सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

५४२ बृहत्संहिता
द्रुमेभ्योऽन्नरसस्नेहबहुपुष्पफलोद्गमः ।
गोपक्ष्ममदवृद्धिश्च शिवाय मधुमाधवे ॥८४॥
वज्र ( बिजली ), अशनि ( पत्थरों की वर्षा या उल्कापात ), भूकम्प, दीप्ता, सन्ध्या,
निर्घात, शब्द, सूर्य-चन्द्र का परिवेष, धूली, धूम, रक्त वर्ण के रवि का उदयास्त, वृक्षों से
भोजन, मधुरादि रस और तेल आदि की उत्पत्ति, गाय और पक्षियों में काम की वृद्धि—
ये सब उत्पात चैत्र और वैशाख मास में कल्याण के लिये होते हैं॥८३-८४॥
एत उत्पाता मधौ माधवे च वैशाखे मासि शिवाय श्रेयसे भवन्ति। के तानित्याह—
वज्राशनीत्यादि। वज्रं विद्युत्, अशनिरश्मवर्षणमुल्काभेदो वा। महीकम्पो भूकम्पः।
सन्ध्या प्रसिद्धा दीप्ता। यतस्तस्या लक्षणमुक्तम्। निर्घातनिःस्वना निर्घातशब्दाः अथवा
निर्घाताः केवलाः, निःस्वनाश्च शब्दा यथा तथोच्चरिताः। परिवेषः सूर्यचन्द्रमसोः। रजो
धूलिर्नभसि। धूमः काननेषु। तथा रक्तस्य लोहितवर्णस्यार्कस्य सूर्यस्यास्तमयोदयौ।
द्रुमेभ्यो वृक्षेभ्योऽन्नस्य भोजनस्य। रसानां मधुरादीनाम्। स्नेहस्य तैलादेः। बहूनां पुष्पाणां
फलानां चोद्गमः सम्भवः। गवां धेनूनां पक्षिणां च मदवृद्धिः कामानुसेवनम्॥८३-८४॥
अथ ग्रीष्मे आह—
तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् ।
अनग्निज्वलनस्फोटधूमरेण्वनिलाहतम् ॥८५॥
रक्तपद्मारुणा सन्ध्या नभः क्षुब्धार्णवोपमम् ।
सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥८६॥
सदा उल्कापात से मलिन आकाश, सूर्य-चन्द्र के पीले मण्डल, अग्नि के बिना
ज्वाला का शब्द, धूप, धूली और वायु से आहत रक्तकमल की तरह लोहित वर्ण की
सन्ध्या, तरङ्गयुक्त समुद्र की तरह आकाश, नदियों में जल का सूखना—ये सब उत्पात
ग्रीष्म ( ज्येष्ठ और आषाढ़ ) में शुभ होते हैं॥८५-८६॥
एतानुत्पातान् ग्रीष्मे ज्येष्ठाषाढयोर्दृष्ट्वा विलोक्य शुभं वदेत् ब्रूयात्। नभ आकाशं
तारापातेनोल्कापातेन च कलुषमनिर्मलमनवरतपतनात्, तथा कपिलवर्णे अर्केन्द्रोः सूर्या-
चन्द्रमसौर्मण्डले बिम्बे यत्र। अनग्निज्वलनं विनाऽग्निना ज्वलनं ज्वाला स्फोटस्तेनैव
शब्दः, अथवा नभसः स्फोटः शब्दः धूमः। रेणुर्धूलिः। अनिलो वायुः। एतैराहतमुप-
हतम्॥८५-८६॥
तथा सन्ध्या रक्तपद्मारुणा रक्तपद्मवदरुणा लोहिता। नभ आकाशं क्षुब्धार्णवोपमं
क्षुब्धसमुद्रसदृशम्। जलवीचिभिरिव व्याप्तम्। सरितां नदीनामम्बुसंशोषणं जलाभावः।
अथ वर्षास्वाह—
शक्रायुधपरीवेषविद्युच्छुष्कविरोहणम् ।
कम्पोद्वर्तनवैकृत्यं रसनं दरणं क्षितेः ॥८७॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५४३
सरोनद्युदपानानां वृद्ध्यूर्ध्वतरणप्लवाः ।
सरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥८९॥
इन्द्रधनुष, सूर्य-चन्द्र का परिवेष, बिजली और सूखे वृक्षों में अङ्कुर निकलना,
पृथिवी का काँपना, उलटना, स्वरूप बदलना, शब्द करना, फटना, सरोवरों का बढ़
जाना, नदियों का ऊपर आना, वापी, कूप, तालाब आदि में अधिक जल होना, पर्वत
और गृहों का चलायमान होना—ये सब उत्पात वर्षा ऋतु में शुभ हैं।।८७-८८।।
वर्षास्वेतन भयावहं न भयप्रदम्। शुभमित्यर्थः। शक्रायुधमिन्द्रचापम्। परिवेषः।
सूर्याचन्द्रमसोः। विद्युत्तडित्। शुष्कविरोहणं शुष्काणां तरूणां पुनर्वरोहणं सरसत्वम्।
क्षितेर्भूमेः कम्पश्चलनम्। उद्वर्त्तनं परिवर्त्तनम्। वैकृत्यं विकृतता विकारः स्वरूपान्यत्वम्।
क्षितेर्भूमे रसनं शब्दः श्लेषणं वा। दरणं निःसरणं स्फोटनमित्यर्थः।
सरोनद्युदपानानां यथाक्रमं वृद्ध्यूर्ध्वतरणप्लवाः, सरसां वृद्धिवर्द्धनम्। नदीनामूर्ध्व-
तरणमूर्ध्वगमनम्, उदपानानां वापीकूपतडागानां प्लवो जलप्लवः। अद्रीणां पर्वतानां गेहानां
गृहाणां सरणं लुण्ठनमिति।।८७-८८।।
अथ शरद्याह—
दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् ।
ग्रहनक्षत्रताराणां दर्शनं च दिवाऽम्बरे ॥८९॥
गीतवादित्रनिर्घोषा वनपर्वतसानुषु ।
सस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः ॥९०॥
दिव्य स्त्री, गन्धर्व, रथ तथा आश्चर्य करने वाली वस्तुओं का दर्शन, दिन के समय
ग्रह-नक्षत्र आदि का दर्शन, वन तथा पर्वतों में गीत और वाद्यों की ध्वनि, धान्य की
वृद्धि और जल की हानि—ये सब शरद् ऋतु में अपाप ( शुभ ) हैं।।८९-९०।।
एत उत्पाताः शरदि शरत्काले अपापाः शुभफलदाः स्मृता उक्ताः। दिव्यस्त्रीणामप्सर
आदीनाम्। भूतानां गन्धर्वाणां देवयोनीनाम्। विमानानां रथानाम्। अद्भुतानामाश्चर्योत्पादकानां
च दर्शनम्। तथा अम्बरे आकाशे दिवा दिवसे ग्रहनक्षत्रताराणां दर्शनम्।
वनेष्वरण्येषु पर्वतसानुष्वद्रिसमभागेषु। गीतस्य वादित्राणां च निर्घोषाः शब्दाः श्रूयन्ते।
सस्यानां वृद्धिरभ्यधिकता। अपां जलानां च हानिरल्पत्वम्।।८९-९०।।
अथ हेमन्ते आह—
शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् ।
रक्षोयक्षादिसत्त्वानां दर्शनं वाग्मानुषी ॥९१॥
दिशो धूमान्धकाराश्च सनभोवनपर्वताः ।
उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥९२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५४४ बृहत्संहिता
वायु तथा तुषार ( बर्फ ) में ठण्डापन, मृग और पक्षियों का शब्द, राक्षस, यक्ष
आदि प्राणियों का दर्शन, मनुष्य के बिना वाणी, अन्धकारयुक्त आकाश, वन, पर्वत और
दिशा तथा उच्च में सूर्य का उदयास्त होना—ये सब हेमन्त में शुभ हैं।।९१-९२।।
एत उत्पाताः शोभना इष्टफला हेमन्ते स्मृता उक्ताः। शीतस्यानिलस्य वायोस्तुषारस्य
च भावः। मृगाणां पक्षिणां च नर्दनं शब्दः। रक्षसां यक्षाणां सत्त्वानां च प्राणिनामदृश्यानां
दर्शनम्। आदिग्रहणाद् भूतप्रेतपिशाचवेतालानां च दर्शनम्। अमानुषी मानुषेण विना वाक्।
