बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
ानोऽपि कषा- Wait, in L30: "पुरीषं" or "पूरीषं"? It's "पुरीषं" (short u). Wait, "ताड्यमानोऽपि" - yes. दिभिर्नानुलोमयायी अनुलोमामभीष्टां दिशं न गमनशीलः। अकार्यभीतः, अकार्यादनिमित्ताद् Wait, comma afterअकार्यभीतः,-> yes, there is a comma! भीतः। महिषसूकरादिभिर्विना भयमाशङ्कते। अश्रुविलोचनोऽश्रुपरिपूर्णनयनः। स भर्तुः पत्युः शिवं श्रेयो नाभिधत्ते न ददाति।।१४।। बृ० भ० द्वि०-३०`
- Final Polish:
Line numbers must be consecutive and reflect the physical lines on the page.
Check L1 to L34:
Header: L1
Paragraph 1 (Hindi): L2-L5 (4 lines)
Paragraph 2 (Sanskrit comm): L6-L10 (5 lines)
Intro line: L11 (1 line)
Verse 13: L12-L15 (4 lines)
Hindi
४६६ बृहत्संहिता
उक्तमिदं हयचेष्टितमत ऊर्ध्वं दन्तिनां प्रवक्ष्यामि।
तेषां तु दन्तकल्पनभङ्गम्लानादिचेष्टाभिः ॥१५॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शाकुनेऽश्वेङ्गितं
नाम त्रिनवतितमोऽध्यायः ॥९३॥
यह घोड़ों की चेष्टायें कही गयी हैं। इसके बाद हाथियों की चेष्टायें कहता हूँ। उन
हाथियों के दाँतों का काँपना, टूटना, मलिन होना आदि चेष्टाओं से फल होते हैं।।१५।।
इति 'विमला' हिन्दीटीकायां शाकुनेऽश्वेङ्गिताध्यायस्त्रिनवतितमः ॥९३॥
इदं हयानामश्वानां चेष्टितं कथितम्, अतोऽस्मादूर्ध्वमनन्तरं दन्तिनां गजानां सम्प्रवक्ष्यामि
कथयिष्यामि। तेषां तु दन्तकल्पनेन दन्तभङ्गेनास्फोटनेन दन्तानां म्लानत्वेन वैकल्येन चेष्टया
चेष्टितेन। आदिग्रहणादन्यैः पार्थिवोपकरणादिभिः फलानि भवन्ति।।१५।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शाकुनेऽश्वेङ्गितं
नाम त्रिनवतितमोऽध्यायः ॥९३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ हस्तिचेष्टिताध्यायः
अथ हस्तिचेष्टितं व्याख्यायते। तत्रादावेव दन्तकल्पनविधानमाह—
दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेच्छेषम्।
अधिकमनूपचराणां न्यूनं गिरिचारिणां किञ्चित् ॥१॥
गजदन्त के मूल में जितनी अङ्गुलात्मक परिधि हो, उसको द्विगुणित करने पर जो
प्राप्त हो तत्तुल्य मूल से परित्याग कर शेष भाग से समस्त कल्पनायें करनी चाहिये।
जलप्राय देश के हाथियों में उससे कुछ अधिक और पर्वतचारी हाथियों में उससे कुछ
कम भाग का परित्याग करना चाहिये॥१॥
मूले परिधिर्मूलपरिधिः। परिधिः पारिमण्डल्यम्। दन्तस्य रदस्य मूले यः परिधिः
परिणाहस्तं द्विरायतं द्वौ वारौ द्विगुणमायतं दीर्घं प्रोह्य त्यक्त्वा शेषं कल्पयेत् छिन्द्यात्।
एतदुक्तं भवति—दन्तमूलात् पारिमण्डल्येन सूत्रेण मित्वा तत् सूत्रं द्विगुणं कृत्वा यद्भवति
तावत् प्रमाणं दन्तमूलाद् दैर्घ्यं त्यक्त्वा शेषं कल्पयेत्। अधिकमनूपचराणामिति। अनूपो
बहूदको देशः। अनूपचराणां हस्तिनां दन्तमूलपरिधिं द्विरायताधिकं प्रोह्य शेषं कल्पयेत्।
गिरिचराणां पर्वते सदैव ये चरन्ति तेषां न्यूनं किञ्चिद् दन्तमूलपरिधिं द्विरायतं प्रोह्य शेषं
कल्पयेत्। उक्तं च—
दन्तमूलपरिणाहदीर्घतां द्विः प्रमुच्य परतोऽपि कल्पयेत्।। इति।।१।।
अथ परिकल्पितस्य दन्तस्य लक्षणमाह—
श्रीवत्सवर्धमानच्छत्रध्वजचामरानुरूपेषु ।
छेदे दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि ॥२॥
काटने के समय हाथी के दाँत में बिल्ववृक्ष, वर्धमान, छत्र, ध्वज या चामर की
तरह चिह्न दिखाई दे तो आरोग्य, धन की वृद्धि और सुख होता है॥२॥
श्रीवत्सो वर्धमानः। एतौ चिह्नविशेषौ। छत्रमातपत्रम्। ध्वजः प्रसिद्धः। चामरं वाल-
व्यजनम्। एषामनुरूपेण सदृशेषु चिह्नेषु छेदे दृष्टेषु अवलोकितेष्वारोग्यमरोगित्वं विजयो
धनवृद्धिः सौख्यमेतानि भवन्ति॥२॥
अन्यदप्याह—
प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः ।
लोष्टे तु लब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः ॥३॥
शस्त्र के समान चिह्न दिखाई दे तो जय, नदी के आवर्त्त (जलभ्रम) के समान
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४६८ बृहत्संहिता
चिह्न दिखाई दे तो नष्ट देश की प्राप्ति और ढेले के समान चिह्न दिखाई दे तो पूर्व में
प्राप्त देश की प्राप्ति होती है।।३।।
प्रहरणं खड्गादि। प्रहरणसदृशेषु तदाकारेषु छेदे दृष्टेषु जयो भवति। नन्द्यावर्तश्चिह्न-
विशेषः। नद्यावर्तसदृशच्छेदे दृष्टे प्रनष्टस्यापहृतस्य देशस्याप्तिर्लाभो भवति। लोष्टे लोष्ट-
सदृशे तु मृत्खण्डाकृतौ लब्धपूर्वस्य देशस्य सम्प्राप्तिर्भवति। पूर्वं लब्धो लब्धपूर्वः। नाम-
मात्रेण लब्धो न हस्तीभूतस्तस्य सम्प्राप्तिर्लाभो भवति।।३।।
अन्यदप्याह—
स्त्रीरूपेऽश्वविनाशो भृङ्गारेऽभ्युत्थिते सुतोत्पत्तिः ।
कुम्भेन निधिप्राप्तिर्यात्राविघ्नश्च दण्डेन ॥४॥
स्त्री के समान चिह्न दिखाई दे तो धन का नाश, भृङ्गार के समान चिह्न दिखाई दे
तो पुत्र की उत्पत्ति, घड़े के समान चिह्न दिखाई दे तो निधि की प्राप्ति और दण्ड के
समान चिह्न दिखाई दे तो यात्रा में विघ्न होता है।।४।।
स्त्रीरूपे योषिदाकृतौ छेदे दृष्टेऽश्वानां तुरगाणां विनाशः क्षयो भवति। भृङ्गारो वार्धानी।
भृङ्गाराकृतावभ्युत्थिते उत्पन्ने सुतस्य पुत्रस्योत्पत्तिः सम्भवो भवति। कुम्भेन घटसदृशेन
निधिप्राप्तिर्निधिलाभो भवति। दण्डेन दण्डाकारेण यात्राविघ्नो गमननिषेधो भवति।।४।।
अन्यदप्याह—
कृकलासकपिभुजङ्गेष्वसुभिक्षव्याधयो रिपुवशित्वम्।
गृध्रोलूकध्वाङ्क्षश्येनाकारेषु जनमरकः ॥५॥
गिरगिट, छिपकली, वानर या सर्प की तरह चिह्न हो तो दुर्भिक्ष, व्याधि और शत्रु
के अधिकार में रहना होता है तथा गिद्ध, उल्लू, काक या बाज के समान चिह्न हो तो
मरकी होती है।।५।।
कृकलासः प्राणिविशेषः। कपिर्वानरः। भुजङ्गः सर्पः। एतेषु छेदे दृष्टेषु असुभिक्षं
व्याधयः पीडा रिपुवशित्वं शत्रूणां विधेयत्वमिति। गृध्रः, उलूकः। एतौ प्रसिद्धौ पक्षिणौ।
ध्वांक्षः काकः। श्येनो वाजकः। एषामाकारेषु सदृशेषु छेदे दृष्टेषु जनमरको जनानां मरको
भवति।।५।।
अन्यदप्याह—
पाशेऽथवा कबन्धे नृपमृत्युर्जनविपत् स्रुते रक्ते।
कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ॥६॥
पाश ( फाँसी ) या कबन्ध ( बिना शिर का पुरुष ) के समान चिह्न हो तो राजा
की मृत्यु, काटने पर रक्त निकले तो मनुष्यों के ऊपर विपत्ति तथा काला, पीला, रूखा
या दुर्गन्धि हो तो अशुभ होता है।।६।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
हस्तिचेष्टिताध्यायः ४६९
पाशः सर्पाकारः। कबन्धो विच्छिन्नशिराः पुरुषः। तत्सदृशे छेदे दृष्टे नृपमृत्युर्नृपस्य
राज्ञो मृत्युर्मरणं भवति। रक्ते शोणिते स्रुते जनानां विपदापदो भवन्ति। कृष्णे कृष्णवर्णे।
श्यावे मलिने। रूक्षे अस्निग्धे। दुर्गन्धे दुष्टगन्धे। छेदे दृष्टे अशुभमनिष्टं भवति। उक्तं च—
श्यावपूतिमलरक्तदर्शनं सर्पसत्त्वसदृशं च पापदम्।। इति।।६।।
अथ शुभच्छेदलक्षणमाह—
शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेच्छेदः।
गलनम्लानफलानि च दन्तस्य समानि भङ्गेन ॥७॥
यदि दाँत का छेद सफेद, समान, सुगन्धि या निर्मल हो तो शुभ होता है। ये सब
आसन के फल हैं। इसी तरह पूर्वोक्त सब लक्षण शय्या में भी फल देते हैं॥७॥
शुक्लः। समः सर्वभागेषु तुल्यः। सुगन्धिः शोभनगन्धिः। स्निग्धः सस्नेहः। एवं-
विधश्छेदः शुभावहः शुभं करोति। उक्तं च—
पार्थिवोपकरणोपमं यदा चिह्नमुद्वहति कल्पिते रदे।
श्रीजयार्थबलवृद्धयस्तदा स्निग्धशुक्लरुचिराश्च शोभनाः।।
गलनम्लानफलानीति। गलनं स्थानस्यैव विशरणं स्रावो वा। म्लानं म्लानता
वैवर्ण्यम्। एतेषां यानि फलानि तानि दन्तस्य भङ्गेन स्फोटनेन समानि। यादृशं दन्त-
भङ्गफलं वक्ष्यमाणं तादृशमपि गलनम्लानफलम्।।७।।
अन्यच्छुभाशुभमाह—
मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः।
स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसम्भवम् ॥८॥
हाथी के दाँत के मूल, मध्य और अग्रभाग में क्रम से देवता, दैत्य और मनुष्य
निवास करते हैं। जैसे दन्तमूल में देवता, मध्य में दैत्य और दन्ताग्र में मनुष्य निवास
करते हैं। साथ ही मूल में वक्ष्यमाण में फल पुष्ट, मध्य में मध्यम और अग्र में अल्प
होता है; इसी तरह मूल में वक्ष्यमाण फल शीघ्र ( सप्ताह के मध्य में ), मध्य में मध्य-
काल में ( एक मास के अन्दर ) और प्रान्त में देर से होता है।।८।।
यथाक्रमं गजस्य दन्तमूले दन्तमध्ये दन्ताग्रे च देवदैत्यमनुजाः क्रमात् स्थिताः।
तद्यथा—दन्तमूले देवा व्यवस्थिताः। दन्तमध्ये दैत्याः। दन्ताग्रे मनुजा देवविशेषाः। ततस्त-
स्माद् भागत्रयात् स्फीतमध्यपरिपेलवं फलं भवति। तत्र मूले वक्ष्यमाणं फलं स्फीतं
परिपुष्टं भवति। मध्ये मध्यमं नात्यल्पं नातिबहु। प्रान्ते परिपेलवं स्वल्पम्। तथा शीघ्रमध्य-
चिरकालसम्भवम्। मूले वक्ष्यमाणं फलं शीघ्रकालेन सप्ताहमध्ये सम्भवति। मध्ये मध्यमेन
कालेन मासान्तः। प्रान्ते चिरकालेन मासान्ते सम्भवतीत्यागमविधिः।।८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४७० बृहत्संहिता
अत्रैव पुनरपि विशेषमाह—
दन्तभङ्गफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम्।
वामतः सुतपुरोहितेभयान् हन्ति साटविकदारनायकान् ॥९॥
यदि दक्षिण भाग का दाँत मूल से टूट जाय तो राजा को भागने का भय, मध्य से
टूट जाय तो देश को भागने का भय और अग्र भाग से टूट जाय तो सेना को भागने का
भय रहता है। यदि वाम भाग का दाँत मूल आदि से टूट जाय तो क्रम से राजपुत्र,
पुरोहित, साधनपति तथा सेना, स्त्री और प्रधान पुरुष को मारता है॥९॥
अत्रास्मिन् भागत्रये दन्तभङ्गफलम्। दक्षिणे मूलाद् भग्ने भूपस्य राज्ञो विद्रवप्रदं
विद्रवं पलायनभयं ददाति। मध्याद् भग्ने देशस्य जनपदस्य विद्रवप्रदम्। प्रान्तभग्ने बलस्य
सेनाया विद्रवप्रदम्। वामतः सुतपुरोहितेभयानिति। वामतो वामे रदे मूलाद्भग्ने सुतं
राजपुत्रं हन्ति। मध्याद्भग्ने पुरोहितमाचार्यं हन्ति। अग्रे इभयान् साधनपतीन् हन्ति। तथा
साटविकदारनायकान् क्रमेण। वामदन्ते मूलाद्भग्ने साटविकं बलं हन्ति। मध्याद्भग्ने दाराः
कलत्रम्। अग्राद्भग्ने नायकान् प्रधानपुरुषान् हन्ति। गलनम्लानफलान्येवमेव ज्ञातव्यानि॥९॥
पुनरप्यत्र विशेषफलमाह—
आदिशेदुभयभङ्गदर्शनात् पार्थिवस्य सकलं कुलक्षयम्।
सौम्यलग्नतिथिभादिभिः शुभं वर्धतेऽशुभमतोऽन्यथा वदेत् ॥१०॥
यदि हाथी के दोनों दाँत टूट जायें तो राजा के सम्पूर्ण कुल का क्षय होता है। शुभ
ग्रह के लग्न ( वृष, मिथुन, कर्क, कन्या, तुला, धनु और मीन ), शुभ तिथि ( रिक्तावर्जित
तिथि ), शुभ नक्षत्र ( दारुण उग्र नक्षत्र को छोड़कर शेष नक्षत्र ) आदि में उत्पन्न हाथी
हो तो शुभ फलों की वृद्धि होती है और इससे विपरीत समय में उत्पन्न हो तो पाप फलों
की वृद्धि होती है॥१०॥
उभयोर्दन्तयोर्द्वयोर्भङ्गदर्शनात्। भङ्गः स्फोटनं यदि दृश्यते तदा पार्थिवस्य राज्ञः सकलं
निःशेषं कुलक्षयं वंशविनाशमादिशेद् वदेत्। निःशेषं नृपकुलं विनंश्यति। गलनम्लान-
फलान्येवमेव। सौम्यलग्नतिथिभादिभिः शुभं वर्धते। सौम्यस्य शुभग्रहस्य लग्नेन सौम्यग्रहाणां
लग्नानि वृषमिथुनकर्कटकन्यातुलधन्विमीनाः। येषां शुक्रबुधाक्षीणोन्दुजीवा अर्धपतयः।
