बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
२२६ बृहत्संहिता
अथ द्वात्रिंशद्वरुणपुत्रानाह—
कङ्का नाम वरुणजा द्वात्रिंशद्वंशगुल्मसंस्थानाः ।
शशिवत्प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः ॥२६॥
वंश और गुल्म (लता) के समान आकृति वाले, वरुण के पुत्र, कङ्कसंज्ञक और
चन्द्र के समान कान्ति वाले बत्तीस प्रकार के केतु हैं। ये सभी दिशाओं में उदित होते हैं
तथा इनका दर्शन होने से अशुभ फल होता है॥२६॥
द्वात्रिंशत्केतवः कङ्कनामानः। ते च वरुणजा यादसाम्पतेः पुत्राः। वंशगुल्मसंस्थाना
वंशगुल्मवत्संस्थानमाकृतिर्येषाम्। गुल्म एकमूलजो लतासमूहः। शशिवच्चन्द्रवत्प्रभया
कान्त्या समेताः संयुक्ताः। ते च तीव्रफलाः कष्टफलाः। प्रोक्ताः कथिताः। ते चानियत-
दिक्सम्प्रभवाः। तथा च गर्गः—
वंशगुल्मप्रतीकाशा महान्तः पूर्णरश्मयः।
काकतुण्डनिभैश्चापि रश्मिभिः केचिदावृताः॥
मयूखानुत्सृजन्तीव सुस्निग्धाः सौम्यदर्शनाः।
एते कष्टफलाः प्रोक्ता द्वात्रिंशद्वारुणा ग्रहाः।। इति।।२६।।
अथ षण्णवतिकालपुत्रानाह—
षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः ।
पुण्ड्राभयप्रदाः स्युर्विरूपताराश्च ते शिखिनः ॥२७॥
काल के पुत्र, कबन्धसंज्ञक, छिन्न शिर वाले पुरुष के समान आकृति वाले और
अस्पष्ट तारा वाले छियानबे प्रकार के केतु हैं। ये समस्त दिशाओं में उदित होते हैं तथा
इनका दर्शन होने से पुण्ड्र देश में शुभ एवं अन्य देश में अशुभ फल होता है॥२७॥
कालसुताः कालपुत्राः कबन्धसंज्ञाः कबन्धनामानः। षण्णवतिः केतवः। ते च कबन्ध-
संस्थानाः। कबन्धश्छिन्नशिराः पुरुषस्तद्वत्संस्थानमाकृतिर्येषाम्। ते च विरूपताराः। विरूपा
अस्फुटास्तारका येषाम्। ते शिखिनः केतवः पुण्ड्राभयप्रदाः। पुण्ड्रा नाम जनपदा-
स्तेषामभयप्रदाः श्रेयस्कराः। स्युर्भवेयुः। अन्यत्र पुनर्भयदाः। ते चानियतदिक्सम्प्रभवाः।
तथा च गर्गः—
तारापुञ्जविरूपाश्च कबन्धाकृतिसंस्थिताः।
पीतारुणसवर्णाश्च भस्मकर्पूररश्मयः।।
कालपुत्राः कबन्धाश्च नवतिः षट् च ते स्मृताः।
लोके मृत्युकरा घोराः पुण्ड्राणामभयप्रदाः।। इति।।२७।।
अथ नव विदिकपुत्रान् सर्वेषां च संख्यानमन्येषां विशेषं च वक्ष्यामीत्याह—
शुक्लविपुलैकतारा नव विदिशां केतवः समुत्पन्नाः ।
एवं केतुसहस्रं विशेषमेषामतो वक्ष्ये ॥२८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २२७
श्वेत वर्ण, विस्तृत और एक तारा वाले, विदिशा के पुत्र नव प्रकार के केतु हैं। ये
विदिशा में उत्पन्न होते हैं तथा इनका दर्शन होने से अशुभ फल होता है। इस तरह कुल
एक सहस्र केतु हैं। अब आगे इनकी विशेषता कहते हैं॥२८॥
विदिशां दिगन्तरालानां नव समुत्पन्ना विदिक्पुत्रा इत्यर्थः। किम्भूताः शुक्ल-
विपुलैकताराः। शुक्लः श्वेतवर्णो विपुलो विस्तीर्ण एकस्तारको येषाम्। ते च विदिक्ष्वेव
दृश्यन्ते। दृष्टाश्च पापफलाः। तथा च गर्गः—
शुक्लैकतारा विपुला विदिक्पुत्रा नव ग्रहाः।
विदिक्षु संस्थितास्ते च दृश्यन्ते भयदायकाः॥
एवं केतुसहस्रमिति। एवं केतूनां सहस्रं कथितमुक्तम्। अतोऽनन्तरमेतेषामेव
केतूनां विशेषं विशेषलक्षणं वक्ष्ये कथयिष्ये॥२८॥
एषां मध्यात् केचिद् दृश्यन्ते न सर्व एव। तत्र ये दृश्यन्ते तेषां लक्षणं वक्तुकाम-
स्तत्रादावेव वसाकेतुलक्षणमाह—
उद्गायतो महान् स्निग्धमूर्तिरपरोदयी वसाकेतुः।
सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते ॥२९॥
उत्तर तरफ विस्तृत, स्थूल, निर्मल और पश्चिम दिशा में उदित होने वाला वसा नामक
केतु है। इसके उदयकाल से ही पृथिवी पर मरी पड़ती है तथा उत्तम सुभिक्ष होता है॥२९॥
उद्गायत उत्तरस्यां दिशि आयतो दीर्घः। महानतिस्थूलः। स्निग्धमूर्तिर्निर्मलतनुः।
अपरोदयी पश्चिमायां दिशि उदयं याति। स च नाम्ना वसाकेतुर्दृष्टः सद्य एव तस्मिन्नेवाहनि
मरकं करोति। उत्तममपि प्रधानं सुभिक्षं च कुरुते॥२९॥
अथास्थिकेतोः शस्त्राख्यस्य च लक्षणमाह—
तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रोक्तः।
स्निग्धस्तादृक् प्राच्यां शस्त्राख्यो डमरमरकाय ॥३०॥
पूर्वकथित वसा केतु की तरह उद्गायतादि लक्षणों से युत और रूक्ष अस्थि-केतु है।
यह दुर्भिक्ष करने वाला होता है तथा वसा केतु के लक्षणों से युत, निर्मल और पूर्व दिशा
में उदित होने वाला शस्त्र-केतु है। यह शस्त्रयुद्ध कराने वाला और मनुष्यों को मारने वाला
होता है॥३०॥
तदित्यनेन वसाकेतोः परामर्शः। अस्थिकेतुर्नाम केतुः स तल्लक्षणः। तल्लक्षणै-
र्वसाकेतोः सदृशैर्युक्तः—‘उद्गायतो महान् स्निग्धमूर्तिरपरोदयी’ इति। किन्त्वयं विशेषः—
स तु रूक्षो भवति स्नेहरहितः। दृष्टश्च क्षुद्भयावहो दुर्भिक्षभयप्रदः प्रोक्तः कथितः। स्निग्ध-
स्तादृगिति। तादृग् वसाकेतुसदृशः स्निग्धो निर्मलदेहः प्राच्यां पूर्वस्यां दिशि दृश्यते।
स तु शस्त्राख्यः शस्त्रकेतुसंज्ञो दृष्टो डमरमरकाय भवति। डमरं शस्त्रकलहं मरकं च करोति।
तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२२८ बृहत्संहिता
'एते षड्विंशतिरुदयैः फलमावेदयन्ति। तान् नामतो रूपतः फलतः कालतोऽभि-
धास्यामः। तत्र भार्गवास्त्रय उदयं यान्ति। एकैकशो वसास्थिशस्त्रकेतवः। तत्र वसाकेतुः
स्निग्धो महानुद्गायतशिखस्त्रिंशद्वर्षशतं प्रोष्य सम्प्लवे युगे पश्चिमोदितः सद्यो मरकफलः
सौभिक्षकरस्तु। रूक्षोऽस्थिकेतुरसौ भिक्षुकतुल्यप्रवासकालफलः। पूर्वेण स्निग्ध एव तु
शस्त्रकेतुः। राजविरोधमरकफलः समो रूक्षः'।।३०।।
अथ कपालकेतोर्लक्षणमाह—
दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः।
प्राङ्नभसोऽर्द्धविचारी क्षुन्मरकावृष्टिरोगकरः।।३१।।
धूम्र वर्ण की किरणों वाला, अमावास्या में पूर्व तरफ उदित होने वाला और आकाश
के अर्द्ध भाग में विचरण करने वाला कपाल-केतु है। इसका दर्शन होने से पृथ्वी पर
दुर्भिक्ष, मरकी, अवृष्टि और रोग उत्पन्न होता है।।३१।।
कपालकेतुर्नाम केतुः स त्वमावास्यायां कृष्णपञ्चदश्यां प्राक् पूर्वस्यां दिशि दृश्य
उदयं याति। किम्भूत्तः? सधूम्ररश्मिशिखः। सधूम्रा रश्मिशिखा यस्य। किरणकान्तिर्धूम्र-
वर्णेत्यर्थः। नभसोऽर्द्धविचारी। नभस आकाशस्यार्द्धं यावद्विचरति गच्छति। स च क्षुन्मरका-
वृष्टिरोगकरः। क्षुद् दुर्भिक्षम्। मरकं जनक्षयम्। अवृष्टिं रोगांश्च करोति। तथा च पराशरः—
'अथादित्यानां कपालकेतुरुदयतेऽमावस्यायां पूर्वस्यां दिशि सधूम्रार्चिशिखो
नभसोऽर्द्धचरो दृश्यते। पञ्चविंशवर्षशतं प्रोष्य त्रींश्च पक्षानमृतजंस्य कुमुदकेतोश्चारान्ते
स दृष्ट एव दुर्भिक्षानावृष्टिव्याधिभयमरणोपद्रवान् सृजति। जगति यावतो दिवसान् दृश्यते
तावन्मासान् मासैर्वत्सरान् पञ्चप्रस्थं च शारदधान्यार्घं कृत्वा प्रजानामपयुङ्क्ते'।।३१।।
तथा रौद्रकेतुमाह—
प्राग्वैश्वानरमार्गे शूलाग्रः श्यावरूक्षताम्रार्चिः।
नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः।।३२।।
पूर्व और अग्निकोण में उदित होने वाला शूलाग्र (तीन शिखा वाला), कपिश, रूक्ष
या ताम्र के समान किरण वाला और आकाश के तीन भाग में गमन करने वाला रौद्र-केतु
है। यह कपाल केतु की तरह फल देता है।।३२।।
रौद्रनामा केतुः प्राक् पूर्वस्यां दिशि वैश्वानरमार्गे दहनवीथ्यां दृश्यते। वैश्वानरसंज्ञितमार्गे
पूर्वाषाढोत्तराषाढयोः समीप इत्यर्थः। कीदृशः? शूलाग्रः। शूलाकृतिरग्रं यस्य केतोः स
शूलाग्रः। त्रिशिख इत्यर्थः। तस्यैव विशेषणं श्यावरूक्षताम्रार्चिः। रूक्षमस्निग्धमर्चिस्तेजः,
श्यावरूक्षं ताम्रं चार्चिस्तेजो यस्य स श्यावरूक्षताम्रार्चिः। नभसस्त्रिभागगामी नभस
आकाशस्य त्रिभागगमनशीलः। स च कपालतुल्यफलः कपालकेतोः समानफलः। एतदुक्तं
भवति—क्षुन्मरकावृष्टिरोगकर इति। आचार्येण शुक्रचारे वैश्वानरमार्गः प्रदर्शित एव 'अषाढा-
द्वयं दहना' इति। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २२९
'अथ दक्षयज्ञरुद्रक्रोधोद्भवः कलिकेतुस्त्रीणि वर्षशतानि नव च मासान् प्रोष्योदयते
पूर्वेण वैश्वानरमार्गे ह्यमृतजस्य मणिकेतोश्चारान्ते श्यावरूक्षताम्रारुणां शूलाकारसदृशीं शिखां
कृत्वा नभसस्त्रिभागचारी स शस्त्रभयरोगदुर्भिक्षाऽनावृष्टिमरकैर्यन्मासान् दृश्यते तावद्वर्षाणि
त्रिभागशेषां प्रजां कृत्वार्धं च शारदधान्यमाढकमस्तं व्रजति।' तथा च वृद्धगर्ग आह—
ज्येष्ठामूलमनूराधा या वीथी सम्प्रकीर्तिता।
तां च वीथीं समारुह्य केतुश्चेत् क्रीडते भृशम् ।।
दक्षिणाभिनतां कृत्वा शिखां घोरां भयङ्करीम् ।
शूलाग्रसदृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम् ।।
पूर्वेण चोदितश्चैष नक्षत्राण्युपधूमयेत् ।
घोरं प्रजासु सृजति फलं मासे त्रयोदशे ।।
त्रिभागं नभसो गत्वा ततो गच्छत्यदर्शनम् ।
यावतो दिवसांस्तिष्ठेत्तावद्वर्षाणि तद्भयम् ।।
शस्त्राग्निभयरोगैश्च दुर्भिक्षमरणैर्हताः ।
पूर्यमाणाः प्रजा सर्वा विद्रवन्ति दिशो दश ।। इति ।। ३२ ।।
अथ चलकेतोर्लक्षणमाह—
अपरस्यां चलकेतुः शिखया याम्याग्रयाऽङ्गुलोच्छ्रितया ।
गच्छेद्यथा यथोदक् तथा तथा दैर्घ्यमायाति ।। ३३ ।।
सप्तमुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः ।
नभसोऽर्द्धमात्रमित्वा याम्येनास्तं समुपयाति ।। ३४ ।।
हन्यात् प्रयागकूलाद्यावदवन्तीं च पुष्करारण्यम् ।
उदगपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम् ।। ३५ ।।
अन्यानपि च स देशान् क्वचित् क्वचिद्धन्ति रोगदुर्भिक्षैः ।
दश मासान् फलपाकोऽस्य कैश्चिदष्टादश प्रोक्तः ।। ३६ ।।
पश्चिम दिशा में उदित होने वाला, दक्षिण दिशा में एक अङ्गुल उच्छ्रित शिखा वाला,
जैसे-जैसे उत्तर तरफ जाय वैसे-वैसे दीर्घ होने वाला, सप्तर्षि, ध्रुवतारा और अभिजित्
नक्षत्र को स्पर्श करके लौटने वाला और आकाश के अर्द्ध भाग में जाकर दक्षिण दिशा में
अस्त होने वाला चल केतु है। इसका दर्शन होने से प्रयाग से लेकर अवन्ती तक के देश,
पुष्करारण्य नामक स्थान और उत्तर दिशा में देविका नदी तक के देश का नाश होता है;
लेकिन विशेषकर तथा मध्य देश का नाश होता है। साथ ही अन्य देशों का भी रोग और दुर्भिक्ष
के द्वारा नाश होता है। इसका फल दर्शनकाल से लेकर दश मास तक होता है और किसी
का मत है कि दर्शनकाल से लेकर अट्ठारह मासपर्यन्त फल प्राप्त होता है ।। ३३-३६ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२३० बृहत्संहिता
अपरस्यां पश्चिमायां दिशि चलकेतुर्नाम दृश्यते। स च कीदृशः ? शिखया याम्याग्रया
अङ्गुलोच्छ्रितयोपलक्षितः। शिखा चूडा तया याम्याग्रया याम्यायां दक्षिणस्यां दिश्यग्रं
यस्याः। तथा अङ्गुलोच्छ्रितया अङ्गुलप्रमाणोच्चया। यथा यथा येन येन प्रकारेणोदगुत्तरां
दिशं गच्छेद्याति तथा तथा तेन तेन प्रकारेण दैर्घ्यं दीर्घतामायाति प्राप्नोति।
सप्तमुनीनिति। सप्तमुनीन् वसिष्ठादीन् संस्पृश्य तथा ध्रुवं ध्रुवतारकमभिजितं च
नक्षत्रं संस्पृश्य ततः प्रतिनिवृत्तः प्रत्यागतः। नभस आकाशस्यार्द्धमात्रमित्वा गत्वा प्राप्य
याम्येन दक्षिणस्यां दिशि अस्तमदर्शनं समुपयाति गच्छति।