दिश आशा धूमान्धकारा धूमेनान्धकारीकृताः। कीदृश्यो दिशः? सनभोवनपर्वताः,
सह नभसा आकाशेन वनैररण्यैः पर्वतैश्च सहिताः, तथा सूर्यस्यादित्यस्योदयास्तमया-
वुच्चैरुच्चतरौ स्थानात्।। ९१-९२।।
अथ शिशिरे आह—
हिमपातानिलोत्पाता विरूपाद्भुतदर्शनम् ।
कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम् ।।९३।।
चित्रगर्भोद्भवः स्त्रीषु गोऽजाश्वमृगपक्षिषु ।
पत्राङ्कुरलतानां च विकाराः शिशिरे शुभाः ।।९४।।
हिमपात, वायुसम्बन्धी उत्पात, भयानक प्राणियों का आश्चर्य करने वाला दर्शन, काले
अञ्जन की तरह रात और उल्कापात से पीला आकाश, स्त्रियों के गर्भ से नाना प्रकार के
( घोड़ा आदि के अङ्गसदृश ) प्राणियों की उत्पत्ति, गाय, बकरी, घोड़ा, मृग और पक्षियों
के गर्भ से विजातीय प्राणियों की उत्पत्ति, पत्र-लता और अङ्कुरों में विकार—ये सब
शिशिर ऋतु में शुभ होते हैं।।९३-९४।।
एत उत्पाताः शिशिरे शुभा इष्टफलदाः। हिमस्य तुहिनस्य पातः पतनम्। अनिलोत्पाता
वायवस्पर्शाः। विरूपाणां भीषणीयानां सत्त्वानामद्भुतानामाश्चर्योत्पादकानां च दर्शनम्।
दिव्यपुरुषादीनाम्। आकाशं नभः कृष्णाञ्जनाभम्, कृष्णाञ्जनवदाभा कान्तिर्यस्य। तारा-
पातैरुल्कापातैः पिञ्जरं चित्रितम्।
स्त्रीषु योषित्सु चित्रा नानाप्रकाराः श्वाद्यङ्गसदृशाः गर्भोद्भवाः गर्भाणां सम्भवाः तथा गोषु,
अजेषु छागेषु, अश्वेषु तुरगेषु, मृगेषु, पक्षिषु च विचित्रगर्भोद्भवाः। गोऽजाश्वानां मृगपक्षिणां
प्रकृतेर्विपर्यासः। पत्राणां पर्णानामङ्कुराणां लतानां विकारा विकृतय इति।।९३-९४।।
अत्रैव विशेषमाह—
ऋतुस्वभावजा ह्येते दृष्टाः स्वर्तौ शुभप्रदाः ।
ऋतोरन्यत्र चोत्पाता दृष्टास्ते चातिदारुणाः ।।९५।।
ये ऋतु-स्वभावजनित उत्पात अपने ऋतु में शुभ फल देने वाले होते हैं; पर अन्य
ऋतु में दिखाई दें तो अति कष्ट देने वाले होते हैं।।९५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५४५
एते यथोक्ता उत्पाता ऋतुस्वभावेन जायन्ते उत्पद्यन्ते स्वर्तावात्मीयतौं दृष्टा अवलोकिताः
शुभप्रदा भवन्ति। ऋतोरन्यत्राऽस्मिन् काले दृष्टास्त उत्पाताश्चातिदारुणा अतिकष्टफला
भवन्ति।।९५।।
यद्यद्विशेषफलप्रदं भवति तत्तदाह—
उन्मत्तानां च या गाथाः शिशूनां यच्च भाषितम्।
स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ।।९६।।
पागलों की गाथा ( गीत आदि ), बालकों का वचन और स्त्रियों की वाणी का
उल्लंघन नहीं होता अर्थात् जो बोलते हैं, सब सत्य होते हैं।।९६।।
उन्मत्तानां विचित्राणां या गाथाः प्राकृतकाव्यम्। शिशूनां बालानां यच्च भाषितं
व्याहृतम्, यच्च स्त्रियो योषितः प्रभाषन्ते व्याहरन्ति। तस्य व्यतिक्रमोऽन्यथात्वं नास्ति
न विद्यते। सर्वथा तद्भवतीत्यर्थः। येन कारणेनैतत्सत्यरूपं भवति।।९६।।
तत्प्रदर्शनार्थमाह—
पूर्वं चरति देवेषु पश्चाच्चरति मानुषान्।
नाचोदिता वाग्वदति सत्या ह्येषा सरस्वती ।।९७।।
विना प्रेरणा के नहीं बोलने वाली यह सत्यरूप सरस्वती पहले देवताओं में
विचरण करती थी, बाद में मनुष्यों को प्राप्त हुई ।।९७।।
एषा भगवती सरस्वती सत्या सत्यरूपा अचोदिता अप्रेरिता न वदति न ब्रवीति।
यतः प्रथमं पूर्वं देवेषु चरति देवलोकं याति। देवप्रेरिता पश्चादनन्तरं मानुषान् गच्छति।।९७।।
अथोत्पातशास्त्रज्ञस्य प्रभावमाह—
उत्पातान् गणितविवर्जितोऽपि बुद्ध्वा
विख्यातो भवति नरेन्द्रवल्लभश्च।
एतन्मुनिवचनं रहस्यमुक्तं
यज्ज्ञात्वा भवति नरस्त्रिकालदर्शी ।।९८।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामुत्पात-
लक्षणाध्यायः षट्चत्वारिंशः ।।४६।।
गणित को नहीं जानने वाले मनुष्य भी पूर्वोक्त उत्पातों को जान कर यशस्वी और
राजा के प्रिय होते हैं। यह मुनि का वचन गोपनीय कहा गया है, जिसको जान कर
मनुष्य त्रिकालदर्शी होता है।।९८।।
इति 'विमला'हिन्दीटीकायामुत्पाताध्यायः षट्चत्वारिंशः ।।४६।।
बृ० सं० प्र०-३५
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५४६ बृहत्संहिता
गणितषिवर्जितो ग्रहगणितरहितोऽप्युत्पातान् बुद्ध्वा ज्ञात्वा विख्यातः कीर्तियुक्तो
नरेन्द्रवल्लभो नृपप्रियश्च भवति। एतद्रहस्यं परमार्थं मुनिवचनमृषिवाक्यमुक्तं कथितम्।
यज्ज्ञात्वा बुद्ध्वा नरः पुरुषस्त्रिकालदर्शी त्रिकालं पश्यति। अतीतानागतवर्तमानकालज्ञो
भवतीत्यर्थः। ।९८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृता-
वुत्पाताध्यायः षट्चत्वारिंशः ॥४६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ मयूरचित्रकाध्यायः
अथ मयूरचित्रकं व्याख्यायते। तत्रादावेव तत्प्रदर्शनार्थमाह—
दिव्यान्तरिक्षाश्रयमुक्तमादौ मया फलं शास्तमशोभनं च ।
प्रायेण चारेषु समागमेषु युद्धेषु मार्गादिषु विस्तरेण ॥१॥
भूयो वराहमिहिरस्य न युक्तमेतत्
कर्तुं समासकृदसाविति तस्य दोषः।
तज्ज्ञैर्न वाच्यमिदमुक्तफलानुगीति
यद्वर्हिचित्रकमिति प्रथितं वराङ्गम् ॥२॥
स्वरूपमेव तस्य तत्प्रकीर्तितानुकीर्तनम् ।
ब्रवीम्यहं न चेदिदं तथाऽपि मेऽत्र वाच्यता ॥३॥
पहले चार ( चन्द्रग्रह समागम ), युद्ध, मार्ग ( शुक्रचार ) और आदि ( मण्डल )
में दिव्य तथा आन्तरिक्ष के आश्रयवश शुभाशुभ फल विस्तारपूर्वक मैंने ( वराहमिहिर
ने ) कहे हैं; फिर उसी फलप्रसङ्ग को लेकर यहाँ कहना संक्षेप करने वाले वराहमिहिर
के लिये ठीक नहीं है; क्योंकि विस्तार करना उनका दोष है। पर यहाँ पुनरुक्त दोष है,
ऐसा पण्डितों को नहीं कहना चाहिये। यतः यह बर्हिचित्रक नामक प्रकरण संहिता का
प्रसिद्ध अङ्ग है। पुनरुक्त फल होने से ही इस मयूरचित्रक का निश्चित स्वरूप ज्ञान होगा
अर्थात् पूर्व फल-कथन के अतिरिक्त पुनः यहाँ पर मयूरचित्रक का सम्बन्ध लेकर उसी