एवं सौम्यलग्नेन सौम्यतिथिना रिक्तावार्जितः सौम्यस्तिथिः। नन्दाभद्राविजयापूर्णाः सौम्या-
स्तिथयः। सौम्यं भं नक्षत्रं दारुणोग्रवर्जम्। आदिग्रहणात् सौम्यदर्शनेन लग्नस्य सौम्यसंस्थित्या
वा सन्नामदर्शनादिना पूर्णं शुभं चिह्नं शुभेनोत्पन्नं वर्धते वृद्धिं याति। अशुभमतोऽन्यथा
वदेत्। अतोऽस्मादुक्तादन्यथा पापलग्नेन पापसंस्थित्या पापदर्शनेन सदोषतिथिना नक्षत्रेण
चाधिकमशुभं पापचिह्नं वर्धते वृद्धिं याति। व्यामिश्रेण व्यामिश्रम्। अशुभेन लग्नादिना वाऽशुभं
चिह्नं शुभेन वा शुभं यत्र तत्र व्यामिश्रं वा फलमूह्यमिति॥१०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
हस्तिचेष्टिताध्यायः ४७१
अधुना दन्तभङ्गस्य विशेषफलमाह—
क्षीरमृष्टफलपुष्पपादपेष्वापगातटविघट्टितेन वा।
वाममध्यरदभङ्गखण्डने शत्रुनाशकृदतोऽन्यथा परम् ।।११।।
यदि वाम भाग का दाँत दूध वाले, मधुर फल वाले या फूल वाले वृक्षों के घर्षण
या नदी के तट को विघट्टित करने पर मध्य से टूट जाय तो शत्रुनाश करता है। इसके
विपरीत · (दुष्ट वृक्षों के घर्षण से वाम दन्त का अग्र या मूल टूट जाय) तो शत्रु की
वृद्धि करता है।।११।।
अत्र वामस्यापसव्यस्य रदस्य दन्तस्य मध्याद्भङ्गः स्फोटनं खण्डनं भेदनं वा यदि
क्षीरवृक्षस्यार्कादिर्घट्टितेन चालनेन भवति। मृष्टफलपादपस्य मधुरफलवृक्षस्य वा चालनेन
भवति। पुष्पपादपस्य कुसुमवृक्षस्य वा चालनेनोत्पद्यते, तदा शत्रुनाशकृच्छत्रुनाशं करोति।
आपगातटविघट्टितेन वा आपो गच्छन्ति यासु ता आपगा नद्यस्तासां तटविघट्टितेन तीर-
चालनेन चोत्पद्यते; तथापि शत्रुनाशं करोति। अतोऽन्यथा परम्, अतोऽस्मादुक्तप्रकाराद्
अन्यथा दुष्टवृक्षादिघट्टितेन वामस्य दन्तस्य मूले वाग्रे यो भङ्गः खण्डनं वा तदा शत्रुवृद्धि-
कृदित्यर्थः। दक्षिणस्य मूलमध्याग्रेष्वपि भङ्गदर्शनाच्छत्रुवृद्धिकृदिति।।११।।
अधुना गजेङ्गितमाह—
स्खलितगतिरकस्मात् त्रस्तकर्णोऽतिदीनः
श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्।
द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो
भयकृदहितभक्षी नैकशोऽसृक्शकृत्कृत् ।।१२।।
चलते हुए हाथी की गति अचानक रुक जाय, कान हिलना बन्द हो जाय, अत्यन्त
दीनतापूर्वक सूँड को भूमि पर रखकर धीरे-धीरे लम्बी-लम्बी सांस लेकर चकित और
अर्धोन्मिलित दृष्टि हो जाय, बहुत देर तक शयन, उलटा चलने लगे, अभक्ष्य वस्तु का
भक्षण करे तथा बहुत बार रक्तमिश्रित मलत्याग करे तो भय देने वाला होता है।।१२।।
स्खलितगतिरकस्मादिति। अकस्माद्विना निमित्तं स्खलितगतिः, स्खलिता गतिर्यस्य
सः। अकस्मात् त्रस्तकर्णो वित्रस्तश्रोत्रः। अतिदीनोऽतीव दैन्यं गतः। श्वसिति मृदु
सुदीर्घमिति। पृथिव्यां भूमौ न्यस्तहस्तो विन्यस्तकरो मृदु कृत्वा सुदीर्घं चिरकालं श्वसिति
श्वासं विमुञ्चति। द्रुतमुकुलितदृष्टिः, द्रुता चकिता मुकुलिताऽर्द्धोन्मीलिता वा दृष्टिश्चक्षुषी
यस्य सः। स्वप्नशीलो बहुकालं स्वपिति। विलोमो विपरीतगतिः। यत्र प्रेर्यते तत्र न याति।
एवंविधो भयकृद्भयं करोति। तथाहितभक्षी, अहितमनिष्टं भक्षयति। अपथ्याशी। नैकशो-
ऽसृक्शकृत्कृत्। नैकशो बहून् वारानसृग्रक्तं शकृत् पुरीषं करोति, तदाऽपि भयकृत्।।१२।।
अधुना शुभचेष्टितमाह—
वल्मीकस्थाणुगुल्मक्षुपतरुमथनस्वेच्छया हृष्टदृष्टि-
र्ययाद्यात्रानुलोमं त्वरितपदगतिर्वक्त्रमुन्नाम्य चोच्चैः।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
४७२ बृहत्संहिता
कक्ष्यासन्नाहकाले जनयति च मुहुः शीकरं बृंहितं वा
तत्काले वा मदाप्तिर्जयकृदथ रदं वेष्टयन् दक्षिणं च ॥९३॥
यदि हाथी अपनी इच्छा से वल्मीक, स्थाणु ( शाखारहित वृक्ष ), गुल्म, घास या
अन्य किसी वृक्ष को मथन करते-करते हर्षित दृष्टि और ऊँचा मुख करके शीघ्र गति से
यात्रा के अनुकूल चले तथा हौदा कसने के समय जलबिन्दु उड़ावे, गर्जन करे, मद्युक्त
हो जाय या सूँड़ से दाहिने दाँत को लपेटे तो जय देने वाला होता है॥९३॥
वल्मीकस्थाणुगुल्मेति। एवंविधो गजो जयकृत्, राज्ञो जयं करोति। यदि वल्मीककृतं
मृत्स्तूपं मथ्नाति। स्थाणुर्निःशेषशाखाच्छिन्नो वृक्षः शुष्कवृक्षो वा। गुल्म एकमूलः शाखा-
समूहः। क्षुपं शष्पम्। तरुर्वृक्षः। एतेषामन्यतमं यदि स्वेच्छया आत्मैच्छया मथ्नाति। तथा
हृष्टदृष्टिः, हृष्टा दृष्टैर्यस्य सः। यायाद्यात्रानुलोममिति। त्वरितपदगतिः शीघ्रगामी वक्त्रं
मुखमुच्चैरून्नाम्योत्क्षिप्य यात्रानुलोमं यात्रादिशं यायाद् गच्छेत्। तथा कक्ष्यासन्नाहकाले मध्य-
बन्धनप्रतिवेलायां जनयत्युत्पादयति मुहुर्मुहुः पुनः पुनः शीकरं वक्रोदककणान् मुञ्चति।
बृंहितं घनगर्जितं वा करोति। तत्काले वा मदाप्तिर्मदप्रादुर्भावः। तथा रदं दन्तं दक्षिणं वेष्टयन्
करेणालम्बयन् इति॥९३॥
अन्यदपि चेष्टितमाह—
प्रवेशनं वारिणि वारणस्य ग्राहेण नाशाय भवेन्नृपस्य।
ग्राहं गृहीत्वोत्तरणं नृपस्य तोयात् स्थलं वृत्तिकरं नृभर्तुः ॥९४॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शाकुने हस्तिचेष्टितं
नाम चतुर्नवतितमोऽध्यायः ॥९४॥
यदि हाथी को पकड़ कर ग्राह जल में प्रवेश कर जाय तो राजा का नाश और ग्राह
को पकड़ कर हाथी जल से बाहर निकल जाय तो राजा की वृद्धि करता है॥९४॥
इति 'विमला' हिन्दीटीकायां शाकुने हस्तिचेष्टिताध्यायश्चतुर्नवतितमः ॥९४॥
वारणस्य गजस्य ग्राहेण जलप्राणिना वारिणि जलमध्ये प्रवेशनं नृपस्य राज्ञो नाशाय
भवेत् स्यात्। तथा द्विपस्य हस्तिनो ग्राहं जलप्राणिनं नीत्वाऽऽक्रम्य तोयाद् जलात् स्थलं
उत्तरणं नृभर्तू राज्ञो वृद्धिकरं भवतीति॥९४॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शाकुने हस्तिचेष्टितं
नाम चतुर्नवतितमोऽध्यायः ॥९४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ वायसविरुताध्यायः
अथ वायसविरुतं व्याख्यायते। तत्रादावेव प्रविभागप्रदर्शनार्थमाह—
प्राच्यानां दक्षिणतः शुभदाः काकाः करायिका वामाः ।
विपरीतमन्यदेशेष्ववधिर्लोकप्रसिद्धयैव ॥१॥
पूर्व देशवासियों के दक्षिण भाग में कौआ और वाम भाग में करायिका तथा अन्य
देशवासियों के वाम भाग में कौआ और दक्षिण भाग में करायिका शुभ होती है। लोक-
प्रसिद्धि से पूर्व आदि देशों को जानना चाहिये।।१।।
प्राच्यां पूर्वस्यां दिशि भवाः प्राच्याः। तेषां प्राच्यानां दक्षिणतो दक्षिणभागे काका
वायसाः शुभदाः। करायिकाः कूटपूर्यः। वामा वामभागस्थास्तेषामेव शुभदाः। अन्यदेशेषु
प्राग्देशवर्जितेषु विपरीतं विपर्यस्तम्। काको वामः करायिका दक्षिणेति देशे प्रविभागमाह—
अवधिर्लोकप्रसिद्धयैव। अवधिः परिच्छित्तिः सा च लोकप्रसिद्धयैव लोकप्रसिद्ध्या लोकतो
विज्ञेया। यथा इमे जनाः प्राच्याः, इमे दक्षिणाः, इमे पश्चिमाः, इम उत्तरा इति। आचार्ये-
णापि कूर्मप्रविभागे प्रदर्शिता इति।।१।।
अथ चेष्टितमाह—
वैशाखे निरुपहते वृक्षे नीडः सुभिक्षशिवदाता ।
निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ॥२॥
यदि कौआ वैशाख मास में उपद्रवरहित वृक्ष के ऊपर घोंसला बनावे तो सुभिक्ष
और मंगल करने वाला होता है तथा निन्दित, काँटेदार या सूखे हुये वृक्ष पर घोंसला
बनावे तो उस देश में दुर्भिक्ष का भय होता है।।२।।
वैशाखे वैशाखमासे निरुपहते निरुपद्रवे वृक्षे तरौ नीड आलयः सुभिक्षशिवदाता
भवति। सुभिक्षं श्रेयश्च ददाति। निन्दिते कुत्सिते। कण्टकिनि सकण्टके। शुष्के नीरसे
वृक्षे। यस्मिन् देशे एतेषु नीडं करोति। तद्देशे असुभिक्षभयानि भवन्ति।।२।।
अथ नीडवशेन फलमाह—
नीडे प्राक्शाखायां शरदि भवेत्प्रथमवृष्टिरपरस्याम् ।
याम्योत्तरयोर्मध्यात् प्रधानवृष्टिस्तरोरुपरि ॥३॥
शिखिदिशि मण्डलवृष्टिर्नैर्ऋत्यां शारदस्य निष्पत्तिः ।
परिशेषयोः सुभिक्षं मूषकसम्पच्च वायव्ये ॥४॥
यदि कौआ शरत्काल में वृक्ष के पूर्व दिशा में स्थित शाखा पर घोंसला बनावे तो
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४७४ बृहत्संहिता
पश्चिम दिशा में पहले वर्षा होती है तथा दक्षिण या उत्तर दिशा में घोंसला बनावे तो
प्रधान वृष्टि होती है। अग्निकोण में घोंसला बनावे तो मण्डल वृष्टि ( कहीं पर वृष्टि और
कहीं पर अवृष्टि ) होती है। नैर्ऋत्य कोण में घोंसला बनावे तो शारदीय धान्यों की
अच्छी निष्पत्ति होती है। परिशेष ( वायव्य और ईशान ) कोण में घोंसला बनावे तो
सुभिक्ष और वायव्य कोण में घोंसला होने से अधिक चूहे भी होते हैं।।३-४।।
नीडे प्राक्शाखायामिति। नीडे आलये तरौ वृक्षे प्राक्शाखायां पूर्वस्यां दिशि शाखायां
कृते शरदि शरत्काले। आश्वयुजकार्तिकयोर्वृष्टिर्वर्षणं भवेत्। अपरस्यां पश्चिमायां दिशि
स्थिते नीडे प्रथमवृष्टिर्वर्षासु श्रावणभाद्रपदयोर्वृष्टिर्भवति। याम्योत्तरयोर्दक्षिणसौम्ययोर्दिशि
स्थिते नीडे मध्याद् भाद्रपदाश्वयुजयोर्वृष्टिर्भवति। तरोर्वृक्षस्योपरि प्रधानशाखायां दिशि स्थिते
नीडे प्रधाना श्रेष्ठा चतुर्ष्वपि मासेषु श्रावणादिषु वृष्टिर्भवति।
शिखिदिशीति। शिखिदिशि आग्नेयदिशि स्थिते नीडे मण्डलवृष्टिर्भवति। क्वचिद्वृष्टिः
क्वचिदवृष्टिः। नैर्ऋत्यां दिशि स्थिते नीडे शरदस्य सस्यस्य निष्पत्तिर्भवति। परिशेषयोर्वा-
यव्यैशान्ययोः स्थिते नीडे सुभिक्षं भवति। वायव्ये कोणे मूषकानां सम्पद् बाहुल्यं भवति।
अथान्यच्चेष्टितमाह—
शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु ।
शून्यो भवति स देशश्चौरानावृष्टिरोगार्तः ॥५॥
जिस देश में कौआ शरकण्डा, कुशा, गुल्म, लता, धान्य, प्रासाद, गृह और निम्न
स्थान में घोंसले का निर्माण करे, वह देश चोर, अनावृष्टि और रोग से पीड़ित होकर
शून्य हो जाता है।।५।।
शरः प्रसिद्धः। दर्भः प्रसिद्ध एव। गुल्म एकमूलः शाखासमूहः। वल्ली प्रसिद्धा।
धान्यं प्रसिद्धम्। प्रासादो देवप्रासादः। गेहं वेश्म। निम्नं श्वभ्रम्। एतेषु स्थानेषु यत्र काकस्य
नीडो भवति स देशः शून्यो भवति। स देशश्चौरानावृष्टिरोगार्तः, चौरैस्तस्करैरनावृष्ट्या
अवर्षणेन रोगैर्गदैश्चार्तः पीडितो भवति। उक्तं च यात्रायाम्—
शस्तो नीडस्तु वैशाखे पादपे निरुपद्रवे।
देशोत्थानं तु वल्मीकचैत्यधान्यगृहादिषु।। इति।।५।।
अन्यच्चेष्टितमाह—
द्वित्रिचतुःशावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम्।
अण्डावकिरणमेकाण्डताप्रसूतिश्च न शिवाय ॥६॥
यदि कौए के दो, तीन या चार बच्चे हों तो सुभिक्ष, पाँच बच्चे हों तो दूसरे राजा
का अधिकार तथा यदि उसका अण्डा ही गिर जाय अथवा एक ही अण्डा दे या दे ही
नहीं तो अमंगल होता है।।६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वायसविरुताध्यायः ४७५
शावः शिशुः। अपत्यमित्यर्थः। द्वित्रिचतुःशावत्वं द्वयोस्त्रयाणां चतुर्णां वा शावकानां
भावो द्वित्रिचतुःशावत्वम्। तच्च सुभिक्षदम्। पञ्चभिः शावैर्नृपान्यत्वमन्यस्य राज्यं करोति।
द्वितीयो राजा भवतीत्यर्थः। अण्डावकिरणमण्डविक्षेपः। एकाण्डता एकाण्डभावः। अप्रसूतिश्च
प्रसवाभावः। एते सर्व एव न शिवाय न श्रेयसे भवन्ति॥६॥
अथैतेषामेव विशेषमाह—
चौरकवर्णैश्चौराश्चित्रैर्मृत्युः सितैस्तु वह्निभयम्।
विकलैर्दुर्भिक्षभयं काकानां निर्दिशेच्छिशुभिः ॥७॥
यदि कौए के बच्चे का वर्ण गन्धद्रव्य के समान हो तो चोरों की उत्पत्ति, चित्र-
वर्णवत् हो तो मृत्यु, सफेद वर्ण हो तो अग्नि का भय और किसी अंग हीन से हो तो