हन्यात् प्रयागकूलादिति। स एव चलकेतुः प्रयागकूलादारभ्य यावदवन्तीं चोज्जयिनीं
तथा पुष्करारण्यं नाम स्थानं तावद्धन्यान्नाशयेत्। उदगपि चोत्तरस्यां दिश्यपि च यावद्देविकां
नदीं तावद्धन्यात्। मध्यदेशाख्यं मध्यदेशं भूयिष्ठमतिशयेन हन्यात्।
अन्यानपि च स देशानिति। स चलकेतुरन्यानपरान् देशानपि रोगदुर्भिक्षैः क्वचित्
क्वचिद्धन्ति नाशयति न सर्वत्र। अस्य केतोर्दश मासान् यावत्फलपाकः। दर्शनात् त्रिपक्षा-
त्परतो यावद्दशमासांस्तावदशुभं फलं ददाति। कैश्चिदन्यैर्गर्गादिभिरष्टादश मासान् यावत्
फलपाकः प्रोक्तं कथितः। तथा च पराशरः—
‘अथ पैतामहश्चलकेतुः पञ्चदशवर्षशतं प्रोष्योदितः पश्चिमेनाङ्गुलिपर्वमात्रां शिखां
दक्षिणाभिगतां कृत्वा जलकेतोश्चारान्ते नभसस्त्रिभागमनुचरन् यथा यथा चोत्तरेण व्रजति
तथा तथा शूलाग्राकारां शिखां दर्शयन् ब्रह्मनक्षत्रमुपसृत्य मनाग् ध्रुवं ब्रह्मराशिं सप्तर्षीन्
स्पृशन् नभसोऽर्द्धमात्रं दक्षिणमनुक्रम्यास्तं व्रजति। स स्वर्गे दारुणकर्मा। स्वर्गप्राप्तत्वादेव
च कृत्स्नमभिनिहन्ति लोकम्। अपि च भूमिं कम्पयित्वा दश मासान्मध्यदेशे भूयिष्ठं
जनपदमनवशेषं कुरुते। तेष्वपि क्वचित् क्वचिच्छस्त्रदुर्भिक्षव्याधिमरकभयैः क्लिशनात्य-
ष्टादश मासानि’ति। तथा च गर्गः—
क्षुच्छस्त्रमरकव्याधिभयैः सम्पीड़येत् प्रजाः।
मासान् दश तथाष्टौ च चलकेतुः सुदारुणः।। इति।।३३-३६।।
अथ श्वेतकेतुलक्षणमाह—
प्रागर्द्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च।
क इति युगाकृतिरपरे युगपत्तौ सप्तदिनदृश्यौ ।।३७।।
स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामा यः।
दश वर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम् ।।३८।।
श्वेत-केतु पूर्व दिशा में अर्द्धरात्रि के समय दृश्य होने वाला और दक्षिणस्थित शिखा
वाला है तथा अन्य 'क'संज्ञक केतु गाड़ी के जुए के समान आकृति वाला और पश्चिम दिशा
में अस्त होने वाला है। यदि निर्मल होकर ये दोनों सात दिन तक दिखाई दें तो सुभिक्ष और
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २३१
कल्याण करते हैं। यदि सात दिन से अधिक कनामक केतु दिखाई दे तो दश वर्ष तक
शस्त्र के कोप से मनुष्यों को पीड़ित करता है।।३७-३८।।
श्वेतकेतुर्नाम केतुः प्राक् पूर्वस्यां दिशि अर्द्धरात्रदृश्यः अर्द्धरात्रकाले दृश्यते। याम्याग्रो
दक्षिणदिक्शिखः। अन्यश्च द्वितीयः क इति कनामा केतुः। अपरे पश्चिमायां दृश्यते। तौ
च द्वावपि युगपत्तुल्यकालं सप्तदिनदृश्यौ सप्तदिनानि दृश्येते।
तौ च द्वावपि स्निग्धावतिनिर्मलौ दृष्टौ च सुभिक्षशिवदौ सुभिक्षं शिवं श्रेयश्च ददतः।
अथ यः कनामा स च यदि सप्तभ्यो दिनेभ्योऽधिकं दृश्यते तदा दशवर्षाणि शस्त्रप्रकोपकृतं
संग्रामजमुपतापमुपद्रवं जनयत्युत्पादयति। तथा च पराशरः—
'अथौद्दालकः श्वेतकेतुर्दशोत्तरं वर्षशतं प्रोष्य भटकेतोश्चारान्ते पूर्वस्यां दिशि दक्षिणा-
भिनतशिखोऽर्द्धरात्रकाले दृश्यः। तेनैव सह द्वितीयः कः प्रजापतिपुत्रः पश्चिमेन ग्रहके-
तोर्यूपसंस्थायी युगपद् दृश्यते। तावुभौ सप्तरात्रदृश्यौ दशवर्षाणि प्रजाः पीड्यन्ते। कः
प्रजापतिपुत्रो यद्यधिकं दृश्यते तदा दारुणतरं प्रजानां शस्त्रकोपं कुर्यात्तथैव स्नेहवर्णयुक्तौ
क्षेमारोग्यसुभिक्षदौ भवतः'।।३७-३८।।
अथ श्वेतलक्षणमाह—
श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभागगतः ।
विनिवर्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥३९॥
श्वेत नामक केतु जटा के सदृश, रूक्ष, कपिश और आकाश के तीन भाग तक जाकर
बायीं तरफ से होकर लौट आता है। इसका दर्शन होने से प्रजा का तृतीयांश मात्र शेष रहता
है अर्थात् दो भाग नष्ट हो जाते हैं।।३९।।
श्वेतनामा केतुर्जटाकारो जटासदृशः। रूक्षः परुषः। श्यावः कृष्णवर्णः। वियत्त्रिभागगतो
वियत्याकाशे त्रिभागं यावद् गच्छति ततोऽपसव्यमप्रदक्षिणं वामभागे विनिवर्तते विनिवृत्तिं
करोति। त्रिभागशेषास्तृतीयांशावशेषाः प्रजाः कुरुते। द्वौ भागौ क्षयं नयतीत्यर्थः। तथा
च पराशरः—
'अथ काश्यपः श्वेतकेतुः पञ्चदशवर्षशतं प्रोष्यैन्द्रांशः सहजस्य पद्मकेतोश्चारान्ते श्याव-
रूक्षो नभसस्त्रिभागमाक्रम्याग्रसव्यं निवृत्त्योर्ध्वं प्रदक्षिणजटाकारशिखः। स यावन्मासान्
दृश्यते तावद्वर्षाणि सुभिक्षमावहति। मध्यदेश आर्यगणानामौदीच्यैश्च भूयिष्ठं बहुशस्त्रि-
भागशेषां प्रजामवशोषयति।।३९।।
अथ रश्मिकेतोर्लक्षणमाह—
आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः ।
ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥४०॥
धूम्र वर्ण की शिखा वाला और कृत्तिका नक्षत्र में स्थित होने पर दिखाई देने वाला
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
२३२ वृहत्संहिता
रश्मि केतु है। इसका दर्शन होने से यह श्वेत की तरह फल ( त्रिभाग शेष प्रजा ) करता
है॥४०॥
आधूम्रवर्णया शिखयोपलक्षितस्तथा कृत्तिकासंस्थः समीपे दर्शनमुदयमायाति गच्छति
स रश्मिकेतुर्नाम केतुर्ज्ञेयो ज्ञातव्यः। स च श्वेतसमानं श्वेतकेतुसदृशं फलं धत्ते ददाति।
त्रिभागशेषा प्रजाः कुरुत इत्यर्थः। तथा च पराशरः—
'अथ रश्मिकेतुर्विभावसुजः प्रोष्य वर्षशतमावर्तकेतोश्चारान्ते उदितः कृत्तिकासु धूम्र-
शिखः श्वेतकेतोः सदृशफलः'॥४०॥
अथ ध्रुवकेतोर्लक्षणमाह—
ध्रुवकेतुरनियतगतिप्रमाणवर्णाकृतिर्भवति विष्वक् ।
दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥४१॥
सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् ।
गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति ॥४२॥
अनिश्चित गमन, प्रमाण, वर्ण और आकृति वाला, सभी दिशाओं में दिखाई देने वाला,
दिव्य, आन्तरिक्ष और भौम भेद से तीन प्रकार का होने वाला, निर्मल तथा शुभ फल देने
वाला ध्रुव केतु है। यह ध्रुवकेतु नाश होने वाले राजाओं के सेनाङ्ग ( अश्व, लगाम आदि )
में, नाश होने वाले देशों के गृह, वृक्ष और पर्वत में तथा नाश होने वाले गृहस्थों के
उपकरण द्रव्य में दिखाई देता है॥४१-४२॥
ध्रुवकेतुर्नाम केतुः स त्वनियतगतिप्रमाणवर्णाकृतिः। अनियता अनिश्चिता गतिर्गमनम्।
प्रमाणं स्थूलसूक्ष्ममध्यभावम्। वर्णः शुक्लकृष्णादिः। आकृतिराकारो यस्य स तथाभूतः।
स च विष्वक् समन्ततो भवति। सर्वासु दिक्ष्वित्यर्थः। स च दिव्यान्तरिक्षभौमस्त्रिप्रकारो
भवति। केचिद्विश्वे नानाकारो भवतीतीच्छन्ति। स च स्निग्धो निर्मलशरीरः। इष्टफलः
शुभफलो भवति।
एष चैवंविधानां विनाशिनां मुमूर्षूणां दर्शनमुदयं याति ग
केतुचाराध्यायः २३३
अथ कुमुदकेतोर्लक्षणमाह—
कुमुद इति कुमुदकान्तिर्वारुण्यां प्राक्शिखो निशामेकाम्।
दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति ॥४३॥
कुमुदपुष्प की तरह कान्ति वाला, पश्चिम दिशा में उदित होने वाला, पूर्व की तरफ
शिखा वाला और केवल एक रात्रि में दिखाई देने वाला कुमुद केतु है। इसका दर्शन होने
से दश वर्ष तक पृथ्वी पर सुभिक्ष होता है॥४३॥
कुमुद इति कुमुदनामा केतुः। स तु कुमुदकान्तिः कुमुदाभः। श्वेतवर्ण इत्यर्थः। स
तु वारुण्यां पश्चिमायां दिशि। प्राक्शिखः पूर्वाग्रो निशां रात्रिमेकामेव दृश्यते। किले-
त्यागमसूचने। स तु दृष्टो दशवर्षाण्यतुलमसमं सुभिक्षं करोति। तथा च पराशरः—
'अथामृतजः कुमुदो मणिः। जलोद्भवः पद्मः। आवर्त्तः। ऊर्मिः। शङ्खः। हिमः।
रक्तः। कुक्षिः। कामः। विसर्पणः। शीतश्चे'ति।
तत्र कुमुदकेतुर्वसाकेतोश्चारसमाप्तौ वारुण्यां दर्शनमुपैति। गोक्षीरविमलस्निग्धप्रभां
पूर्वेणाभिनतां शिखां कृत्वैकरात्रचरः। स दृष्ट एव सुभिक्षमुत्पादयति। दशवर्षाणि प्रजा-
नामविरोधं च। प्रतीच्यानां च मुखरोगारोचकप्रतिश्यायपाण्डुरोगजननैः प्रजा बाधत इति।
अथ मणिकेतोर्लक्षणमाह—
सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः।
ऋज्वी शिखास्य शुक्ला स्तनोद्गता क्षीरधारेव ॥४४॥
उदयन्नेव सुभिक्षं चतुरो मासान् करोत्यसौ सार्द्धान्।
प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम् ॥४५॥
पश्चिम दिशा में एक प्रहरमात्र शेष रात्रि में एक बार दिखाई देने वाला और दुग्धधारा
की तरह स्पष्ट शिखा वाला मणि केतु है। यह केतु उदयकाल से ही साढ़े चार महीने तक
सुभिक्ष और अधिकतर नकुल आदि क्षुद्र जन्तुओं की उत्पत्ति करता है॥४४-४५॥
मणिकेतुर्नाम केतुः स त्वपरेण पश्चिमायां दिशि सुसूक्ष्मतारोऽत्यल्पतारकः।
सकृदेकवारम्। एकयामदृश्यः। यामशब्देन रात्रिचतुर्भाग उच्यते। अस्य केतोः। ऋज्वी
स्पष्टा। शिखा चूडा। शुक्ला श्वेतवर्णा दृश्यते। कीदृशी? स्तनोद्गता क्षीरधारेव। स्तनात्
कुचादुद्गता निःसृता क्षीरधारा यथा दृश्यते तद्वच्छिखा।
असौ केतुरुदयन्नेवोदितमात्र एव चतुरः सार्द्धान् अर्द्धपञ्चमान् मासान् क्षेमं सुभिक्ष-
मुत्पादयति करोति। प्रायो बाहुल्येन क्षुद्रजन्तूनां नकुलादीनां प्रादुर्भावमुत्पत्तिं करोति। तथा
च पराशरः—
'मणिकेतुरपि कपालकेतोश्चारावसाने प्रतीच्यामुदयमुपयाति। सूक्ष्मोऽरुन्धतीतारका-
मात्रः क्षीरप्रसेककान्त्या पूर्वाभिनतया स्निग्धशिखया शर्वर्यमेकयामदृश्यः। स उदयात्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२३४ बृहत्संहिता
प्रभृत्यर्द्धपञ्चमान् मासान् क्षेमसुभिक्षमुत्पादयति। क्षुद्रजन्तूनां प्रादुर्भावं करोत्यतिमात्र-
कालदृष्टः'।।४४-४५।।
अथ जलकेतोर्लक्षणमाह—
जलकेतुरपि च पश्चात् स्निग्धः शिखयापरेण चोन्नतया ।
नव मासान् स सुभिक्षं करोति शान्तिं च लोकस्य ॥४६॥
पश्चिम दिशा में दिखाई देने वाला, निर्मल और पश्चिमोन्नत शिखा वाला जलकेतु है।
यह उदित हो तो नव मास तक सुभिक्ष और लोगों का कुशल करता है।।४६।।
जलकेतुर्नाम केतुः सोऽपि पश्चात् पश्चिमायां दिशि दृश्यते। स्निग्धो निर्मलदेहः।
अपरेण पश्चिमेन। चोन्नतया उच्चया शिखया चूडया युक्तः। स च दृष्टो नव मासान्
यावत् सुभिक्षं करोति। लोकस्य जनपदस्य च शान्तिं श्रेयः करोति। तथा च पराशरः—
'अथ जलकेतुः पैतामहजस्य जलकेतोर्नवमासावशिष्टे कर्मणि कृतं प्रवर्तयति।
पश्चिमेनोदितः स्निग्धः सुजातोऽनुपश्चिमाभिनतशिखः। स च नव मासान् क्षेमसुभिक्षारोग्याणि
प्रजाभ्यो धत्ते। अन्यग्रहकृतानां चाशुभानां व्याघाताये'ति।।४६।।
अथ भवकेतोर्लक्षणमाह—
भवकेतुरेकरात्रं दृश्यः प्राक् सूक्ष्मतारकः स्निग्धः ।
हरिलाङ्गूलोपमया प्रदक्षिणावर्तया शिखया ॥४७॥
यावत एव मुहूर्तान् दर्शनमायाति निर्दिशेन्मासान् ।
तावदतुलं सुभिक्षं रूक्षे प्राणान्तिकान् रोगान् ॥४८॥
पूर्व दिशा में केवल एक रात्रि में दिखाई देने वाला, सूक्ष्म तारा से युत और सिंह की
पूँछ की तरह दक्षिणावर्त शिखा से युत भव केतु है। यह निर्मल मूर्ति का होकर जितने क्षण
तक दिखाई देता है, उतने मास तक सुभिक्ष और रूक्ष मूर्ति का होकर जितने क्षण तक
दिखाई देता है, उतने मास तक प्राणान्तक रोग की उत्पत्ति करता है।।४७-४८।।
भवकेतुर्नाम केतुः स च प्राक् पूर्वस्यां दिशि एकरात्रमेकां निशां दृश्यः। सूक्ष्मतारकः
सूक्ष्मोऽत्यल्पस्तारको यस्य। स्निग्धो निर्मलदेहः। अन्यत्र शिखयोपलक्षितः। कीदृश्या?