फल का वर्णन कर देना ही उसका स्वरूप है; अतः फिर नहीं कहने से भी मेरी निन्दा
होगी ॥१-३॥
मया आदौ प्रथमं दिव्यान्तरिक्षाश्रयं फलम्। ग्रहाश्च नक्षत्राण्याश्रयो यस्य तद्दिव्यम्।
उल्कानिर्घातपवनपरिवेषगन्धर्वनगरेन्द्रचापाद्याश्रयो यस्य तदान्तरिक्षम्। तच्च शस्तं शुभम-
शोभनं चाशस्तं प्रायेण बाहुल्येन चारेषु समागमेषु चन्द्रग्रहसंयोगेषु। युद्धेषु। मार्गादिषु मार्गेषु
शुक्रचारोक्तेषु। आदिग्रहणान्मण्डलेषु सर्वं विस्तरेणोक्तं कथितम्।
एतत्सर्वं पूर्वोक्तं भूयः पुनर्वराहमिहिरस्य वक्तुं न युक्तं नोपपन्नम्। यतोऽसौ वराहमिहिरः
समासकृदिति संक्षेपकृदिति तस्य वराहमिहिरस्य दोषो व्यासकृतः। पुनरुक्तं कर्तुं न युज्यते।
यस्माद्यतो बर्हिचित्रकं मयूरचित्रकं वराङ्गं संहितायाः प्रधानमङ्गं प्रथितं प्रसिद्धम्। अतोऽत्रोक्त-
फलानुगीति तज्ज्ञैर्न वाच्यम्। उक्तानां कथितानां फलानामनुगीति पुनः कीर्तनं पण्डितैर्न
वक्तव्यम्।
स्वरूपमेवेति । तस्य मयूरचित्रकस्य च तदेव स्वरूपं चरितं यत्प्रकीर्तितानामनुकीर्तनं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

८ बृहत्संहिता
पुनःकरणम्। अहं यदीदं मयूरचित्रकं न ब्रवीमि न वच्मि तथाऽप्यत्र मे वाच्यता भवति,
यथा किमिति वराहमिहिरेण नोक्तम्॥१-३॥
तदत्र ग्रहणचारोक्तफलमाह—
उत्तरवीथिगता द्युतिमन्तः क्षेमसुभिक्षशिवाय समस्ताः।
दक्षिणमार्गगता द्युतिहीनाः क्षुद्भयतस्करमृत्युकरास्ते ॥४॥
यदि प्रकाशयुत होकर ग्रह उत्तर वीथियों (नाग, गज और ऐरावतसंज्ञक वीथी)
में गमन करें तो क्षेम, सुभिक्ष और कल्याण के लिये होते हैं। यदि प्रकाशहीन होकर
दक्षिण मार्ग (मृग, अज और दहनसंज्ञक वीथी) में गमन करें तो दुर्भिक्ष, चोरभय और
मृत्यु को करते हैं॥४॥
उत्तरवीथयो नागगजैरावताः तासु सर्व एव भौमादयस्ताराग्रहा गता ये च द्युति-
मन्तस्तेजस्विनः क्षेमसुभिक्षशिवाय भवन्ति। तथा त एव ग्रहा दक्षिणमार्गगता मृगाज-
दहनाख्यासु वीथिषु स्थिताः। द्युतिहीनाः कान्तिरहिताः। क्षुद्भयतस्करमृत्युकराः, क्षुद्भयं
दुर्भिक्षम्, तस्करांश्चौरान्, मृत्युं मरणं च कुर्वन्ति। अर्थादेव मध्यवीथिषु गता मध्यफलाः।
तथा च गर्गः—
वर्णवन्तः स्वमार्गस्था नागवीथीविचारिणः।
यदि ताराग्रहाः सन्ति सर्वलोकहितावहाः॥
वैश्वानरपथप्राप्ता एकनक्षत्रचारिणः।
पञ्च ताराग्रहाश्चेत् स्युर्विन्द्याल्लोकस्य संक्षयम्॥ इति॥४॥
अन्यदप्याह—
कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिराम्र्प्रभविष्णौ।
निर्वैराः क्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोंगाः ॥५॥
यदि कोष्ठागार (मघा नक्षत्र) में शुक्र और पुष्य नक्षत्र में बृहस्पति स्थित हो तो
राजा लोग पारस्परिक द्वेषरहित और सुखी होते हैं तथा प्रजागण प्रसन्न और रोगरहित होते
हैं॥५॥
कोष्ठागारं मघा तत्र गते तत्रस्थे भृगुपुत्रे शुक्रे गिराम्र्प्रभविष्णौ वाचां स्वामिनि
बृहस्पतौ पुष्यस्थे च क्षितिपा राजानो निर्वैरा विगतद्वेषाः सुखभाजश्च भवन्ति। तथा जना
लोकाः संहृष्टाः प्रमुदिता गतरोंगाः स्वस्थदेहाश्च भवन्ति। तथा च गर्गः—
कोष्ठागारगते शुक्रे पुष्यस्थे च बृहस्पतौ।
विन्द्यात्तदा सुखं लोके शान्तशस्त्रमनामयम्॥ इति ॥५॥
अन्यदप्याह—
पीडयन्ति यदि कृत्तिकां मघां रोहिणीं श्रवणमैन्द्रमेव वा।
प्रोज्झ्य सूर्यमपरे ग्रहास्तदा पश्चिमा दिगनयेन पीड्यते ॥६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

मयूरचित्रकाध्यायः ५४९
यदि सूर्य को छोड़ कर अन्य ( चन्द्रादि ) ग्रह कृत्तिका, मघा, रोहिणी, श्रवणा या
ज्येष्ठा नक्षत्र को पीड़ित ( दक्षिण मार्ग में गमन या योगतारा के भेदन से पीड़ित ) करते
हों तो अन्याय से पश्चिम दिशा पीड़ित होती है।।६।।
सूर्यमादित्यं प्रोज्झ्य वर्जयित्वा अपरे सर्वे चन्द्रादयो ग्रहा यदा कृत्तिका, मघा,
रोहिणी, श्रवणम्, ऐन्द्रं ज्येष्ठा, एतानि नक्षत्राणि पीडयन्ति दक्षिणमार्गगमनेन योगतारका-
च्छादनेन भेदनेन वा। तदा पश्चिमा दिक् अपराशा अनयेनानीत्या पीड्यते। तथा च
गर्गेणोच्यते—
वैष्णवं पित्रमाग्नेयं ज्येष्ठामपि च रोहिणीम्।
पीडयन्ति यदैतानि राहुषष्ठानुचारिणः।।
दुर्भिक्षं जायते लोके सस्यमत्र न रोहति।
शुष्यन्ति सरितः सर्वाः पर्जन्यश्च न वर्षति।। इति।।६।।
अन्यदप्याह—
प्राच्यां चेद् ध्वजवदवस्थिता दिनान्ते
प्राच्यानां भवति हि विग्रहो नृपाणाम्।
मध्ये चेद् भवति हि मध्यदेशपीडा
रूक्षैस्तैर्न तु रुचिमन्मयूखवद्भिः ॥७॥
यदि सन्ध्या समय में चन्द्र आदि ग्रह ध्वज की तरह पूर्व दिशा में दिखाई दें तो पूर्व
दिशा में स्थित राजाओं में परस्पर विग्रह होता है तथा आकाश-मध्य में स्थित हों तो
मध्य देश में पीडा होती है। पर इन चन्द्र आदि ग्रहों के रूखे रहने पर ही यह फल प्राप्त
होता है। यदि निर्मल सुन्दर किरण वाले हों तो नहीं अर्थात् पूर्व दिशा या मध्य देश को
पीड़ित नहीं करते हैं।।७।।
एत एव चन्द्रादयो ग्रहा दिनान्ते अस्तमयकाले प्राच्यां पूर्वस्यां दिशि ध्वजवत्प-
ताकासंस्थानेनावस्थिता यदि भवन्ति, तदा प्राच्यानां प्राग्देशवर्तिनां नृपाणां राज्ञां विग्रहो
भवति परस्परं द्वेषः। अथ यदि मध्ये नभोमध्ये ध्वजवदवस्थिता भवन्ति, तदा मध्यदेशपीडा
भवति। किं सर्वदा? न, इत्याह—रूक्षैस्तैः। तैर्ग्रहै रूक्षैः कलुषैः स्वल्पविम्बैर्यदुक्तं तदेव
भवति प्राच्यानां नृपाणां विग्रहस्तथा मध्यदेशपीडा, न तु रुचिमन्मयूखवद्भिः, रुचिमद्भि-
र्दीप्तिमद्भिर्मयूखवद्भिः स्फुटरश्मिवद्भिश्च न भवति।।७।।
अन्यदप्याह—
दक्षिणां ककुभमाश्रितस्तु तैर्दक्षिणापथपयोमुचां क्षयः।
हीनरूक्षतनुभिश्च विग्रहः स्थूलदेहकिरणान्वितैः शुभम् ॥८॥
यदि चन्द्र आदि ग्रह दक्षिण दिशा में स्थित हों तो दक्षिण दिशा में मेघों का नाश
करते हैं। यदि ये ग्रह अल्प विम्ब वाले और रूक्ष हों तो विग्रह तथा स्थूल बिम्ब वाले
किरणयुक्त हों तो शुभ होता है।।८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५५० बृहत्संहिता
तैर्गृहैर्दक्षिणां ककुभं याम्यां दिशमाश्रितैर्दक्षिणापथपयोमुचां दक्षिणस्यां दिशि पयोमुचां
मेघानां क्षयो विनाशो भवति। तथा तैरेव दक्षिणां ककुभमाश्रितैर्हीनरूक्षतनुभिः, हीना अल्पा
रूक्षा कलुषा तनुः शरीरं येषां तैस्तथाभूतैर्विग्रहैस्तैरेव स्थूलदेहैर्बृहद्विम्बैः किरणान्वितै रश्मि-
वद्भिः शुभं तत्रैव वाच्यम्॥१८॥
अन्यदप्याह—
उत्तरमार्गे स्पष्टमयूखाः शान्तिकरास्ते तन्नृपतीनाम्।
ह्रस्वशरीरा भस्मसवर्णा दोषकराः स्युर्देशनृपाणाम् ॥१९॥
यदि चन्द्र आदि ग्रह स्पष्ट किरण वाले होकर उत्तर मार्ग में स्थित हों तो उत्तर दिशा
में स्थित राजाओं में शान्ति करने वाले होते हैं। यदि अल्प बिम्ब वाले या भस्म के समान
वर्ण वाले हों तो उस दिशा में स्थित राजाओं में दोष उत्पन्न करने वाले होते हैं॥१९॥
त एव ग्रहा उत्तरमार्गे उत्तरस्यां दिशि उत्तरवीथिषु व्यवस्थिताः स्पष्टमयूखा विपुल-
रश्मयः। तन्नृपतीनामुत्तरपथराजानां शान्तिकराः शिवप्रदाः। तथा त एव ग्रहा ह्रस्वशरीराः
स्वल्पविम्बा भस्मवर्णा विगतकान्तयः कलुषाश्च तद्देशनृपाणामुत्तरपथराजानां दोषकराः।
तथा च गर्गः—
उत्तरोत्तरमार्गस्था रश्मिमालाधरा ग्रहाः।
विष्यन्दन्त इवात्यर्थं जयमाहुरुपस्थितम्॥ इति॥१९॥
अन्यदप्याह—
नक्षत्राणां तारकाः सग्रहाणां धूमज्वालाविस्फुलिङ्गान्विताश्चेत्।
आलोकं वा निर्निमित्तं न यान्ति याति ध्वंसं सर्वलोकः सभूपः ॥२०॥
यदि ग्रह और नक्षत्रों के तारे धूमज्वाला या अग्निकणों से व्याप्त या विना कारण
प्रकाशरहित दिखाई दें तो उस देश में ( ग्रहभक्ति या कूर्म विभाग में कथित उस ग्रह या
नक्षत्र के देश में ) स्थित राजा के साथ-साथ सब प्रजाओं का भी नाश होता है॥२०॥
येषां देशानां सम्बन्धिनां कूर्मविभागोक्तानां नक्षत्राणामश्विन्यादीनां यास्तारकास्ताश्च
'धूमज्वालाविस्फुलिङ्गा धूमयुक्ता ज्वालायुक्ता वा विस्फुलिङ्गयुक्ता दृश्यन्ते यासु धूमेन
ज्वालया विस्फुलिङ्गैरग्निकणैर्व्याप्ताः। केचित् पठन्ति धूमज्वालाविस्फुलिङ्गावृताश्च। अथवा
निर्निमित्तं कारणं विना रजोनीहारमेघान्विता आलोकं दर्शनं न यान्ति। देशानां नक्षत्रोक्तानां
ग्रहभक्तिकथितानां वा सभूपो नृपतिसहितः सर्वलोको निःशेषो जनो ध्वंसं नाशं याति
गच्छति॥२०॥
अन्यदप्याह—
दिवि भाति यदा तुहिनांशुयुगं द्विजवृद्धिरतीव तदाशु शुभा।
तदनन्तरवर्णरणोऽर्कयुगे जगतः प्रलयस्त्रिचतुष्प्रभृति ॥१९१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

मयूरचित्रकाध्यायः ५५१
जिस समय आकाश में दो चन्द्रमा दिखाई दें, उस समय शीघ्र ब्राह्मणों की वृद्धि
और शुभ होता है। यदि दो सूर्य दिखाई दें तो क्षत्रियों में संग्राम होता है तथा तीन-चार
आदि सूर्य दिखाई दें तो संसार का नाश होता है।।११।।
दिव्याकाशे यदा यस्मिन् काले तुहिनांशुयुगं चन्द्रयुग्मं भाति दृश्यते, तदा तस्मिन्
काले आशु क्षिप्रं शुभा शोभना अतीवात्यर्थं द्विजानां ब्राह्मणानां वृद्धिर्भवति। तथा अर्क-
युगे सूर्ययुग्मे दृष्टे तदनन्तरवर्णस्य ब्राह्मणात् परस्य क्षत्रियाख्यस्य रणः संग्रामो भवति।
तथा त्रिषु चतुर्षु पञ्चसु वा सूर्येषु दृष्टेषु जगतो जनस्य प्रलयः संहार इति। तथा च गर्गः—
द्विचन्द्रं गगनं दृष्ट्वा विन्द्याद् ब्रह्मसमुत्थितम्।
द्वौ वा सूर्यौ यदा स्यातां तदा क्षत्रं विरुद्ध्यति।।
दृष्ट्वा त्रिचतुरः सूर्यान्युदितान् सर्वतो दिशम्।
शस्त्रेण जनमारेण तद्युगान्तरदर्शनम्।। इति।।११।।
अन्यदप्याह—
मुनीनभिजितं ध्रुवं मघवतश्च भं संस्पृशन्
शिखी घनविनाशकृत् कुशलकर्महा शोकद्ः।
भुजङ्गमथ संस्पृशेद् भवति वृष्टिनाशो ध्रुवं
क्षयं व्रजति विद्रुतो जनपदश्च बालाकुलः ॥१२॥
यदि केतु सप्तर्षि मण्डल, अभिजित् नक्षत्र, ध्रुवतारा या ज्येष्ठा नक्षत्र को स्पर्श करे तो
मेघों का नाश, अमङ्गल, कर्मों की हानि और शोक देने वाला होता है। यदि आश्लेषा
नक्षत्र को स्पर्श करे तो निश्चय ही वृष्टि का नाश और क्षुधा-पिपासा आदि से पीड़ित
बालकों को साथ लेकर लोग वहाँ से चल कर नष्ट होते हैं।।१२।।
शिखी केतुर्मुनीन् सप्तर्षीन्। अभिजिदभिजित्तारंकं ध्रुवं ध्रुवतारकं मघवत इन्द्रस्य
भं ज्येष्ठा। एतानि यदि संस्पृशेत् स्पर्शयति तदा घनानां मेघानां विनाशकृद्विनाशं करोति।
कुशलकर्महा कुशलमारोग्यं कर्माणि च यानि क्रियन्ते तानि हन्ति। शोकद्ः शोकं च ददाति।
अथ भुजङ्गमाश्लेषां यदि स्पृशेत्तदा ध्रुवं निश्चितं वृष्टिनाशो भवति, अवृष्टिर्जायते। तथा
जनपदो लोको बालाकुलः शिशुभिराकुलीकृतश्चलितश्च क्षयं विनाशं व्रजति गच्छति।।१२।।
अन्यदप्याह—
प्राग्द्वारेषु चरन् रविपुत्रो नक्षत्रेषु करोति च वक्रम्।
दुर्भिक्षं कुरुते महदुग्रं मित्राणां च विरोधमवृष्टिम् ।।१३।।
यदि शनि प्राग्द्वार ( कृत्तिका आदि सात नक्षत्रों ) में विचरण करते हुये वक्री हो जाय
तो दुर्भिक्ष, मित्रों में अत्यधिक विरोध और अवृष्टि करता है।।१३।।
यात्रायां यानि प्राग्द्वारिकाणि कृत्तिकाद्यानि सप्त नक्षत्राणि उक्तानि तेषु च सप्तसु
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५५२ बृहत्संहिता
नक्षत्रेषु रविपुत्रः शनैश्चरस्तिष्ठेद्यदा च वक्रं करोति प्रतीपगमनमाश्रयति। तदा महदुग्रमतीव
कष्टं दुर्भिक्षं कुरुते। येषु देशेषु भानि नक्षत्राणि तेषु विशेषतः। तथा मित्राणां सुहृदां च
परस्परं विरोधं द्वेषमवृष्टिं च करोति। तथा च गर्गः—
विलम्बितगतिः सौरः प्राग्द्वारेषु यदा भवेत्।
महाभयानि चत्वारि विजानीयात् समन्ततः।।
अनावृष्टिभयं घोरं दुर्भिक्षं मित्रविग्रहम्।। इति।।१३।।
अन्यदप्याह—
रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथवा शिखी।
किं वदामि यदनिष्टसागरे जगदशेषमुपयाति संक्षयम् ।।१४।।
यदि रोहिणी शकट को शनि, मंगल या केतु भेदन करे तो अधिक क्या कहा जाय,
सम्पूर्ण विश्व ही अनिष्ट सागर में पड़ कर नष्ट हो जाता है, अर्थात् उस समय अमंगल ही
अमङ्गल चारो तरफ दिखाई देते हैं।।१४।।
अर्कनन्दनः सौरो यदि रोहिणीशकटं भिनत्ति विदारयति रुधिरोऽङ्गारको वा शिखी
केतुरथवा, तदा अनिष्टसागरे अनिष्टसमुद्रे अशेषं सर्वं जगद्विश्वं संक्षयं विनाशं याति।
किमन्यदपरं वदामि कथयामि यदनिष्टं न भवति। तथा च गर्गः—
रोहिणीशकटं भौमो भिनत्त्यर्कसुतोऽथवा।
केतुर्वा जगतो ब्रूयात् प्रलयं समुपस्थितम्।। इति।।१४।।
अन्यदप्याह—
उदयति सततं यदा शिखी चरति भचक्रमशेषमेव वा।
अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ।।१५।।
जिस समय केतु सदा दिखाई दे या सम्पूर्ण नक्षत्रमण्डल में विचरण करे, उस
समय चराचर के साथ सम्पूर्ण जगत् बराबर किये हुये पूर्वार्जित अशुभ फलों का अनुभव
करता है।।१५।।
शिखी केतुर्यदा सततं सर्वकालमुदयति दर्शनं गच्छति, अशेषं समग्रं भचक्रं नक्षत्र-
मण्डलमेव वा चरति विचरति, तदा सचराचरं जङ्गमस्थावराख्यं जगद्विश्वं पुराकृतमन्य-
जन्माजितं फलमशुभमनिष्टमनुभवत्युपभुंक्ते इत्यर्थः।।१५।।
अधुना चन्द्रचारोक्तफलमाह—
धनुःस्थायी रूक्षो रुधिरसदृशः क्षुद्भयकरो
बलोद्योगं चन्द्रः कथयति जयं ज्याऽस्य च यतः।
गवां शृङ्गो गोघ्ने निधनमपि सस्यस्य कुरुते
ज्वलन् धूमायन् वा नृपतिमरणायैव भवति ।।१६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

मयूरचित्रकाध्यायः ५५३
यदि चन्द्र धनुषाकार होकर रूक्ष और रक्त वर्ण का दिखाई दे तो दुर्भिक्ष और
सेनाओं में परस्पर युद्ध का भय करता है तथा इस चन्द्र की ज्या जिस तरफ रहती है, उस
तरफ के राजाओं की विजय होती है। गौ के शृङ्ग की तरह शृङ्ग हो तो गौ और धान्यों का
नाश करता है तथा प्रज्ज्वलित या धूम की तरह दिखाई दे तो राजाओं के मरण के लिये
होता है।।१६।।
चन्द्र इन्दुः। धनुःस्थायी चापसंस्थानः। रूक्षः कलुषः। रुधिरसदृशो लोहितवर्ण-
स्तथाभूतः। क्षुद्भयकरो दुर्भिक्षभयं करोति। तथा बलानां सैन्यानामुद्योगं युद्धं कथयत्याचष्टे।
अस्य चन्द्रमसो यतो यस्यां दिशि ज्या गुणः स्थिता, तत्र ये नृपाः स्थितास्तेषां जयम्।
गवां शृङ्गो गोविषाणो गोघ्नो गवां नाशकरः सस्यस्यापि निधनं विनाशं कुरुते। अथ
ज्वलन् ज्वालामुद्वहन्। धूमायन् वा धूमं समुद्वहन् वा। नृपते राज्ञो मरणाय मृत्यव एव
भवति।।१६।।
अन्यदप्याह—
स्निग्धः स्थूलः समशृङ्गो विशालस्तुङ्गोदग्विचरन्नागवीथ्याम् ।
दृष्टः सौम्यैरशुभैर्विप्रमुक्तो लोकानन्दं कुरुतेऽतीव चन्द्रः ।।१७।।
यदि स्निग्ध, स्थूल, समान शृङ्ग वाला, विशाल और उन्नत होकर उत्तर तरफ नागवीथी
में स्थित चन्द्र शुभ ग्रह से देखा जाता हो और पापग्रह से युत न हो तो मनुष्यों को अतिशय
आनन्द देता है।।१७।।
एवंविधश्चन्द्रः शशी दृष्टोऽतीवात्यर्थं लोकानां जनानामानन्दं तुष्टिं कुरुते। कीदृशः ?
स्निग्धो निर्मलः, स्थूलो घनः, समशृङ्गस्तुल्यविषाणः, विशालो विस्तीर्णः, तुङ्ग उच्चस्थः,
उदगुत्तरशृङ्गः, उत्तरशृङ्गोन्नत इत्यर्थः। नागवीथ्याम् ‘नागा तु पवनयाम्यानलानि'त्युक्ता
तस्यां विचरंस्तिष्ठन् सौम्यैः शुभग्रहैर्बुधजीवशुक्रैर्दृष्टो विलोकितः। अशुभैः पापैरादित्य-
भौमसौरैर्विप्रयुक्तो विरहितः।।१७।।
अन्यदप्याह—
पित्र्यमैत्रपुरुहूतविशाखात्वाष्ट्रमेत्य च युनक्ति शशाङ्कः ।
दक्षिणेन न शुभः शुभकृत्स्याद्यद्युदक्चरति मध्यगतो वा ॥१८॥
यदि चन्द्रमा मघा, अनुराधा, ज्येष्ठा, विशाखा और चित्रा नक्षत्र में जाकर दक्षिण मार्ग
में होकर गमन करे तो अशुभ और उत्तर मार्ग या मध्य में होकर गमन करे तो शुभ करने
वाला होता है।।१८।।
पित्र्यं मघा। मैत्रमनुराधा। पुरुहूतो ज्येष्ठा। विशाखा। त्वाष्ट्रं चित्रा। एतानि नक्षत्राणि
शशाङ्कश्चन्द्रः समेत्य प्राप्य दक्षिणेन याम्येन भागेन यदि युनक्ति संयोगं करोति, तदा
न शुभोऽनिष्टफलदः। यद्युगुत्तरेण चरति गच्छति प्रागुक्तेषु नक्षत्रेषु मध्यगतो वा मध्येन
गच्छति, तदा शुभकृच्छुभफलं करोति।।१८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५५४ बृहत्संहिता
अथ परिघपरिधिदण्डामोघरश्मिरोहितेरावतानां लक्षणमाह—
परिघ इति मेघरेखा या तिर्यग्भास्करोदयेऽस्ते वा ।
परिधिंस्तु प्रतिसूर्यो दण्डस्त्वृजुरिन्द्रचापनिभः ॥१९॥
उदयेऽस्ते वा भानोर्ये दीर्घा रश्मयस्त्वमोघास्ते ।
सुरचापखण्डमृजु यद्रोहितमैरावतं दीर्घम् ॥२०॥
सूर्य के उदय या अस्त समय में तिरछी मेघ की रेखा 'परिघ' संज्ञक, प्रतिसूर्य
'परिधि' संज्ञक और स्पष्ट इन्द्रधनुष के समान रेखा 'दण्ड' संज्ञक होती है तथा उदय या
अस्त समय में सूर्य के लम्बे किरण 'अमोघ' संज्ञक, स्पष्ट इन्द्रधनुष के खण्ड 'रोहित'
संज्ञक और लम्बे सीधे इन्द्रधनुष 'ऐरावत' संज्ञक होते हैं॥१९-२०॥
भास्करस्यादित्यस्योदये अस्तमये वा तिर्यग् या स्थिता मेघरेखा भवति, स परिघ
इति परिघसंज्ञः। तथा प्रतिसूर्यः परिधिसंज्ञः। इन्द्रचापनिभः शक्रधनुःसदृशः ऋजुः स्पष्टो
दण्डसंज्ञः।
उदयेऽस्ते वेति। भानोरादित्यस्योदयेऽस्तमये वा ये दीर्घा आयामिनो रश्मयः किरणास्ते
त्वमोघाख्या अमोघसंज्ञाः। सुरचापखण्डमिन्द्रधनुःखण्डं यदृजु स्पष्टं तद्रोहितसंज्ञम्।
तदेव यदि दीर्घं भवति तदैरावतसंज्ञं ज्ञेयम्॥१९-२०॥
अथ सन्ध्यालक्षणमाह—
अर्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत् ।
तेजःपरिहानिमुखाद्भानोरर्धोदयो यावत् ॥२१॥
तस्मिन् सन्ध्याकाले चिह्नैरैतैः शुभाशुभं वाच्यम् ।
सर्वैरैतैः स्निग्धैः सद्यो वर्षं भयं रूक्षैः ॥२२॥
अर्धास्त सूर्यबिम्ब के अनन्तर स्पष्ट रूप से ताराओं को दिखाई देने तक पश्चिमा
सन्ध्या और ताराओं के प्रकाशहानि के समय से अर्धोदित सूर्यबिम्ब काल तक प्राक्
सन्ध्या होती है। इस सन्ध्या समय में वक्ष्यमाण चिह्नों के द्वारा शुभाशुभ फल कहना चाहिये,
जैसे कि समस्त आकाशस्थित बिम्बगण स्निग्ध हों तो शीघ्र वर्षा और रूखे हों तो भय
उत्पन्न होता है॥२१-२२॥
भानोरादित्यस्यार्धास्तमयादारभ्य यावत्तारका नभसि न व्यक्तीभूता न परिस्फुटाः,
तावदपरा सन्ध्या। तथा तारकाणां तेजःपरिहानिमुखाद्दीप्तिनिवृत्तेरारभ्य यावद् भानोरर्कस्या-
र्धोदयस्तावत् पूर्वा सन्ध्या।
तस्मिन् यथोद्दिष्टे सन्ध्यासमये एतैः प्रागुक्तैश्चिह्नैर्वक्ष्यमाणैश्च शुभाशुभं फलं वाच्यं
वक्तव्यम्। एतैस्तथा वक्ष्यमाणैश्च चिह्नैः सर्वैः स्निग्धैः सस्नेहैः सद्यस्तस्मिन्नहनि वर्षं
ज्ञेयम्। तस्मिन्नेवाहनि वर्षति। तैरेव रूक्षैः सद्यो भयमिति॥२१-२२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

मयूरचित्रकाध्यायः ५५५
अथ वृष्टिज्ञानमाह—
अच्छिन्नः परिघो वियच्च विमलं श्यामा मयूखा रवेः
स्निग्धा दीधितयः मितं सुरधनुर्विद्युच्च पूर्वोत्तरा।
स्निग्धो मेघतरुर्दिवाकरकरैरालिङ्गितो वा यदा
वृष्टिः स्याद्यदि वाऽर्कमस्तसमये मेघो महान् छादयेत् ॥२३॥
अखण्डित परिघ, निर्मल आकाश, सूर्य की श्याम वर्ण किरणें, स्निग्ध दीधिति,
श्वेत वर्ण के इन्द्रधनुष, पूर्वोत्तरा विद्युत् और स्निग्ध या सूर्य के किरणों से व्याप्त मेघवृक्ष
हो तो वर्षा होती है अथवा यदि सायंकाल में बहुत बड़ा मेघ सूर्यबिम्ब को आच्छादित
करे तो भी वृष्टि होती है॥२३॥
परिघोऽच्छिन्नोऽखण्डः। सकल इत्यर्थः। वियदाकाशं विमलं निर्मलम्। रवेरादित्यस्य
मयूखा रश्मयः श्यामाः श्यामवर्णाः। ते च मेघाख्याः। तथा दीधितयः सामान्यरश्मयो
येऽन्ये अमोघवर्जितांस्ते स्निग्धाः। सुरधनुरिन्द्रचापं सितं श्वेतम्। पूर्वोत्तरा चैशानी विद्युत-
डिद् दृश्यते। मेघतरुर्मेघ एव वृक्षाकारः, स च स्निग्धो निर्मलः। अथवा सर्व एव मेघतरु-
र्दिवाकरकरैः सूर्यरश्मिभिरालिङ्गितो व्याप्तः समन्ततस्तदा वृष्टिर्वर्षणं स्याद् भवेत्। यदि
वाऽस्तसमये सूर्यास्तमयवेलायामर्कं रविं महान् मेघो बृहद् घनः छादयेत् स्थगयेत्तथापि
वृष्टिः स्यात्॥२३॥
अधुनार्कचारोक्तं फलमाह—
खण्डो वक्रः कृष्णो ह्रस्वः काकाद्यैर्वा चिह्नैर्विद्धः ।
यस्मिन् देशे रूक्षश्चार्कस्तत्राभावः प्रायो राज्ञः ॥२४॥
जिस देश में खण्डित, कुटिल, कृष्ण, स्वल्प, काक आदि पक्षियों के चिह्नों से
व्याप्त या रूक्ष सूर्यविम्ब दिखाई दे तो प्रायः उस देश के राजा का नाश होता है॥२४॥
अर्क आदित्यो यस्मिन् देशे खण्डोऽसकलः। वक्रः कुटिलो दीर्घश्च। कृष्णोऽसितवर्णः।
ह्रस्वः स्वल्पविम्बः। अथवा काकाद्यैश्चिह्नैर्विद्धः। आदिग्रहणाद् ध्वांक्षकबन्धप्रहरणा ग्रही-
तव्याः। तैर्विद्धः। तथा रूक्षो न निर्मलः। एवंविधो दृश्यते। तस्मिन् देशे यो राजा तस्य राज्ञः
प्रायो बाहुल्येनाभावो विनाश इत्यर्थः। तथा च गर्गः—
खण्डो वा कृष्णवर्णो वा ह्रस्वः पिङ्गलकोऽथवा।
यत्रार्को दृश्यते तत्र राज्ञो मृत्युं विनिर्दिशेत्॥ इति॥२४॥
अथ युद्धकाले जयपराजयज्ञानमाह—
वाहिनीं समुपयाति पृष्ठतो मांसभुक् खगगणो युयुत्सतः।
यस्य तस्य बलविद्रवो महानग्रगैस्तु विजयो विहङ्गमैः ॥२५॥
युद्ध की इच्छा करने वाले जिस राजा की सेनाओं के पीछे होकर मांस खाने वाले
पक्षीसमूह गमन करें, उस राजा की सेनाओं को युद्ध से भागना पड़ता है एवं यदि पक्षी
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५५६ बृहत्संहिता
गण सेनाओं के आगे होकर गमन करें तो विजय होती है।।२५।।
यस्य राज्ञो युयुत्सतो योद्धुमिच्छतो वाहिनीं सेनां मांसभुगामिषादः खगगणः पक्षि-
समूहः पृष्ठतः पश्चात् समुपयाति गच्छति तस्य महानतीव बलविद्रवः सेनापलायनं भवति।
अग्रगैषः पुरोगैर्विहङ्गमैः पाक्षिभिर्विजयो भवति।।२५।।
अथ गन्धर्वपुरलक्षणमाह—
भानोरुदये यदि वास्तमये गन्धर्वपुरप्रतिमा ध्वजिनी।
विम्बं निरुणद्धि तदा नृपतेः प्राप्तं समरं सभयं प्रवदेत् ॥२६॥
सूर्य के उदय या अस्त समय में पताकायुत गन्धर्व नगर की प्रतिमा सूर्यबिम्ब को
छादित करे तो राजा को भयङ्कर युद्ध की प्राप्ति होगी—ऐसा कहना चाहिये।।२६।।
भानोरादित्यस्योदये अस्तमये वा यदि गन्धर्वपुरप्रतिमा गन्धर्वनगरतुल्या ध्वजिनी
सेना यदा विम्बं मण्डलं निरुणद्धि छादयति, तदा नृपते राज्ञः समरं संग्रामं सभयं भय-
सहितं प्राप्तमायातमिति प्रवदेद् ब्रूयात्। तथा च गर्गः—
आदित्ये सरथा सेना सन्ध्याकाले यदा भवेत्।
प्रत्यासन्नं विजानीयाद् भूमिपस्य पराजयम्।। इति।।२६।।
अथ सन्ध्यालक्षणमाह—
शस्ता शान्तद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च।
पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा ॥२७॥
यदि सन्ध्याकाल में सूर्य के विरुद्ध दिशा में मुख करके पक्षीगण और जङ्गली पशु-
गण मधुर शब्द करें तथा निर्मल थोड़ी वायु चले तो शुभ होता है। यदि धूलियों से
व्याप्त, रूक्ष और लोहित वर्ण की सन्ध्या दिखाई दे तो देशों का नाश होता है।।२७।।
सन्ध्या शान्तैरनर्काभिमुखैर्मधुरस्वरैर्द्विजैः पक्षिभिर्मृगैरारण्यपशुभिश्च घुष्टा कृतशब्दा
शस्ता शुभदा, तथा स्निग्धा निर्मला, मृदुपवना अल्पवाता च शस्ता, पांशुध्वस्ता रजसा
कलुषीकृता, रूक्षा निःस्नेहा, रुधिरनिभा वा लोहितवर्णा जनपदानां नाशं संक्षयं धत्ते
ददाति।।२७।।
अथात्मनः पेशलत्वं प्रदर्शयितुमाह—
यद्विस्तरेण कथितं मुनिभिस्तदस्मिन्
सर्वं मया निगदितं पुनरुक्तवर्जम् ।
श्रुत्वाऽपि कोकिलरुतं बलिभुग्विरौति
यत्तत् स्वभावकृतमस्य पिकं न जेतुम् ॥२८॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां मयूरचित्रकाध्यायः सप्तचत्वारिंशः ॥४७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

मयूरचित्रकाध्यायः ५५७
गर्ग आदि मुनियों ने विस्तारपूर्वक जिन विषयों को कहा है, पुनरुक्त दोष रहते उन
सब विषयों को इस मयूरचित्र नामक अध्याय में मैंने कहा है। इतने पर भी यदि दुर्जन
गण बोलते ही रहें तो मेरी क्या हानि है? क्योंकि कोयल के शब्द सुनकर भी जो काक शब्द
करता है, वह स्वाभाविक शब्द होता है, न कि कोयल को जीतने की इच्छा से।।२८।।
इति 'विमला' हिन्दीटीकायां मयूरचित्रका-
ध्यायः सप्तचत्वारिंशः ॥४७॥
मुनिभिर्गर्गादिभिर्यन्मयूरचित्रकं विस्तरेण व्यासेन कथितमुक्तं तत्सर्वमस्मिन् मयूरचित्रके
मया पुनरुक्तवर्जं निगदितमुक्तम्। आदौ तावन्मयूरचित्रकं पुनरुक्तं तत्रापि मुनिभिः पुनरुक्तं
कृतं तन्मया नोक्तम्। यद्यप्येवं तथापि कोकिलस्य परभृतस्य रुतं शब्दितं श्रुत्वा आकर्ण्य
बलिभुक्काकस्तदनुसारेण विरोति यत्तदस्य काकस्य स्वभावकृतं प्राकृतं प्रकृतिभवमेवायाति,
न पिकं कोकिलं जेतुं शक्नोति। अनेनात्मनः पेशलत्वं प्रदर्शितं भवति।।२८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ मयूरचित्रकं
नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ पुष्यस्नानाध्यायः
अथ पुष्यस्नानं व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
मूलं मनुजाधिपतिः प्रजातरोस्तदुपघातसंस्कारात्।
अशुभं शुभं च लोके भवति यतोऽतो नृपतिचिन्ता ॥१॥
इस संसार में प्रजारूप वृक्ष का मूल स्वरूप राजा है। यतः उस राजा का विघात
होने से प्रजाओं का अशुभ और संस्कार से शुभ होता है; अतः राजा के शुभवृद्धि के
लिये चिन्ता करनी चाहिये ॥१॥
प्रजातरोः प्रजावृक्षस्य मनुजाधिपतिः राजा मूलं यथा वृक्षस्य शाखिनो मूलवर्धने
वृद्धिः सर्वावयवेषु भवति। एवं राजनि विवृद्धे प्रजाः सुस्थिताः। तदुपघातात्तस्य प्रजातरो-
र्मूलविघाताद्विनाशो जनपदस्यानिष्टमशुभं भवति। तत्संस्काराच्छुभमिष्टं भवति। वृक्षवद्यतो
यस्मादतोऽस्माद्धेतोर्नृपतिचिन्ता राज्ञः शुभवृद्ध्यर्थे चिन्ता कार्या। यत्नो विधेय इति। यतो
मूलात् फलसम्भवः फलसम्भवात् प्रजावृद्धिस्तदुपजीवनात् ॥१॥
अत्राऽऽगमप्रदर्शनार्थमाह—
या व्याख्याता शान्तिः स्वयम्भुवा सुरगुरोर्महेन्द्रार्थे ।
तां प्राप्य वृद्धगर्गः प्राह यथा भागुरेः शृणुत ॥२॥
जो शान्ति इन्द्र के लिये ब्रह्माजी ने बृहस्पति से कही थी, उसी को पाकर
वृद्धगर्गाचार्य ने भागुरि से जिस तरह कही, उसी तरह उस शान्ति को सुनो ॥२॥
या शान्तिः स्वयम्भुवा ब्रह्मणा महेन्द्रस्य सुराधिपस्यार्थे सुरगुरोर्बृहस्पतेर्व्याख्याता
कथिता तां शान्तिं वृद्धगर्गः प्राप्य लब्ध्वा यथा येन प्रकारेण भागुरेर्मुनिप्रधानस्य शिष्यस्य
प्राहोक्तवान् तथा तां शान्तिं शृणुताऽऽकर्णयत। तथा च वृद्धगर्गः—
देवाश्चादितिजैः सार्धं स्पर्धमाना हि मानिनः।
परस्परं महद्युद्धं चक्रुः सर्वे सुरासुराः॥
ततो दैत्यगणैः क्रुद्धैर्देवाः सर्वे विनिर्जिताः।
ततोऽङ्गिराः सुरगुरुर्ध्यानसक्तोऽभवत्पुरा॥
पुरन्दराभिषेकार्थं बृहस्पतिरकल्पयत्।
तिष्यमात्मीयनक्षत्रं यस्य देवो बृहस्पतिः॥
तेन चैवाभिषिक्तश्च देवराजः पुरन्दरः।
ततो बलसमारूढो नाशयामास दानवान्॥
देवाश्च हृष्टमनसः पुरीं प्राप्यामरावतीम्।
पुष्यस्नानं बलतरं तदारभ्य प्रवर्तितम्॥ इति॥२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुष्यस्नानाध्यायः ५५९
अथ पुष्यस्नानविधिमाह—
पुष्यस्नानं नृपतेः कर्तव्यं दैववित्पुरोधाभ्याम्।
नातः परं पवित्रं सर्वोत्पातान्तकरमस्ति॥३॥
ज्योतिषी और पुरोहित के द्वारा राजा को पुष्य स्नान कराना चाहिये। इससे अधिक
पवित्र और सभी उत्पातों को नाश करने वाला दूसरा कोई उपाय नहीं है॥३॥
नृपते राज्ञः पुष्यस्नानं पुष्येण नक्षत्रेण स्नपनम्। दैववित्पुरोधाभ्याम्। दैववित्सांवत्सरः,
पुरोधा आचार्यः, एताभ्यां कर्तव्यम्। अतोऽस्मात् पुष्यस्नानात् परं प्रकृष्टं परमं पवित्रं
पावनं तथा सर्वेषां निःशेषाणामुत्पातानामुपसर्गाणामन्तकरं नाशकरमन्यदपरं नास्ति न
विद्यते॥३॥
कस्मिन् स्थाने पुष्यस्नानं नृपतिः कुर्यादित्याह—
श्लेष्मातकाक्षकण्टकिकटुतिक्तविगन्धिपादपविहीने ।
कौशिकगृध्रप्रभृतिभिरनिष्टविहगैः परित्यक्ते ॥४॥
तरुणतरुगुल्मवल्लीलताप्रतानान्विते वनोद्देशे ।
निरुपहतपत्रपल्लवमनोज्ञमधुरद्रुमप्राये ॥५॥
श्लेष्मातक (लसौड़ा), अक्ष (बहेड़ा), कण्टक (खैर आदि), कटु, तिक्त (निम्बू
आदि) और दुर्गन्धियुत वृक्षों से रहित, उल्लू, गिद्ध आदि अशुभकारक पक्षियों से रहित,
नूतन वृक्ष, गुल्मलताओं के समुदाय से युत, पत्र, पल्लव, सुन्दर, मधुर (स्वादुयुत)
वृक्षों के समूह से युत वन के समीप में राजा को पुष्य स्नान करना चाहिये।।४-५।।
एवंविधे वनोद्देशे वनभूमौ पुष्यस्नानं कुर्यात्। कीदृशे? श्लेष्मातकेति। श्लेष्मातको
वृक्षविशेषः। अक्षो विभीतकः। कण्टकिनः सकण्टका वृक्षाः खदिरप्रभृतयः कटुस्तीक्ष्णो
निम्बो वा। तिक्तास्तिक्तस्वादा निम्बाद्याः। विगन्धिनो विगतगन्धा दुर्गन्धा ये पादपा वृक्षा-
स्तैर्विहीने वर्जिते। तथा कौशिका उलूकाः। गृध्रप्रभृतयो गृध्राद्याः काकाद्याः काककङ्क-
प्लवश्येनकपोताः। अनिष्टा अप्रशस्ता ये विहगाः पक्षिणस्तैः परित्यक्ते वर्जिते।
तरुणैरभिनवैस्तरुभिर्वृक्षैः। गुल्मैरेकमूलजैः शाखासमूहैः सूक्ष्मैः। वल्लीभिः प्रसिद्धाभिः।
लताप्रतानो लतानां समूहो विस्तारस्तेनान्वितः संयुक्तो योऽसौ वनोद्देशस्तस्मिन्। तथा
निरुपहतानि निरुपसृष्टानि पत्राणि पर्णानि पल्लवा अभिनवा अङ्कुरा येषां मनोज्ञानां चित्ता-
ह्लादकानां मधुराणां स्वादूनां द्रुमाणां वृक्षाणां प्रायो बाहुल्यं यत्र तत्रेति॥४-५॥
