दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 110, कुल 168 में से
संदर्भ में पढ़ेंश्लो० ४५-४८ ] अवलोकसमेतम् । ९९
तत्र तावच्छृङ्गारः—
रम्यदेशकलाकालवेषभोगादिसेवनैः ।
प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः ।
प्रहृष्यमाणा शृङ्गारो मधुराङ्गविचेष्टितैः ॥ ४८ ॥
इत्थमुपनिबध्यमानं काव्यं शृङ्गारास्वादाय प्रभवतीति । कन्युपदेशपरमेतत् ।
तत्र देशविभावो यथोत्तररामचरिते ( १।२६ )—
‘स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयोस्तान्यहानि ।
स्मरसि सरसतीरां तत्र गोदावरीं वा स्मरसि च तदुपान्तेष्वावयोर्र्वर्तनानि ॥’
कलाविभावो यथा—
‘हस्तैरन्तर्निहितवचनैः सूचितः सम्यगर्थः
पादन्यासैर्लयमुपगतस्तन्मयत्वं रसेषु ।
शाखायोनिर्मृदुरभिनयः षड्विकल्पोऽनुवृत्तै-
र्भावे भावे नुदति विषयानुरागबन्धः स एव ॥’
यथा च ( नागा० १।१५ )—
‘व्यक्तिर्व्यञ्जनधातुना दशविधेनाप्यत्र लब्धामुना
विस्पष्टो द्रुतमध्यलम्बितपरिच्छिन्नस्त्रिधाऽयं लयः ।
गोपुच्छप्रमुखाः क्रमेण गतयस्तिस्रोऽपि संपादिता-
स्तत्त्वौघानुगताश्च वाद्यविधयः सम्यक् त्रयो दर्शिताः ॥’
कालविभावो यथा कुमारसंभवे ( ३।२६ )—
‘अंसूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि ।
पादेन नापैक्षत सुन्दरीणां संपर्कमासिजितनूपुरेण ॥’
इत्युपक्रमे,—
‘मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
शृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥’ ( कुमार० ३।३६ )
वेषविभावो यथा तत्रैव ( कुमार० ३।५३ )—
‘अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् ।
मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥’
उपभोगविभावो यथा—
‘चक्षुर्लुप्तमषीकणं कवलितस्ताम्बूलरागोऽधरे
विश्रान्ता कबरी कपोलफलके लुप्तेव गात्रद्युतिः ।
जाने संप्रति मानिनि प्रणयिना कैरप्युपायक्रमै-
र्भग्नो मानमहातरुस्तरुणि ते चेतःस्थलीवर्धितः ॥’
प्रमोदात्मा रतिर्यथा मालतीमाधवे ( १।३९ )—
‘जगति जयिनस्ते ते भावा नवेन्दुकलादयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये ।