बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 497, कुल 760 में से
संदर्भ में पढ़ेंहस्तिचेष्टिताध्यायः ४६९
पाशः सर्पाकारः। कबन्धो विच्छिन्नशिराः पुरुषः। तत्सदृशे छेदे दृष्टे नृपमृत्युर्नृपस्य
राज्ञो मृत्युर्मरणं भवति। रक्ते शोणिते स्रुते जनानां विपदापदो भवन्ति। कृष्णे कृष्णवर्णे।
श्यावे मलिने। रूक्षे अस्निग्धे। दुर्गन्धे दुष्टगन्धे। छेदे दृष्टे अशुभमनिष्टं भवति। उक्तं च—
श्यावपूतिमलरक्तदर्शनं सर्पसत्त्वसदृशं च पापदम्।। इति।।६।।
अथ शुभच्छेदलक्षणमाह—
शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेच्छेदः।
गलनम्लानफलानि च दन्तस्य समानि भङ्गेन ॥७॥
यदि दाँत का छेद सफेद, समान, सुगन्धि या निर्मल हो तो शुभ होता है। ये सब
आसन के फल हैं। इसी तरह पूर्वोक्त सब लक्षण शय्या में भी फल देते हैं॥७॥
शुक्लः। समः सर्वभागेषु तुल्यः। सुगन्धिः शोभनगन्धिः। स्निग्धः सस्नेहः। एवं-
विधश्छेदः शुभावहः शुभं करोति। उक्तं च—
पार्थिवोपकरणोपमं यदा चिह्नमुद्वहति कल्पिते रदे।
श्रीजयार्थबलवृद्धयस्तदा स्निग्धशुक्लरुचिराश्च शोभनाः।।
गलनम्लानफलानीति। गलनं स्थानस्यैव विशरणं स्रावो वा। म्लानं म्लानता
वैवर्ण्यम्। एतेषां यानि फलानि तानि दन्तस्य भङ्गेन स्फोटनेन समानि। यादृशं दन्त-
भङ्गफलं वक्ष्यमाणं तादृशमपि गलनम्लानफलम्।।७।।
अन्यच्छुभाशुभमाह—
मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः।
स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसम्भवम् ॥८॥
हाथी के दाँत के मूल, मध्य और अग्रभाग में क्रम से देवता, दैत्य और मनुष्य
निवास करते हैं। जैसे दन्तमूल में देवता, मध्य में दैत्य और दन्ताग्र में मनुष्य निवास
करते हैं। साथ ही मूल में वक्ष्यमाण में फल पुष्ट, मध्य में मध्यम और अग्र में अल्प
होता है; इसी तरह मूल में वक्ष्यमाण फल शीघ्र ( सप्ताह के मध्य में ), मध्य में मध्य-
काल में ( एक मास के अन्दर ) और प्रान्त में देर से होता है।।८।।
यथाक्रमं गजस्य दन्तमूले दन्तमध्ये दन्ताग्रे च देवदैत्यमनुजाः क्रमात् स्थिताः।
तद्यथा—दन्तमूले देवा व्यवस्थिताः। दन्तमध्ये दैत्याः। दन्ताग्रे मनुजा देवविशेषाः। ततस्त-
स्माद् भागत्रयात् स्फीतमध्यपरिपेलवं फलं भवति। तत्र मूले वक्ष्यमाणं फलं स्फीतं
परिपुष्टं भवति। मध्ये मध्यमं नात्यल्पं नातिबहु। प्रान्ते परिपेलवं स्वल्पम्। तथा शीघ्रमध्य-
चिरकालसम्भवम्। मूले वक्ष्यमाणं फलं शीघ्रकालेन सप्ताहमध्ये सम्भवति। मध्ये मध्यमेन
कालेन मासान्तः। प्रान्ते चिरकालेन मासान्ते सम्भवतीत्यागमविधिः।।८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA