दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 108, कुल 168 में से
संदर्भ में पढ़ेंश्लो० ३८-४५ ] अवलोकसमेतम् । ९७
धीरोदात्ताद्यवस्थानां रामादिः प्रतिपादकः ।
विभावयति रत्यादीन्स्वदन्ते रसिकस्य ते ॥ ४० ॥
न हि कवयो योगिन इव ध्यानचक्षुषा ध्यात्वा प्रातिस्विकीं रामादीनामवस्थां
इतिहासवदुपनिबध्नन्ति । किं तर्हि सर्वलोकसाधारणाः स्वोत्प्रेक्षाकृतसन्निधयो
धीरोदात्ताद्यवस्थाः क्वचिदाश्रयमात्रदायिन्यो दधति ।
ता एव च परित्यक्तविशेषा रसहेतवः ।
तत्र सीतादिशब्दाः परित्यक्तजनकतनयादिविशेषाः स्त्रीमात्रवाचिनः किमिवा-
निष्टं कुर्युः । किमर्थं तर्ह्युपादीयन्त इति चेदुच्यते—
क्रीडतां मृन्मयैर्यद्वद्बालानां द्विरदादिभिः ॥ ४१ ॥
स्वोत्साहः स्वदते तद्वच्छ्रोतॄणामर्जुनादिभिः ।
एतदुक्तं भवति । नात्र लौकिकशृङ्गारादिवत्ह्रयादिविभावादीनामुपयोगः ।
किं तर्हि प्रतिपादितप्रकारेण लौकिकरसविलक्षणत्वं नाट्यरसानाम् । यदाह—
‘अष्टौ नाट्यरसाः स्मृताः’ इति ।
काव्यार्थभावनास्वादो नर्तकस्य न वार्यते ॥ ४२ ॥
नर्तकोऽपि न लौकिकरसेन रसवान्भवति । तदानीं भोग्यत्वेन स्वमहिला-
देरग्रहणात् काव्यार्थभावनया लसदादिवत्काव्यरसास्वादोऽस्यापि न वार्यते ।
कथं च काव्यात् स्वादोधूतिः, किमात्मा चासाविति व्युत्पाद्यते—
स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः ।
विकासविस्तरक्षोभविक्षेपैः स चतुर्विधः ॥ ४३ ॥
शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् ।
हास्याद्भुतभयोत्कर्षकरुणानां त एव हि ॥ ४४ ॥
अतस्तज्जन्यता तेषामत एवावधारणम् ।
काव्यार्थेन विभावादिसंसृष्टस्थाय्यात्मक्रेन भावकचेतः संभेदेऽन्योन्यसं-
चलने प्रत्यस्तमितस्वपरविभागे सति प्रवलतरस्वानन्दोद्भूतिः=स्वादः । तस्य च
सामान्यात्मकत्वेऽपि प्रतिनियतविभावादिकारणजन्यत्वेन संभेदेन चतुर्धा चित्त-
भूमयो भवन्ति । तद्यथा—शृङ्गारे विकासः, वीरे विस्तरः, बीभत्से क्षोभः,
रौद्रे विक्षेप इति, तदन्येषां चतुर्णां हास्याद्भुतभयानककरुणानां स्वसामग्रीलब्ध-
परिपोषाणां त एव चत्वारो विकासाद्याश्चेतसः संभेदाः । अत एव—
‘शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः ।
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥’
इति । हेतुहेतुमद्भाव एव संभेदापेक्षया दर्शितो न कार्यकारणभावाभिप्रायेण तेषां
कारणान्तरजन्यत्वात् ।
‘शृङ्गारानुकृतिर्या तु स हास इति कीर्तितः ।’
इत्यादिना विकासादिसंभेदैकलस्यैव स्फुटीकरणादवधारणमप्यत एवाष्टाविति
संभेदानां भावात् । ननु च युक्तं शृङ्गारवीरहास्यादिषु प्रमोदात्मकेषु वाक्यार्थ-
द० ९