दुर्भिक्ष का भय होता है॥७॥
चौरकं गन्धद्रव्यम्। तद्वर्णैः शिशुभिश्चौरास्तस्करा भवन्ति। चित्रैश्चित्रवर्णैर्नानाकारैर्मृत्यु-
र्भवति। सितैः शुक्लैस्तु वह्निभयमग्निभयम्। विकलैर्दुर्भिक्षभयम्। विकलैरङ्गहीनौः काकानां
ध्वांक्षाणां शिशुभिर्बालैर्दुर्भिक्षभयं निर्दिशेद् वदेत्। उक्तं च—
काकानां स्रवणे द्वित्रिचतुःशावाः शुभावहाः।
चोरचित्रकश्वेताश्च वर्णाश्चौराग्निमृत्युदाः॥
अण्डावकिरणैर्ध्वाक्ष्या दुर्भिक्षमरकावुभौ।
शावानां विकलत्वे वा निःशावत्वे कृतौ तथा॥ इति॥७॥
अन्यदप्याह—
अनिमित्तसंहतैर्ग्राममध्यगैः क्षुद्भयं प्रविरुवद्भिः।
रोधश्चक्राकारैरभिघातो वर्गवर्गस्थैः ॥८॥
यदि कौवे विना कारण गाँव के बीच में एकत्र होकर बहुत शब्द करें तो दुर्भिक्ष का
भय, चक्र की तरह इकट्ठे होकर स्थित हों तो नगर का रोध और वर्ग-वर्ग करके स्थित
हों तो उपद्रव होता है॥८॥
अनिमित्तमकारणं संहतैः समेतैर्ग्राममध्यगैर्ग्राममध्यस्थितैर्वायसैः प्रविरुवद्भिर्वाशितैः
क्षुद्भयं दुर्भिक्षभयं भवति। चक्राकारैश्चक्रवत्पारिमाण्डल्येन स्थितै रोधः पुररोधो भवति।
वर्गवर्गस्थैरकारणसमेतैर्बहुभिः समूहैः स्थितैरभिघात उपद्रवो भवति। उक्तं च—
अकार्यसंहतैर्भेदो रोधश्चक्राकृतिस्थितैः।
वर्गगैश्चाभिघातः स्याद्रिपुवृद्धिश्च निर्भयैः॥ इति॥८॥
अन्यदप्याह—
अभयाश्च तुण्डपक्षश्चरणविघातैर्जनानभिभवन्तः।
कुर्वन्ति शत्रुवृद्धिं निशि विचरन्तो जनविनाशम् ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४७६ बृहत्संहिता
यदि कौवे भयरहित होकर चोंच, पंख और पञ्जों से मनुष्यों को मारें तो शत्रुवृद्धि
तथा रात्रि में विचरण करें तो जन की क्षति होती है॥९॥
अभया भयरहिताः। तुण्डैश्चञ्च्वग्रैः। पक्षैरङ्गरुहैः। चरणविघातैः पादप्रहारैः। जनान्
लोकानभिभवन्तः पराभवन्तः शत्रुवृद्धिं रिपुवृद्धिं कुर्वन्ति। निशि रात्रौ विचरन्तो जनानां
लोकानां विनाशं कुर्वन्ति॥९॥
अन्यदप्याह—
सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैश्र्व परात् ।
अत्याकुलं भ्रमद्भिर्वातोद्भ्रामो भवति काकैः ॥१०॥
यदि कौवे आकाश में प्रदक्षिणक्रम से भ्रमण करें तो आत्मीय जनों से और अपसव्य
क्रम से भ्रमण करें तो शत्रुओं से भय होता है तथा अति आकुलता के साथ भ्रमण करें
तो देखने वाले की अनवस्थिति होती है॥१०॥
सव्येन प्रादक्षिण्येन खे आकाशे भ्रमद्भिः काकैर्वायसैः पूर्वदक्षिणपश्चिमोत्तरा इत्यनेन
क्रमेण भ्रमद्भिः स्वेभ्य आत्मीयेभ्यो भयं भवति। विपरीतमण्डलैः पूर्वोत्तरपश्चिमदक्षिणा
इत्यनेन क्रमेण भ्रमद्भिः पराच्छत्रोर्भयं भवति। अत्याकुलं सोद्यमं भ्रमद्भिः काकैर्वातोद्भ्रामो
भवत्यनवस्थितिरित्यर्थः। उक्तं च—
पुरसैन्योपरि व्योम्नि व्याकुलैरनिलाद्भयम्।
सव्यमण्डलगैः स्वोत्थमपसव्यैः पराद्भयम्॥ इति॥१०॥
अन्यदप्याह—
ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुषः।
सेनाङ्गस्था युद्धं परिमोषं चान्यभृतपक्षाः ॥११॥
यदि कौवे ऊपर को मुँह उठाकर पंखों को चलावें तो मार्ग में भय, धान्यों को
चुरावें तो दुर्भिक्ष का भय, सेना के अंगों पर बैठ जायँ तो युद्ध और कोयल के समान
अति काले पंख कौवे के हों तो चोर का भय होता है॥११॥
ऊर्ध्वमुखा ऊर्ध्ववदनाः। चलपक्षाः चलिताङ्गरुहाः। पथि भयदाः, अध्वनि भयं ददति।
धान्यमुषो धान्यं चोरयन्तः क्षुद्भयाय दुर्भिक्षाय भवन्ति। सेनाङ्गानि पर्याणखलीनप्रभृतीनि
तेषु स्थिता युद्धं संग्रामं सूचयन्ति। अन्यभृतः कोकिलः। अन्यभृतस्येव पक्षो येषामति-
कृष्णपक्षास्ते परिमोषं चौरभयं कुर्वन्ति। उक्तं च—
युद्धं सेनाङ्गसंस्थेषु मोषकृत् स्वविलेखने।
चरन्निशि विनाशाय दुर्भिक्षं चान्नमोषकृत्॥ इति॥११॥
अन्यदप्याह—
भस्मास्थिकेशपत्राणि विन्यसन् पतिवधाय शय्यायाम् ।
मणिकुसुमाद्यवहने सुतस्य जन्माप्यथाङ्गनायाश्च ॥१२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वायसविरुताध्यायः ४७७
यदि कौवे शय्या के ऊपर भस्म, हड्डी, केश और पत्ते डालें तो शय्या के स्वामी का
वध; मणि, फूल और फल डालें तो पुत्रजन्म तथा तृण, काष्ठ आदि डालें तो कन्या का
जन्म होता है।।१२।।
शय्यायामास्तरणे। भस्म। अस्थि। केशा मूर्धजाः। पत्रं पर्णम्। एतानि विन्यसन् विक्षिपन्
पतिवधाय भवन्ति। शय्याया यः पतिः स्वामी तस्य। उक्तं च—
तृणभस्मास्थिकेशाश्च शयने स्वामिमृत्युदाः।
मणिकुसुमाद्यवहनन इति। मणिना रत्नेन। कुसुमेन पुष्पेण। आदिग्रहणात् फलेन।
यदि शय्यायामवहननं ताडनं करोति, तदा सुतस्य पुत्रस्य जन्म भवति। अन्यथाननेन
प्रकारेण मणिकुसुमानि वर्जयित्वा तृणकाष्ठादिनाऽवहननं करोति तदाङ्गनायाः स्त्रिया जन्म
भवति।।१२।।
अन्यदप्याह—
पूर्णाननेऽर्थलाभः सिकताधान्यार्द्रमृत्कुसुमपूर्वैः ।
भयदो जनसंवासाद्यदि भाण्डान्यपनयेत् काकः ॥१३॥
यदि कौवे रेत, धान्य, गिली मिट्टी, पुष्प या फल मुँह में भर कर अपने स्थान पर
आवें तो धन का लाभ होता है तथा जल के समीप से कुछ बर्तन लेकर जायँ तो भय
देते हैं।।१३।।
सिकता वालुका। धान्यं प्रसिद्धम्। आर्द्रमृत् सरसा मृत्तिका। कुसुमं पुष्पम्। पूर्व-
ग्रहणात् फलं शाद्वलं च। एतैः पूर्णानने परिपूरितवदने काकेऽर्थलाभो भवति। तथा काको
जनसंवासाद् जननिकटाद्यदि भाण्डान्यपनयेदपनयति तदा भयदो भयं ददाति।।१३।।
अन्यदप्याह—
वाहनशस्त्रोपानच्छत्रच्छायाङ्गकुट्टने मरणम्।
तत्पूजायां पूजा विष्ठाकरणेऽन्नसम्प्राप्तिः ॥१४॥
जिसके वाहन, शस्त्र, जूते और छत्र की छाया को कौआ कूटे उसका मरण, उन
वाहन आदि की फूल आदि से पूजा करे तो उसकी पूजा और उन पर वीट करे तो
उसको भोजन का लाभ होता है।।१४।।
वाहनं यानम्। शस्त्रं खड्गादि। उपानत् प्रसिद्धा। छत्रच्छाया आतपत्रच्छाया। अङ्गं
शरीरम्। एषां कुट्टने ताडने मरणं भवति। तत्पूजायां तेषामेव वाहनादीनां पूजायां
पुष्पादिपूजनेन पूजा भवति। एषामेव विष्ठाकरणे पुरीषकरणे अन्नसम्प्राप्तिर्भोजनलाभो
भवति। उक्तं च—
उपानच्छत्रयानाङ्गच्छत्रच्छायावकुट्टने ।
मृत्युं तत्स्वामिनो ब्रूयात् पूजा स्यात्तत्प्रपूजने।। इति।।१४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४७८ बृहत्संहिता
अन्यदप्याह—
यद्द्रव्यमुपनयेत्तस्य लब्धिरपहरति चेत् प्रणाशः स्यात्।
पीतद्रव्यैः कनकं वस्त्रं कार्पासिकैः सितै रूप्यम् ॥९५॥
कौआ जो कहीं से उठा कर ले आवे, उसका लाभ और जो ले जाय उसका नाश
होता है। पीले द्रव्य से सोना, कपाससम्बन्धी वस्तु से वस्त्र और सफेद वस्तु से रजत
का लाभ या नाश होता है।।९५।।
काको यद्द्रव्यमुपनयेत् समीपे आनयेत् तस्य द्रव्यस्य लब्धिर्भवति। चेद्यदि यद्-
द्रव्यमपहरति तदा तद्द्रव्यस्य प्रणाशो नाशो भवति। पीतद्रव्यैः कनकं सुवर्णं लभ्यते,
अपहृते तदेव नश्यति। एवं सर्वत्र। कार्पासिकैर्वस्त्रमम्बरम्। सितैः श्वेतवर्णै रूप्यम्।
उक्तं च—
हरेदुपनयेद् वापि यद्द्रव्यं वायसोऽग्रतः।
तन्नाशलब्धौ विज्ञेयौ हेमे पीते विनिर्दिशेत्।। इति।।९५।।
अन्यदप्याह—
सक्षीरार्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च।
प्रावृषि वृष्टिं दुर्दिनमनृतौ स्नाताश्च पांशुजलैः ॥९६॥
दूध वाले वृक्ष, अर्जुन वृक्ष, वञ्जुल वृक्ष या नदी के दोनों तट पर स्थित होकर कौए
शब्द करें या धूली अथवा जल से स्नान करें तो वर्षाकाल में वृष्टि तथा अन्य ऋतु में
दुर्भिक्ष करता है।।९६।।
सह क्षीरेण वर्तते यो वृक्षः स सक्षीरः, अर्जुनः। वञ्जुलः, एतौ वृक्षविशेषौ। एतेषु
तथा कूलद्वयपुलिनगा नद्याः कूलद्वये यौ पुलिनौ तयोर्गताः। रुवन्तश्च वाशमानाः। प्रावृषि
वर्षासु वृष्टिं कुर्वन्ति। अनूतावन्यस्मिन् ऋतौ वर्षावर्जिते दुर्दिनं दुष्टं दिनं कुर्वन्ति। तथा
पांशुभिर्जलैश्चाद्भिः स्नाताः प्रावृषि वृष्टिं कुर्वन्ति। अन्यस्मिन् ऋतौ दुर्दिनमेवेति।।९६।।
अन्यदप्याह—
दारुणनादस्तरुकोटरोगो वायसो महाभयदः।
सलिलमवलोक्य विरुवन् वृष्टिकरोऽब्दानुरावी च ॥९७॥
वृक्ष के कोटर में अवस्थित कौआ भयंकर शब्द करे तो महाभय देने वाला होता
है एवं जल देखकर या मेघगर्जन के बाद शब्द करे तो वृष्टि करने वाला होता है।९७।
वायसः काकस्तरुकोटरे वृक्षगर्भे स्थितः। कीदृशः ? दारुणनादो दारुणः क्रूरो नादः
शब्दो यस्य स महाभयदो महद्भयं ददाति। सलिलं जलमवलोक्य दृष्ट्वा विरुवन् क्रोशन्
वृष्टिकरः। अब्दस्य मेघस्यानुरावी पश्चाद्रौति तदा वृष्टिकर एव।।९७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वायसविरुताध्यायः ४७९
अन्यदप्याह—
दीप्तोद्विग्नो विटपे विकुट्टयन् वह्निकृद्विधुतपक्षः ।
रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे विदधत् ॥१८॥
लता के वितान में सूर्याभिमुख और दुःखी होकर चञ्चु से अपने शरीर को कूटे,
पंख को चलावे तथा लाल द्रव्य या दुग्ध, तृण अथवा काष्ठ को घर में ले आवे तो
अग्निभय करता है॥१८॥
विटपे लताविताने दीप्तोद्विग्नो दीप्तः सूर्याभिमुख उद्विग्नो दुःखितो विकुट्टयन्
चञ्च्वा भिन्दन्। विधुतपक्षः चलत्पक्षः। वह्निकृदग्निभयं करोति। गृहे वेश्मनि रक्तद्रव्यं
रक्तवर्णद्रव्यं दग्धं तृणं काष्ठं वा विदधत् कुर्वद्वह्निकृदेव। उक्तं च—
रक्तद्रव्यं प्रदग्धं च धान्यं गेहेऽग्निदः स्मृतः।। इति।।१८।।
अथ दिक्फलमाह—
ऐन्द्र्यादिदिगवलोकी सूर्याभिमुखो रुवन् गृहे गृहिणः ।
राजभयचोरबन्धनकलहाः स्युः पशुभयं चेति ॥१९॥
यदि कौआ गृहस्थों के घर पर स्थित होकर पूर्व आदि दीप्त दिशा की तरफ मुख
करके शब्द करे तो क्रम से राजभय, चोरभय, बन्धन और कलह होता है। जैसे दीप्त
पूर्व दिशा की तरफ मुख करके शब्द करे तो राजभय, दीप्त दक्षिण दिशा की तरफ मुख
करके शब्द करे तो चोरभय, दीप्त पश्चिम दिशा की तरफ मुख करके शब्द करे तो
बन्धन और दीप्त उत्तर दिशा की तरफ मुख करके शब्द करे तो कलह होता है। साथ
ही दीप्त विदिशाओं की तरफ मुख करके शब्द करे तो पशुओं को भय होता है॥१९॥
ऐन्द्र्यादिदिगवलोकीति। ऐन्द्र्यादीनां पूर्वादीनां दिशामवलोकयति तच्छीलः।
सूर्याभिमुखोऽर्कसम्मुखो गृहे वेश्मनि स्थितो रुवन् शब्दं कुर्वन् गृहिणो गृहस्वामिनो
राजभयादीन् दोषान् करोति। ऐन्द्रीं दिशं दीप्तामवलोकयन् निरीक्षयन् गृहे स्थितो विरौति
तदा गृहिणो राजभयं करोति। एवमाग्नेय्यां दक्षिणस्यां चौरभयम्। एवं नैर्ऋत्यां पश्चिमायां
बन्धनभयं भवति। एवमेव वायव्यामुत्तरस्यां कलहः, पशूनां चतुष्पदानां भयं च। एव-
मेवैशान्यामिति च। अथवा विदिक्षु सर्वासु पशुभयमिति।।१९।।
एवं दीप्तासु दिग्विधिक्षु फलमभिधायाधुना शान्तामाह—
शान्तामैन्द्रीमवलोकयन् रुयाद्राजपुरुषमित्राप्तिः ।
भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च ॥२०॥
यदि कौआ शान्त पूर्व दिशा को देखता हुआ शब्द करे तो राजपुरुष और मित्र का
समागम, सुवर्ण का लाभ तथा शालिधान्य और गुड़मिश्रित भोजन का लाभ होता है॥२०॥
शान्तामैन्द्रीं पूर्वां दिशमवलोकयन्नीक्षन् रुयाच्छब्दं करोति तदा राजपुरुषस्य प्राप्ति-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४८० बृहत्संहिता
मित्रप्राप्तिश्च भवति। अथवा राजपुरुष एव मित्रं तस्य प्राप्तिरागमः। तथा सुवर्णस्य काञ्चनस्य
लब्धिर्लाभः। शाल्यन्नस्य शालिभक्तस्य गुडाशनस्य गुडसंयुक्तस्य च भोजनस्याप्तिः प्राप्ति-
र्भवति।।२०।।
अन्यदप्याह—