अन्यत्कीदृश इत्याह—
कृकवाकुजीवजीवकशुकशिखिशतपत्रचाषहारीतैः ।
क्रकरचकोरकपिञ्जलवञ्जुलपारावतश्रीकैः ॥६॥
कुसुमरसपानमत्तद्विरेफपुंस्कोकिलादिभिश्चान्यैः ।
विरुते वनोपकण्ठे क्षेत्रागारे शुचावथवा ॥७॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

५६० बृहत्संहिता
मुर्गा, तीतर, तोता, मयूर, शतपत्र ( कठफोरवा ), चाष ( नीलकण्ठ ), हारीत
( हारिल ), क्रकर ( करील, चकोर, कपिञ्जल, वञ्जुल, कबूतर, श्रीकण्ठ )—इन पक्षियों के
शब्दों से युक्त पुष्पों के रसास्वादन से मत्त भ्रमर, श्रेष्ठ कोकिल आदि और अन्य सुन्दर पक्षियों
के शब्दों से युत वन के समीप शुद्ध पुण्यभूमि में पुष्यस्नान करना चाहिये।।६-७।।
अथवैदृशे वनोपकण्ठे वनसमीपे पुष्यस्नानं कुर्यात्। कीदृशे ? कृकवाकुः कुक्कुटः।
जीवजीवकौ पक्षिविशेषौ प्रसिद्धौ। शुकः कीरः। शिखी मयूरः। शतपत्रो दार्वाघाटः पक्षी।
चाषहारीतावपि पक्षिविशेषौ। एतैर्विरुते कृतशब्दे। तथा क्रकरः। चकोरः। कपिञ्जलः। वञ्जुलः।
पारावतः। श्रीकः श्रीकण्ठः। एतैरपि पक्षिविशेषैर्विरुते।
तथा कुसुमानां पुष्पाणां रसपानेन रसास्वादनेन ये मत्ताः प्रहृष्टा द्विरेफा भ्रमराः। तथान्ये
वा ये पुंस्कोकिलादयः। पुंस्कोकिलः प्रधानकोकिकः। आदिग्रहणाच्चक्रवाकसारसहंसा
गृह्यन्ते। तैरपि विरुते। अथवा शुचौ शुद्धे क्षेत्रागारे क्षेत्रे पुण्यस्थाने यदागारं गृहं तत्र। क्षेत्रा-
गारमपि कदाचिद्रुधिरमेध्यसम्पर्कात्त्र शुचि भवत्यत उक्तं क्षेत्रागारे शुचाविति।।६-७।।
अन्यत्कीदृशे स्थाने पुष्यस्नानं कुर्यादित्याह—
ह्रदिनीविलासिनीनां जलखगनखविक्षतेषु रम्येषु।
पुलिनजघनेषु कुर्याद् दृङ्मनसोः प्रीतिजननेषु ॥८॥
जलचर पक्षी रूप नखों से क्षत, दृष्टि और मन को आनन्ददायक नदी रूप कामिनियों
के तटरूप सुन्दर जंघाओं पर ( सुन्दर नदीतट पर ) पुष्यस्नान करना चाहिये।।८।।
ह्रदिन्यो नद्यस्ता एव विलासिन्यो वारयोषितस्तासां यानि पुलिनानि तीराणि तान्येव
जघनानि नितम्बप्रदेशास्तेषु कुर्यात्। कीदृशेषु? जलखगनखविक्षतेषु, जलखगा उदकचराः
पक्षिणस्तैर्नखविक्षतेषु करप्रहतेषु, तथा रम्येषु रमणीयेषु, दृङ्मनसोः प्रीतिजननेषु, दृशोश्च-
क्षुषोः, मनसश्चित्तस्य यानि प्रीतिं तुष्टिं जनयन्त्युत्पादयन्ति तथाभूतेषु। अत एव विला-
सिनीनां जघनेषु सादृश्यम्।।८।।
अन्यत्कीदृशेषु कुर्यादित्याह—
प्रोत्प्लुतहंसच्छत्रे कारण्डवकुररसारसोद्गीते।
फुल्लेन्दीवरनयने सरसि सहस्राक्षकान्तिधरे ॥९॥
उड़ते हुये हंसरूप छत्र वाले कारण्डव, कुरर और सारस पक्षियों के ध्वनिरूप गाने
से युत, खिले हुये नीलकमलरूप नेत्रों से युत; अत एव इन्द्र के समान कान्ति वाले
सरोवर के तीर पर स्नान करना चाहिये।।९।।
अथवा सरसि कुर्यात्। कीदृशे? सहस्राक्षकान्तिधरे, सहस्राक्ष इन्द्रस्तस्य सम्बन्धिनीं
कान्तिं रुचिं यो धारयति बिभर्ति तस्मिन्। किम्भूते? प्रोत्प्लुतहंसच्छत्रे, प्रोत्प्लुता उड्डीय-
माना ये हंसाः पक्षिविशेषाः, त एव छत्रमातपत्रं यत्र। तथा कारण्डवैः कुररैः सारसैश्च पक्षि-
विशेषैरुद्गीतं गानं क्रियते यत्र। फुल्लानि विकसितानि इन्दीवराणि नीलोत्पलानि नयनानि
नेत्राणि यत्र। अत एव सहस्राक्षस्य सादृश्यम्।।९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुष्यस्नानाध्यायः ५६१
अन्यत्कीदृशे कुर्यादित्याह—
प्रोत्फुल्लकमलवदनाः कलहंसकलप्रभाषिण्यः ।
प्रोत्तुङ्गकुड्मलकुचा यस्मिन्नलिनीविलासिन्यः ॥१०॥
खिले हुए कमलरूप मुख वाली, राजहंस के मधुर शब्दरूप वाक्य वाली और
कमल के कली रूप ऊँचे स्तन वाली पुष्करिणी रूप स्त्री के जंघा ( तट ) पर पुष्य-
स्नान करना चाहिये ॥१०॥
अथवा यस्मिन् स्थाने नलिनीविलासिन्यः पुष्करिण्य एव विलासिन्यः वारयोषितस्तत्र
कुर्यात् । कीदृशः ? प्रोत्फुल्लकमलवदनाः, प्रोत्फुल्लानि प्रविकसितानि कमलानि यानि
पद्मानि तान्येव वदनानि मुखानि यासाम् तथा कलहंसा राजहंसास्तेषां कलं मधुरं यत्
क्वणं शब्दस्तदेव प्रभाषणं वचनं यासाम् तथा प्रोत्तुङ्गानि उच्चानि यानि कुड्मलानि कर्ण-
कास्तान्येव कुचाः स्तना यासाम् । केचित् प्रोद्बद्धकुड्मलकुचा इति पठन्ति । प्रकर्षेणोद्बद्धानि
अतिकठिनानि यानीति । अत एव विलासिनीनां सादृश्यम् ॥१०॥
अन्यत्कीदृशे स्थाने कुर्यादित्याह—
कुर्याद् गोरोमन्थजफेनलवशकृत्खुरक्षतोपचिते ।
अचिरप्रसूतहुङ्कृतवल्गितवत्सोत्सवे गोष्ठे ॥११॥
गायों के जुगाली करने से गिरे हुये फेन और गोबर खुरों से ताडित जहाँ पर हो तथा
उत्पन्न हुए बछड़ों के हुङ्कार और कूदना-फाँदना रूप उत्सवयुत गोष्ठ स्थान में पुष्यस्नान
करना चाहिये ॥११॥
अथवा गोष्ठे गोस्थाने कुर्यात् । कीदृशे ? गोरोमन्थजफेनलवशकृत् खुरक्षतोपचिते
गो रोमन्थो गोरोमन्थः । गवां चर्वितचर्वणम् । तस्माज्जातो योऽसौ फेनलवो लालाबिन्दुः ।
तथा शकृद्गोमयस्तु खुरैः शफैर्यानि क्षतानि छिद्राणि तैरुपचिते संयुक्ते । तथा अचिरप्रसूताः
सद्य एव जाता ये वत्सास्तूर्णकास्तेषां हुङ्कृतो हुङ्कारशब्दः । तथा वल्गितं क्रीडितं
तदेवोत्सवो महो यत्र ॥११॥
अन्यत्कीदृशे स्थाने कुर्यादित्याह—
अथवा समुद्रतीरे कुशलागतरत्नपोतसम्बाधे ।
घननिचुललीनजलचरसितखगशबलीकृतोपान्ते ॥१२॥
अथवा सकुशल आये हुये रत्नयुत नावों से व्याप्त तथा घने निचुल ( समुद्रफल )
वृक्षों के ऊपर लीन जलचर और सफेद पक्षियों से चित्रित समीप भाग है जिसका, ऐसे
समुद्र के तीर में पुष्यस्नान करना चाहिये ॥१२॥
अथवा समुद्रतीरे सागरकुले कुर्यात् । कीदृशे ? कुशलागतरत्नपोतसम्बाधे, कुशले-
नाविघ्नेनाऽऽगताः प्राप्ता ये रत्नानां मणीनां पोतास्तेषां सम्बाधः सङ्घट्टो यत्र । सङ्कट
बृ० सं० प्र०-३६
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA