविरे विश्वगुद्धटाः सुभटोक्तयः ॥’
यथा वा—
‘प्रारब्धां तरुपुत्रकेषु सहसा संत्यज्य सेकक्रिया-
मेतास्तापसकन्यकाः किमिदमित्यालोकयन्त्याकुलाः ।
आरोहन्त्युटजद्रुमांश्च वटवो वाचंयमा अप्यमी
सद्यो मुक्तसमाधयो निजवृसीष्वेवोच्चपादं स्थिताः ॥’
वातावेगो यथा—‘वाताहतं वसनमाकुलमुत्तरीयम्’ इत्यादि ।
वर्षजो यथा—
‘देवे वर्षत्यशनपवनव्यापृता वह्निहेतो-
र्गेहाद्गेहं फलकनिचितैः सेतुभिः पङ्कसीताः ।
नीध्रप्रान्तप्रविरलजलान्पाणिभिस्ताडयित्वा
शूर्पच्छत्रस्थगितशिरसो योषितः संचरन्ति ॥’
उत्पातजो यथा—
‘पौलस्त्यपीनभुजसंपदुदस्यमानकैलाससंभ्रमविलोळदृशः प्रियायाः ।
श्रेयांसि वो दिशतु निहुतकोपचिह्नमलिङ्गितोत्पुलकमासितमिन्दुमौलेः ॥’
अहितकृतस्त्वनिष्टदर्शनश्रवणाभ्याम् । तथथोदात्तराघवे—‘चित्रमयः—
( ससंभ्रमम् ।) भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम् । (इत्याकुलतां
नाटयति ।)’ इत्यादि । पुनः ‘चित्रमयः—
मृगरूपं परित्यज्य विधाय विकटं वपुः ।
नीयते रक्षसानेन लक्ष्मणो युधि संशयम् ॥
रामः—
वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसा-
त्र्रस्तश्चैष मुनिर्बिरौति मनसश्चास्त्येव मे संभ्रमः ।
माहासीर्जनकात्मजामिति मुहुः स्नेहाद्गुरुर्याचते
न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥’
इत्यन्तेनानिष्टप्राप्तिकृतसंभ्रमः ।