आग्नेय्यामनलाजीविकयुवतिप्रवरधातुलाभश्च ।
याम्ये माषकुलूत्थाभोज्यं गान्धर्विकैर्योगः ।।२१।।
यदि कौआ शान्त आग्नेय कोण को देखता हुआ शब्द करे तो अग्नि से जीविका
करने वाले ( सोनार, लोहार आदि ) और युवती स्त्री का समागम तथा उत्तम धातु
( सुवर्ण आदि ) का लाभ होता है। यदि कौआ शान्त दक्षिण दिशा को देखता हुआ
शब्द करे तो उड़द और कुलथी का भोजन तथा गान विद्या जानने वाले के साथ
समागम होता है।।२१।।
आग्नेय्यां शान्तां दिशमवलोकयन् यदा रौति तदाऽनलजीविकोऽग्न्युपजीविकः
सुवर्णकारादिकः। युवती स्त्री। प्रवरः प्रकृष्टः। धातुः सुवर्णादिकः। एतेषां लाभश्च भवति।
याम्ये दक्षिणस्यां दिशि शान्तामवलोकयन् माषकुलूत्थाभोज्यं भवति। गान्धर्विकैर्गेयप्रवीणैश्च
सह योगः संयोगो भवति।।२१।।
अन्यदप्याह—
नैर्ऋत्यां दूताश्वोपकरणदधितैलपललभोज्याप्तिः ।
वारुण्यां मांससुरासवधान्यसमुद्ररत्नाप्तिः ।।२२।।
यदि कौवा शान्त नैर्ऋत्य कोण को देखता हुआ शब्द करे तो दूत, घोड़े का
उपकरण, दही, तेल, मांस और भोज्य पदार्थ का लाभ होता है। यदि शान्त पश्चिम दिशा
की तरफ देखता हुआ शब्द करे तो मांस, मद्य, आसव, धान्य और समुद्रोत्पन्न रत्नों का
लाभ होता है।।२२।।
नैर्ऋत्यां दिशि स्थितः काकः। शान्ता च या दिशा तामवलोकयन् रुयात् तदा दूतस्य।
अश्वस्य तुरगस्य। उपकरणानामुपकरणभाण्डानाम्। उपयुज्यते यत् तदुपकरणम्। अश्वो-
पयोगिभाण्डानाम्। दधि दुग्धविकारः। तैलं तिलतैलम्। पललमर्धपीडितास्तिलाः। भोज्य-
मशनम्। एषां प्राप्तिर्लाभो भवति। वारुण्यां पश्चिमायां शान्तामवलोकयन् रुयात्। मांस-
मामिषम्। सुरा वारुणी। आसवं पानम्। अथवा सुरैरासवम्। धान्यं शालयः। समुद्ररत्नानां
समुद्राजातानां रत्नानां प्राप्तिर्भवति।।२२।।
अन्यदप्याह—
मारुत्यां शस्त्रायुधसरोजवल्लीफलाशनाप्तिश्च ।
सौम्यायां परमान्नाशनं तुरङ्गाम्बरप्राप्तिः ।।२३।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
वायसविरुताध्यायः ४८१
यदि कौआ शान्त वायव्य दिशा को देखता हुआ शब्द करे तो शस्त्र, लोहा, आयुध
( खड्ग आदि ), कमल, लता, फल और भोजन का लाभ होता है। यदि शान्त उत्तर
दिशा की तरफ मुख करके शब्द करे तो पायस भोजन, घोड़ा और वस्त्र का लाभ होता
है।।२३।।
मारुत्यां वायव्यां शान्तामवलोकयन् ब्रूयात्। शस्त्रं लोहम्। आयुधं खड्गादि। सरोजं
पद्मम्। वल्लीफलानि कूष्माण्डादीनि। अशनं भोजनम्। एतेषामाप्तिः प्राप्तिर्भवति। सौम्या-
यामुत्तरस्यां परमान्नाशनं परमात्रं पायसं तदेवाशनम्। तुरङ्गोऽश्वः। अम्बरं वस्त्रम्। एतेषां
च प्राप्तिर्भवति।।२३।।
अन्यदप्याह—
ऐशान्यां सम्प्राप्तिर्घृतपूर्णानां भवेदनडुहश्च।
एवं फलं गृहपतेर्गृहपृष्ठसमाश्रिते भवति ॥२४॥
यदि कौआ शान्त ईशान कोण की तरफ मुख करके शब्द करे तो घी से युक्त भक्ष्य
पदार्थ और बैल का लाभ होता है। इसी प्रकार घर के पीछे स्थित कौए के फल भी
गृहस्वामी को होते है।।२४।।
ऐशान्यां दिशि शान्तायां ब्रूयात् घृतपूर्णानां भक्ष्यविशेषाणामनडुहो वृषभस्य च सम्प्राप्ति-
र्लाभो भवेत् स्यात्। एवमनेन प्रकारेण गृहस्य वेश्मनः पृष्ठे समाश्रिते काके गृहपतेर्गृहस्वामिनः
फलं भवति।।२४।।
गमने कर्णसमश्चेत् क्षेमाय न कार्यसिद्धये भवति।
अभिमुखमुपैति यातुर्विरुवन् विनिवर्तयेद्यात्राम् ॥२५॥
यदि यात्राकाल में कान के बराबर होकर कौवा उड़े तो कुशल करता है; किन्तु
कार्य की सिद्धि नहीं होती है तथा यात्रा करने वाले के सामने में शब्द करता हुआ आ
जाय तो यात्रा में विघ्न करता है।।२५।।
चेच्छब्दो यद्यर्थे। गमने यात्रायां यदि कर्णसमो भवति काकः, कर्णप्रदेशे यातुर्गच्छति,
तदा क्षेमाय भवति। न कार्यसिद्धये क्षेमं करोति न कार्यसिद्धिं करोति। यदर्थं यात्रा तत्कार्य-
सिद्धिं न करोति। यातुरभिमुखं सम्मुखं विरुवन् शब्दं कुर्वन्नुपेत्यागच्छति तदा यात्रां निवर्त-
येद्यात्राविघ्नं करोति। उक्तं च—
यातुः कर्णसमो ध्वांक्षः क्षेमे नार्थप्रसाधकः।। इति।।२५।।
अन्यदप्याह—
वामे वाशित्वादौ दक्षिणपार्श्वेऽनुवाशते यातुः।
अर्थापहारकारी तद्विपरीतोऽर्थसिद्धिकरः ॥२६॥
यदि कौआ पहले यात्रा करने वाले के वाम भाग में शब्द करके फिर दक्षिण भाग
बृ० भ० द्वि०-३१
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४८२ बृहत्संहिता
में शब्द करे तो धन का अपहरण करने वाला होता है। इससे विपरीत हो ( दक्षिण भाग
में शब्द करके फिर वाम भाग में शब्द करे ) तो अर्थ-सिद्धि करता है।।२६।।
यातुः प्रथममादौ वामभागे वाशित्वा रुतं कृत्वा ततो यदि दक्षिणपार्श्वे वाशते तदा-
ऽर्थस्य धनस्यापहारकारी भवति। तद्विपरीतः पूर्वोक्ताद्विपर्यस्तो दक्षिणपार्श्वे वाशित्वा वामे
वाशते तदाऽर्थसिद्धिं करोति।।२६।।
अन्यदप्याह—
यदि वाम एव विरुवन् मुहुर्मुहुर्यायिनोऽनुलोमगतिः ।
अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिणश्चैवम् ।।२७।।
यदि गमन करने वाले के वाम भाग में स्थित कौआ पीछे की ओर गमनशील
होकर बार-बार शब्द करे तो अर्थ की सिद्धि होती है। पूर्व देशवासियों के दक्षिण में
स्थित काक का भी इसी प्रकार का फल होता है अर्थात् यात्राकाल में पूर्व देशवासियों
के दक्षिण में स्थित कौआ पीछे की ओर गमनशील होकर शब्द करे तो अर्थ की सिद्धि
होती है।।२७।।
यदि वाम एव वामभागे यायिनोऽनुलोमगतिर्यातुः पश्चाद्गमनशीलः स मुहुर्मुहुः पुनः-
पुनर्विरुयाद् वाशते तदाऽर्थस्य सिद्ध्यै सिद्धये भवति। एवमनेन प्रकारेण प्राच्यानां दक्षिणः
काकोऽपीष्यते। तेनैतदुक्तं भवति—'दक्षिणे मुहुर्मुहुर्वाशते यायिनोऽनुलोमगतिस्तद्देश्यत'
इति।।२७।।
अन्यदप्याह—
वामः प्रतिलोमगतिर्विरुवन् गमनस्य विघ्नकृद्भवति ।
तत्रस्थस्यैव फलं कथयति तद्वाञ्छितं गमने ।।२८।।
गमन करने वाले के वाम भाग में स्थित कौआ प्रतिलोम गति वाला ( अभिमुख में
आता हुआ ) होकर शब्द करे तो यात्रा में विघ्न करता है; किन्तु यात्रा में जो अभिलषित
फल होता है, वह घर बैठे ही मिल जाता है।।२८।।
वामे यातुर्वामभागस्थः प्रतिलोमगतिर्यायिनोऽभिमुखमागच्छति स च विरुवन् क्रोशन्।
गमनस्य यात्राया विघ्नकृद् भवति। गमने यात्रायां यद्वाञ्छितमभिलषितं फलं तत्रस्थस्यैव
यातुर्निश्चलस्य कथयति वक्ति।।२८।।
अन्यदप्याह—
दक्षिणविरुतं कृत्वा वामे विरुयाद्यथेप्सितावाप्तिः ।
प्रतिवाश्य पुरो यायाद् द्रुतमत्यार्गमो भवति ।।२९।।
यदि कौआ गमन करने वाले के दक्षिण भाग में शब्द करके वाम भाग में शब्द करे
तो अभिलषित अर्थ का लाभ होता है। यदि शब्द करके आगे होकर चला जाय तो
गमन करने वाले को अधिक धन का लाभ होता है।।२९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वायसविरुताध्यायः ४८३
दक्षिणे यातुर्दक्षिणभागे विरुतं कृत्वा वामे वामभागे विरुयाद्यदि वाशते, तदा यथेप्सि-
तस्य यथाभिलषितस्यार्थस्यावाप्तिर्लाभो भवति। उक्तं च—
वामपार्श्वस्थिताद्याति दक्षिणाद्रापि वामगः। इति।
प्रतिवाश्य शब्दं कृत्वा पुरोऽग्रतो द्रुतं त्वरितं यायाद् याति तदाग्रत एव यातुरत्यर्थस्य
महाधनस्यागमो लाभो भवति।।२९।।
अन्यदप्याह—
प्रतिवाश्य पृष्ठतो दक्षिणेन यायाद् द्रुतं क्षतजकारी।
एकचरणोऽर्कमीक्षन् विरुवंश्च पुरो रुधिरहेतुः ।।३०।।
यदि कौआ पीठ की तरफ शब्द करके दक्षिण पार्श्व से होकर चला जाय तो गमन
करने वाले के शरीर से किसी कारणवश खून निकलता है। यदि एक पाँव से खड़ा
होकर सूर्य को देखता हुआ शब्द करे तो आगे खून निकलने का कारण होता है।।३०।।
पृष्ठतः पश्चात् प्रतिवाश्य दक्षिणेन पार्श्वेन द्रुतं त्वरितं यायाद् गच्छेत् तदा क्षतज-
कारी क्षतजं रक्तं करोति। एकचरण एकपादः, एकेनैव पादेन स्थितोऽर्कमादित्यमीक्षन्
पश्यन् विरुवन् शब्दं कुर्वन् पुरोऽग्रतो रुधिरस्य रक्तस्रावस्य हेतुः कारणम्।।३०।।
अन्यदप्याह—
दृष्ट्वार्कमेकपादस्तुण्डेन लिखेद्यदा स्वपिच्छानि।
पुरतो जनस्य महतो वधमभिधत्ते तदा बलिभुक् ।।३१।।
यदि कौवा एक पाँव से खड़ा होकर सूर्य को देखते-देखते अपनी चोंच से पंखों
को कुरेदे तो भविष्य में किसी प्रधान पुरुष के वध को सूचित करता है।।३१।।
अर्कमादित्यं दृष्ट्वा अवलोक्य एकपाद एकेनैव पादेन स्थितस्तुण्डेन चञ्च्वा स्वपिच्छा-
न्यात्मीयान्यङ्गरुहाणि यदा बलिभुक् काको लिखेत्, तदा पुरतो महतः प्रधानस्य जनस्य
वधं मृत्युमभिधत्ते ददाति।।३१।।
अन्यदप्याह—
सस्योपेते क्षेत्रे विरुवति शान्ते ससस्यभूलब्धिः।
आकुलचेष्टो विरुवन् सीमान्ते क्लेशकृद्यातुः ।।३२।।
यदि धान्यसहित खेत की शान्ता दिशा में स्थित होकर काक शब्द करे तो धान्य-
सहित भूमि का लाभ होता है तथा गाँव की सीमा के अन्त में स्थित होकर व्याकुलतापूर्वक
शब्द करे तो गमन करने वाले को क्लेश करने वाला होता है।।३२।।
सस्योपेते सस्यसंयुक्ते क्षेत्रे शान्ते काके विरुवति ससस्यायाः सस्यसंयुक्ताया भुवो
भूमेर्लब्धिर्लाभो भवति। सीमान्ते ग्रामसीमान्ते स्थितस्तत्र चाकुलचेष्टः सोद्यमो विरुवन्
यातुः क्लेशकृद्भवति।।३२।।
४८४ बृहत्संहिता
अन्यदप्याह—
सुस्निग्धपत्रपल्लवकुसुमफलानम्रसुरभिमधुरेषु ।
सक्षीराव्रणसंस्थितमनोज्ञवृक्षेषु चार्थसिद्धिकरः ॥३३॥
स्निग्ध पत्ते, नवीन पल्लव, फूल और फलों से नम्र, सुगन्धियुत, मधुर, छिद्ररहित
और मनोहर वृक्ष पर स्थित काक अर्थ-सिद्धि करने वाला होता है।।३३।।
सुस्निग्धेष्वभक्तेष्वक्षोटादिषु। सुस्निग्धपत्रेषु सुस्निग्धपल्लवेषु च। पत्राणि सामान्य-
वाचकानि। पल्लवान्यभिनवपत्राणि। कुसुमैः पुष्पैः फलैश्चानम्रेषु विनतेषु। सुरभिषु सुगन्धिषु
मधुरेषु सक्षीरेष्वर्कादिषु। अव्रणेषु अच्छिद्रेषु। मनोज्ञेषु चित्ताह्लादकेषु वृक्षेषु स्थितोऽर्थसिद्धि-
करोऽर्थानां सिद्धिं साधनं करोति।।३३।।
अन्यदप्याह—
निष्पन्नसस्यशाद्वलभवनप्रासादहर्म्यहरितेषु ।
धन्योच्छ्रयमङ्ग्ल्येषु चैव विरुवन् धनागमदः ॥३४॥
पके हुये धान्य वाले स्थान, दूबयुक्त गृह, देवगृह, हर्म्य, हरा स्थान, धन्य ( शुभ )
स्थान, ऊँचे स्थान और प्रशस्त स्थान में स्थित काक शब्द करे तो धन की प्राप्ति होती
है।।३४।।
निष्पन्नसस्येति । निष्पन्नानि सञ्जातानि सुपर्वाणि वा सस्यानि यत्र। शाद्वलैर्दूवार्भिर्युक्ते
भवने गृहे। प्रासादे देवप्रासादे गृहे वा। हर्म्ये गृहपृष्ठे हरिते हरितवर्णे स्थाने, अथवा
हरितं विद्यते यत्र एतेषु स्थानेषु। तथा धन्ये शुभे शुभस्थाने। उच्छ्रये उच्छ्रिते। मङ्गल्ये प्रशस्ते
देशे। एतेषु स्थानेषु काको विरुवन् धनागमदो धनस्य वित्तस्यागमं प्राप्तिं ददाति।।३४।।
गोपुच्छस्थे वल्मीकगेऽथवा दर्शनं भुजङ्गस्य ।
सद्यो ज्वरो महिषगे विरुवति गुल्मे फलं स्वल्पम् ॥३५॥
गौ की पूँछ या वल्मीक पर बैठा हुआ काक शब्द करे तो सर्प का दर्शन, भैंस पर
बैठा हुआ काक बोले तो शीघ्र ज्वर और गुल्म पर बैठा हुआ काक बोले तो अल्प
शुभाशुभ फल होता है।।३५।।
गोपुच्छस्थे गोलाङ्गूलस्थिते काकेऽथवा वल्मीकगे वल्मीककृतमृत्स्तूपगे। भुजङ्गस्य
सर्पस्य दर्शनं भवति। महिषगे काके विरुवति सद्यस्तस्मिन्नेवाहनि ज्वर उत्पद्यते। गुल्म
एकमूलः शाखासमूहः, तस्मिन् स्थिते काके विरुवति स्वल्पमत्यल्पं शुभाशुभं फलं ज्ञेय-
मिति।।३५।।
अन्यदप्याह—
कार्यस्य व्याघातस्तृणकूटे वामगेऽम्बुसंस्थे वा ।
ऊर्ध्वाऽग्निप्लुष्टेऽशनिहते च काके वधो भवति ॥३६॥