हरिलाङ्गूलोपमया प्रदक्षिणावर्तया। हरिः सिंहस्तस्य लाङ्गूलं पुच्छस्तदुपमया तदाकारया
प्रदक्षिणेनावर्त्तो यस्यास्तथाभूतया।
स च यावत एव मुहूर्तान् यावत्संख्यान् क्षणान् दर्शनमायाति दृश्यते तावन्मा-
सानतुलमसमं सुभिक्षं निर्दिशेद्बदेद्यदि स्निग्धः। रूक्षे तु पुनः प्राणान्तिकान् रोगान् गदान्
वदेत्। तथा च पराशरः—
'अथ जलकेतोः कर्मसमाप्तावूर्म्वादयः शीतान्ता अष्टौ प्रादुर्भवन्ति। ते त्रयोदश-
चतुर्दशाष्टादशवर्षान्तरिता दृश्यन्ते। स्निग्धाः सुभिक्षक्षेम्या विपर्ययाः विपरीताः। क्षुद्रजन्तूनां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २३५
वधाय। तेषामष्टानां कर्मण्यतीते 'भवकेतुर्दृश्यते पूर्वेणैकरात्रम्। या कृत्तिकानामग्रतमा तारा
तत्प्रमाणया स्निग्धयाऽरूक्षाभया सिंहलाङ्गूलसंस्थानया प्रदक्षिणनताग्रया शिखयोदितः।
स यावन्मुहूर्तान् दृश्यते तावन्मासान् भवत्यतीव सुभिक्षाय। रूक्षः प्राणहराणां रोगाणां
प्रादुर्भावायेति'।।४७-४८।।
अथ पद्मकेतोर्लक्षणमाह—
अपरेण पद्मकेतुर्मृणालगौरो भवेन्निशामेकाम्।
सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि ॥४९॥
पूर्व दिशा में केवल एक रात्रि में दिखाई देने वाला मृणाल की तरह गौर पद्म केतु है।
यह उदित हो तो सात वर्ष तक सुभिक्ष और लोगों में आनन्द-मंगल करता है।।४९।।
पद्मकेतुर्नाम केतुः। अपरेण पश्चिमायां दिशि निशां रात्रिमेकां दृश्यते। कीदृशः?
मृणालगौरः, मृणालवद् गौरो मृणालगौरः। मृणालं बिसतन्तु। तद्वद् गौरः। श्वेत इत्यर्थः।
स तु दृष्टः सप्त वर्षाण्यतिहर्षयुक्तानि सुभिक्षं करोति। तथा च पराशरः—
'अथ पद्मकेतुः श्वेतकेतुफलसमाप्तौ पश्चिमेनाह्लादयन्निव मृणालकुमुदाभया शिखयैक-
रात्रचरः। सप्त वर्षाण्यभ्युच्छ्रितं हर्षमावहति जगतः'।।४९।।
अथावर्तकेतोर्लक्षणमाह—
आवर्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः।
यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः ॥५०॥
पश्चिम दिशा में रात्र्यर्ध समय में उदित होने वाला, दक्षिणस्थ शिखा वाला, रक्तवर्ण,
निर्मल शरीर वाला आवर्त केतु है। यह जितने क्षण तक दिखाई देता है, उतने मास तक
सुभिक्ष करता है।।५०।।
आवर्तनामेति यः केतुः स निशार्धे रात्र्यर्धे। अपरे पश्चिमायां दिशि। सव्यशिखो
दक्षिणदिगाश्रितशिखः। अरुणनिभो रक्तवर्णः। स्निग्धो निर्मलवपुर्दृश्यते। स तु यावत्क्षणान्
यावत्संख्यान् मुहूर्तान् दृश्यते तावन्मासान् सुभिक्षं करोति। तथा च पराशरः—
'अथावर्तकेतुः श्वेतकेतोः कर्मण्यतीतेऽपरस्यामर्द्धरात्रे शङ्खावदातोऽरुणाभया प्रदक्षिणन-
ताग्रया शिखयोदितः। स यावन्मुहूर्तान् दृश्यते तावन्मासान् भवत्यतीव सुभिक्षं नित्य-
यज्ञोत्सवं जगत्'।।५०।।
अथ संवर्तकेतोर्लक्षणमाह—
पश्चात् सन्ध्याकाले संवर्तो नाम धूम्रताम्रशिखः।
आक्रम्य वियत्त्र्यंशं शूलाग्रावस्थितो रौद्रः ॥५१॥
यावत एव मुहूर्तान् दृश्यो वर्षाणि हन्ति तावन्ति।
भूपान् शस्त्रनिपातैरुदयर्क्षं चापि पीडयति ॥५२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२३६ बृहत्संहिता
पश्चिम दिशा में सन्ध्याकाल में आकाश के तीसरे भाग तक जाकर दिखाई देने वाला
धूम्र या ताम्र वर्ण की तीन शिखा वाला संवर्त्त केतु है। यह जितने क्षण तक दिखाई देता
है, उतने वर्ष तक युद्ध के द्वारा राजाओं का नाश करता है; साथ ही उदयकालिक नक्षत्र को
पीड़ित करता है॥५१-५२॥
पश्चात् पश्चिमायां दिशि। सन्ध्याकाले सन्ध्यासमये। संवर्तो नाम केतुः। कीदृशः ?
धूम्रताम्रशिखः। धूम्रा ताम्रवर्णा च शिखा चूडा यस्य। वियत आकाशस्य त्र्यंशं तृतीय-
भागमाक्रम्य प्राप्य दृश्यते। शूलाग्रावस्थितः। शूलमग्रे शिरस्यवस्थितं यस्य। त्रिचूड
इत्यर्थः। स च रौद्रो भयावहः।
स च केतुर्यावतो मुहूर्तान् दृश्यो भवति तावत्संख्यानि वर्षाणि हन्ति नाशयति।
अशुभफलप्रदो भवतीत्यर्थः। तथा भूपान् नृपान्। शस्त्रनिपातैः संग्रामैर्हन्ति नाशयति। तथो-
दयर्क्षम्। यस्मिन्नक्षत्रे उदितो दृश्यते तच्च पीडयत्युपतापयति। तथा च पराशरः—
'अथ संवर्तो वर्षसहस्रमष्टोत्तरं प्रोष्य पश्चिमेनास्तं गते सवितरि सन्ध्यायां दृश्यते
तन्वीं ताम्ररूक्षां शूलाभां धूम्रं विमुञ्चन्तीं दारुणां शिखां कृत्वा नभसस्त्रिभागमाक्रम्य। स
यावन्मुहूर्तान् निशि तिष्ठति तावद्वर्षाणि परस्परं शस्त्रैर्ध्नन्ति पार्थिवाः। यानि नक्षत्राणि
धूपयति यत्र चोदेति तानि दारुणतरं पीडयति। तदाश्रितांश्च देशानि'ति। तथा च—
येषां नक्षत्रविषये रूक्षः सज्ज्वललोहितः।
दृश्यते बहुमूर्तिश्च तेषां विन्द्यान्महाभयम् ।।
अवर्षं शस्त्रकोपं च व्याधिं दुर्भिक्षमेव च।
कुर्यान्नृपतिपीडाश्च स्वचक्रपरचक्रतः ।।
यत्रोत्तिष्ठति नक्षत्रे प्रवासं यत्र गच्छति।
धूपयेद्वा स्पृशेद्वापि हन्याद्देशांस्तदाश्रितान् ।।
यस्याभिषेकनक्षत्रं जन्मभं कर्मभं तथा।
देशर्क्षं पीडयेद्वापि स शान्त्युपरमो भवेत् ।।
स्निग्धः प्रसन्नो विमलः प्रदक्षिणशिखस्तथा।
दृश्यते येषु देशेषु शिवं तेषु विनिर्दिशेत् ।।
गगनाङ्कचरः सद्यः प्रधानदेशान् विनाशयेदचिरात्।
निखिलगगनानुचारी त्रैलोक्यविनाशकः केतुः ।। इति ।। ५१-५२ ।।
अथ शुभान् केतून् वर्जयित्वाऽशुभानां नक्षत्रस्पर्शधूपनाद् दुष्टफलं वक्ष्यामीत्याह—
ये शास्तास्तान् हित्वा केतुभिरधूपितेऽथवा स्पृष्टे ।
नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ॥५३॥
शुभ केतुओं को छोड़कर अन्य केतुओं से धूपित या स्पृष्ट नक्षत्र होने पर जिन-जिन
राजाओं का नाश होता है, उनको अब कहते हैं॥५३॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
केतुचाराध्यायः २३७
ये केतवः शस्ताः प्रशस्तफलाः। तान् हित्वा त्यक्त्वा। अन्यैः केतुभिः शिखिभि-
र्नक्षत्रे यस्मिन्नाधूपितेऽथवा स्पृष्टे तेषां राज्ञां नृपाणां वधो मरणं भवति तान्नृपान् वक्ष्ये
कथयिष्ये।।५३।।
तांश्चाधुनाऽऽह—
अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं हन्यात्।
बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम्।।५४।।
यदि केतु से धूपित या स्पृष्ट अश्विनी नक्षत्र हो तो अश्मक देशाधिपति, भरणी हो तो
किरातों के अधिपति, कृत्तिका हो तो कलिङ्ग देश के अधिपति और रोहिणी नक्षत्र हो तो
शूरसेन देश के स्वामी का नाश करता है।।५४।।
अश्विन्यामभिधूपितायां स्पृष्टायां वा केतुना। अश्मकपमश्मकानां जनानामधिपतिं राजानं
हन्यान्नाशयेत्। एवं भरणीषु किरातपार्थिवं किराताधिपतिं हन्यात्। बहुलासु कृत्तिकासु
कलिङ्गेशं कलिङ्गाधिपतिम्। रोहिण्यां शूरसेनपतिं शूरसेना जनास्तेषां पतिम्।।५४।।
अन्येष्वाह—
औशीनरमपि सौम्ये जलजाजीवाधिपं तथाऽऽर्द्रासु।
आदित्येऽश्मकनाथान् पुष्ये मगधाधिपं हन्ति।।५५।।
यदि केतु से धूपित या स्पृष्ट मृगशिरा हो तो उशीनर देश के स्वामी, आर्द्रा हो तो
मत्स्य देश के स्वामी, पुनर्वसु हो तो अश्मक देश के स्वामी और पुष्य हो तो मगधाधिपति
का नाश करता है।।५५।।
सौम्ये मृगशिरसि केतुनाभिधूपिते स्पृष्टे वा औशीनरमुशीनराधिपतिं हन्यात्। तथा
आर्द्रासु जलजाजीवाधिपं जलजा मत्स्यादयस्तैर्यै आजीवन्ति ते च जलजाजीवाः। ग्राम-
देशवासिन इत्यर्थः। तेषामधिपं नृपं हन्यात्। आदित्ये पुनर्वसावश्मकनाथानश्मकाधिपतीन्।
पुष्ये मगधाधिपं मागधं नृपं हन्ति।।५५।।
अन्येष्वाह—
असिकेशं भौजङ्गे पित्र्येऽङ्गं पाण्ड्यनाथमपि भाग्ये।
औज्जयिनिकमार्यम्णे सावित्रे दण्डकाधिपतिम्।।५६।।
यदि केतु से धूपित या स्पृष्ट आश्लेषा नक्षत्र हो तो असिकेश्वर, मघा हो तो अंगदेशाधिपति,
पूर्वाफाल्गुनी हो तो पाण्ड्यदेशाधिपति, उत्तराफाल्गुनी हो तो उज्जयिनी के पति और हस्त
नक्षत्र हो तो दण्डक वन के स्वामी का नाश होता है।।५६।।
भौजङ्गे आश्लेषायामसिकेशम्। असिका जनास्तेषामीशं पतिं हन्ति। पित्र्ये मघाया-
मङ्गाधिपतिम्। भाग्ये पूर्वफल्गुन्यां पाण्ड्यनाथम्। आर्यम्णे उत्तरफल्गुन्यामौज्जयिनिक-
मुज्जयिनीपतिम्। सावित्रे हस्ते दण्डकाधिपतिं दण्डकारण्यनाथं हन्ति।।५६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२३८ बृहत्संहिता
अन्येष्वाह—
चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत्तज्ज्ञः ।
काश्मीरककाम्बोजौ नृपती प्राभञ्जने न स्तः ॥५७॥
यदि केतु से धूपित या स्पृष्ट चित्रा नक्षत्र हो तो कुरुक्षेत्राधिपति का मरण केतूपघातज्ञ
पण्डित को कहना चाहिये तथा स्वाती नक्षत्र हो तो काश्मीर और कम्बोज देश के स्वामी
का नाश कहना चाहिये ।।५७।।
चित्रासु केतुनाभिधूपितासु स्पृष्टासु वा कुरुक्षेत्राधिपस्य मरणं वधम्। तज्ज्ञः केतूप-
घातज्ञः। समादिशेद्वदेत्। प्राभञ्जने स्वातौ काश्मीरककाम्बोजौ नृपती राजानौ न स्तो न
भवतः ।।५७।।
अन्येष्वाह—
इक्ष्वाकुरलकनाथश्च हन्यते यदि भवेद्विशाखासु ।
मैत्रे पुण्ड्राधिपतिर्ज्येष्ठासु च सार्वभौमवधः ॥५८॥
यदि केतु से धूपित या स्पृष्ट विशाखा नक्षत्र हो तो अलकाधिपति, अनुराधा हो तो
पुण्ड्राधिपति और ज्येष्ठा नक्षत्र हो तो सार्वभौम राजा का नाश होता है।।५८।।
विशाखासु यदि केतूपघातो भवेत्तदा इक्ष्वाकुनाथोऽलकनाथश्च हन्यते। इक्ष्वाकवो
जनाः। अलका नाम नगरी। तन्नाथो राजा। मैत्रेऽनुराधायां पुण्ड्राधिपतिर्हन्यते। ज्येष्ठासु च
सार्वभौमस्य राज्ञः कान्यकुब्जाधिपतेर्वधो मरणं भवति ।।५८।।
अन्येष्वाह—
मूलेऽन्ध्रमद्रकपती जलदेवे काशिपौ मरणमेति ।
यौधेयकार्जुनायनशिविचेद्यान् वैश्वदेवे च ॥५९॥
यदि केतु से धूपित या स्पृष्ट मूल नक्षत्र हो तो अन्ध्र और मद्रक देश के अधिपति,
पूर्वाषाढ़ा हो तो काशी के स्वामी और उत्तराषाढा नक्षत्र हो तो यौधेयक, अर्जुनायन, शिवि
और चैद्य देश के अधिपति का नाश होता है।।५९।।
मूले केतुनाभिधूपिते हते वा अन्ध्रपतिं मद्रकपतिं च हन्ति। जलदेवे पूर्वाषाढायां
काशिपः काश्यधिपतिर्मरणमेति प्राप्नोति। वैश्वदेवे उत्तराषाढायां यौधेयकः। अर्जुनायनः।
शिविः। चैद्यः। एतान्नृपतीन् हन्ति।।५९।।
अथान्येष्वाह—
हन्यात् केकयनाथं पाञ्चनदं सिंहलाधिपं वाङ्गम् ।
नैमिषनृपं किरातं श्रवणादिषु षट्स्विमान् क्रमश: ॥६०॥
यदि केतु से धूपित या स्पृष्ट श्रवण नक्षत्र हो तो केकय देश के स्वामी, धनिष्ठा हो तो
पञ्जाब के स्वामी, शतभिषा हो तो सिंहल देश के स्वामी, पूर्वाभाद्रपदा हो तो नैमिषारण्य के
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २३९
स्वामी और रेवती हो तो किरातों के स्वामी का नाश होता है।।६०।।
षट्सु श्रवणादिषु नक्षत्रेषु हतेषु षडिमान्नृपान् क्रमशः क्रमेण हन्यात्। तद्यथा—
श्रवणे हते कैकयनाथं केकयजनाधिपं हन्यात्। धनिष्ठासु पाञ्चनदं पञ्चनदाधिपतिम्।
शतभिषजि सिंहलाधिपतिम्। पूर्वभद्रपदायां वाङ्गं वङ्गाधिपतिम्। उत्तरभद्रपदायां नैमिषनृपं
नैमिषारण्याधिपतिम्। रेवत्यां किरातं किराताधिपतिं हन्यात्।।६०।।
अथ केतोर्विशेषमाह—
उल्काभिताडितशिखः शिखी शिवः शिवतरोऽतिदृष्टो यः।
अशुभः स एव चोलावगाणसितहूणचीनानाम् ।।६१।।
जो केतु उल्का से ताड़ित हो, वह शुभ करने वाला होता है। जो दृष्टियुक्त हो, वह
अतिशय शुभ करने वाला होता है; लेकिन वही केतु चोल, अवगाण, सितहूण और चीन
देश में स्थित मनुष्यों का अशुभ करने वाला होता है।।६१।।
यः शिखी केतुः। उल्काभिताडितशिखः। उल्कया अभिमुख्येन ताडिता हता शिखा
चूडा यस्य। स शिवः श्रेयस्करः। योऽतिदृष्ट उदितमात्र एव दृष्टः स शिवतरोऽतिशयेन
शुभप्रदः। स एव केतुरेवंविधश्चोलानामावगाणानां सितानां हूणानां चीनानां चाशुभोऽश्रेयस्करः
सर्व एव जनाः।।६१।।
अन्यद्विशेषमाह—
नम्रा यतः शिखिशिखाभिसृता यतो वा
ऋक्षं च यत् स्पृशति तत्कथितांश्च देशान्।
दिव्यप्रभावनिहतान् स यथा गरुत्मान्
भुङ्क्ते गतो नरपतिः परभोगिभोगान् ।।६२।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
केतुचाराध्याय एकादशः ।।११।।
केतु की शिखा जिस दिशा में नम्र हो, जिस दिशा में फैलती हो या जिस नक्षत्र में
स्पर्श करती हो, वहाँ पर स्थित अन्य भोगी जनों से भुक्त अत्यधिक पराक्रमों से निर्जित
ग्रामों को उसी तरह राजा लोग भोगते हैं, जैसे गरुड़ दिव्य प्रभाव से नष्ट उत्कृष्ट सर्पों के
अंगों का भोग करता है।।६२।।
इति 'विमला'हिन्दीटीकायां केतुचाराध्याय एकादशः ।।११।।
यतो यस्यां दिशि। शिखिशिखा केतुशिखा। नम्रा वक्रा। शिखिनः शिखा शिखिशिखा।
अभिसृता यतो वा। यस्यां दिशि। अभिसृता गन्तुं प्रवृत्ता। अथवा यदृक्षं नक्षत्रं स्पृशति
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२४० बृहत्संहिता
स्पर्शयति। तत्कथितांश्च देशान्। यस्यां दिशि शिखा नम्रा तत्र ये देशाः। यस्यां वा गन्तुं
प्रवृत्ता तत्र ये देशा यन्नक्षत्रं स्पृशन्ति तस्य च नक्षत्रस्य ये देशा वक्ष्यमाणास्तान् कथितां-
स्तदुक्तान् देशान् नरपती राजा गतो भुङ्क्ते स्वीकरोति। कीदृशान् देशान्? दिव्यप्रभावनिहतान्।
दिव्येनाप्रतिहतेन प्रभावेण विक्रमेण निहतान् निर्जितान्। कीदृशान्? परभोगिभोगान्।
परैरन्यैर्भोगिभिर्भुज्यन्ते ये भोगा ग्रामास्तान्। कथं स राजा भुङ्क्ते? यथा गरुत्मान् गरुडो
दिव्यप्रभावनिहतान् परभोगिभोगान् भुङ्क्ते। परा उत्कृष्टा ये भोगिनः सर्पास्तेषां भोगाः शरीराण्यु-
ङ्गानि वा तान्। यथा येन प्रकारेण। तथा तेन प्रकारेणेति। तथा च पराशरः—
यस्यां दिशि समुत्तिष्ठेत्तां दिशं नाभियोजयेत्।
यतः शिखा यतो धूमस्ततो यायान्नराधिपः।।
प्रतिलोमे यतः केतोर्जयार्थी याति पार्थिवः।
सामात्यवाहनबलः स नाशमधिगच्छति।।
दृष्ट्वा षोडश वासरान्नशुभदः कैचित् प्रदिष्टः शिखी
सर्वारम्भफलप्रदो हि नियतं चैत्रेऽथवा माधवे।
ऋक्षं यत्परिभुक्तपीडितहतं यच्चाऽऽशिखाभेदितं
तत्सर्वं परिवर्ज्य शुद्धमपरं पाणिग्रहे वास्तुषु।। इति।।६२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
केतुचारो नामैकादशोऽध्यायः ॥११॥
अथागस्त्यचाराध्यायः
( अगस्त्यमुनिवर्णनम्—
भानोर्वर्त्मविघातवृद्धशिखरो विन्ध्याचलः स्तम्भितो
वातापिर्मुनिकुक्षिभित् सुररिपुर्जीर्णश्च येनासुरः ।
पीतश्चाम्बुनिधिस्तपोम्बुनिधिना याम्या च दिग्भूषिता
तस्यागस्त्यमुनेः पयोद्युतिकृतश्चारः समासादयम्¹ ॥
सूर्य के मार्ग को रोकने के लिये बढ़े हुये शिखर वाले विन्ध्याचल पर्वत को जिन्होंने
रोक लिया, मुनियों के पेट को फाड़ने वाला और देवताओं के शत्रु वातापी राक्षस को
जिन्होंने पचा डाला, समुद्र को जिन्होंने पी लिया और तपोरूप समुद्र से दक्षिण दिशा को
जिन्होंने भूषित किया, जल राशि को निर्मल करने वाले उन अगस्त्य मुनि का संक्षेप से
यहाँ वर्णन किया जाता है। )
अथागस्त्यचारो व्याख्यायते। तत्रादावेवागस्त्यस्य मुनेः प्राधान्यद्वारेण समुद्रशोभा-
मुपवर्णयितुमाह—
समुद्रोऽन्तः शैलैर्मकरनखरोत्खातशिखरैः
कृतस्तोयोच्छित्त्या सपदि सुतरां येन रुचिरः ।
पतन्मुक्तामिश्रैः प्रवरमणिरत्नाम्बुनिवहैः
सुरान् प्रत्यादेष्टुं मितमुकुटरत्नानिव पुरा ॥१॥
पहले तत्क्षण जलप्रवाह से, मकर के नखों से उत्पाटित शिखर वाले अन्तर्गत पर्वतों
से तथा परिमित रत्नों से युत मुकुट वाले देवताओं को तिरस्कार करने के लिये इधर-उधर
अनेक पतित मुक्ताओं से मिश्रित श्रेष्ठ मणि और रत्नों से युत जलप्रवाहों से समुद्र को
जिन्होंने अतिशय सुन्दर बनाया।।१।।
येन भगवताऽगस्त्यमुनिना। पुरा पूर्वम्। तोयोच्छित्त्या जलापहरणेन। सपदि तत्क्षणमेव।
समुद्रः सागरः। सुतरामतिशयेन। रुचिरो रम्यः। कृतः सम्पादितः। तस्य मुनेरुदयः
श्रूयतामिति वक्ष्यमाणेन सम्बन्धः। रम्यः कैः कृतः ? अन्तःशैलैः। अन्तर्मध्ये ये स्थिता
मैनाकप्रभृतयः शैलाः पर्वतास्तैः। ते किलेन्द्रभयात्तत्र पूर्वं प्रविष्टाः। कीदृशैः ? मकरनखरो-
त्खातशिखरैः। मकरा जलप्राणिविशेषाः। तेषां ये नखाः कठिनत्वात् त एव नखराः।
तैर्मकरनखरैरुत्खातानि शिखराणि येषां तैः। ते किल कण्डूमपनेतुं परुषत्वात्तान्युत्खनन्ति।
तथा यः समुद्रः सुरान् देवान्। प्रत्यादेष्टुं प्रत्याख्यातुमभिभवितुमिव दृष्टान्तीकर्तुमिव।
१. श्लोकोऽयं भट्टोत्पलटीकायामव्याख्यातत्वादिदं प्रतीयते प्रक्षिप्त इति।
बृ० भ० प्र०-१६
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२४२ वृहत्संहिता
कीदृशान् सुरान् ? मितमुकुटरत्नान्। मितानि परिमितानि मुकुटेषु मौलिषु रत्नानि येषां
तान्। तथाभूतान्। कैः प्रत्यादेष्टुमिव? पतन्मुक्तामिश्रैः प्रवरमणिरत्नाम्बुनिबहैः। अम्बु-
निबहैः पानीयौघैः। कीदृशैः ? पतन्मुक्तामिश्रैः पतन्तीभिर्मुक्ताभिर्मिश्रास्तैः। तथा प्रवराणि
विकचानि च तानि मणिरत्नानि प्रधानरत्नानि। प्रवरमणिरत्नानि चाम्बुनिवहाश्च प्रवरमणि-
रत्नाम्बुनिवहास्तैः ।।१।।
अन्यदप्याह—
येन चाम्बुहरणेऽपि विद्रुमैर्भूधरैः समणिरत्नविद्रुमैः ।
निर्गतैस्तदुरगैश्च राजितः सागरोऽधिकतरं विराजितः ॥२॥
जिस अगस्त्य मुनि के द्वारा अपहृत जल वाला होने पर भी मणि, रत्न और प्रवालों
से युत, वृक्ष तथा पंक्ति से पृथक् स्थित सर्पों से रहित पर्वतों के कारण समुद्र अतिशय
शोभित हुआ है।।२।।
येनागस्त्यमुनिना। अम्बुहरणे जलापहरणे कृतेऽपि सति सागरः समुद्रः। अधिक-
तरमतिशयेन विराजितः शोभितः। कैः ? भूधरैः पर्वतैः। कीदृशैः? विद्रुमैः। विगता द्रुमा
वृक्षा येभ्यस्तैः। वृक्षरहितैः। जलमध्यगतत्वात्तेषु वृक्षाः क्लिन्ना यतः। तथा समणिरत्न-
विद्रुमैः। मणिरत्नैः प्रधानरत्नैर्विद्रुमेण प्रवालेन सह वर्तन्ते ये तैः। निर्गतैस्तदुरगैश्च।
तदिति भूधराणां पराशर्मः। तदुरगैः। तेभ्यः पर्वतेभ्यो ये उरगाः सर्पा निर्गता निष्क्रान्तास्तैः।
कथं च ते निर्गताः ? राजितः पङ्क्तितस्तैस्तथाभूतैः ।।२।।
अन्यदाह—
प्रस्फुरत्तिमिजलेभजिह्मगः क्षिप्तरत्ननिकरो महोदधिः ।
आपदां पदगतोऽपि यापितो येन पीतसलिलोऽमरश्रियम् ॥३॥
अगस्त्य मुनि के द्वारा अपहृत जल वाला होने के कारण विपत्तिग्रस्त होने पर भी
समुद्र ने जलाभाव के कारण चञ्चल मत्स्य, जलहस्ती, सर्प तथा इधर-उधर बिखरे हुये
रत्न और मणियों से सुशोभित होकर स्वर्गीय शोभा प्राप्त की ।।३।।
येन महोदधिः समुद्रः। आपदां पदगतोऽपि विपदां स्थानं प्राप्तोऽपि। पीतसलिलः
पीतजलोऽपि। अमरश्रियं सुरलक्ष्मीम्। यापितः प्रापितः। कीदृशः ? प्रस्फुरत्तिमिजलेभ-
जिह्मगः। प्रस्फुरन्तस्तिमयश्चलन्तो मत्स्याः। जलेभा जलहस्तिनः। जिह्मगाः सर्पा यस्मिन्।
जिह्मं कुटिलं गच्छन्तीति जिह्मगाः। एते जलप्राणिनो जलाभावात् प्रस्फुरन्ति। तथा क्षिप्त-
रत्ननिकरः क्षिप्तः परिक्षिप्तो रत्नानां मणीनां निकरः समूहो यस्मिन्। तथा सुरलोकः
प्रस्फुरत्तिमिजलेभजिह्मगः। प्रस्फुरन्तश्चलन्तो ये सुरास्तिमिजलेभजिह्मगाः। तिमिगा मत्स्य-
वाहनाः केचित्। यथा वितस्ता नदी। केचिज्जलगाः पानीयस्थाः। यथा समुद्रे भगवात्रा-
रायणः। केचिद्दिभगा हस्तिनो गताः। यथेन्द्र ऐरावतस्थः। केचिज्जिह्मं कुटिलं गच्छन्तीति
जिह्मगाः कुटिलगतयः। यथा भौमादयस्ताराग्रहा वक्रिताः। तथा क्षिप्तरत्ननिकरः सोऽपि।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
अगस्त्यचाराध्यायः २४३
अथान्यदाह—
प्रचलत्तिलिशुक्तिजशङ्खचितः सलिलेऽपहृतेऽपि पतिः सरिताम् ।
सतरङ्गसितोत्पलहंसभृतः सरसः शरदीव बिभर्ति रुचिम् ॥४॥
जल नष्ट होने पर भी चलित मत्स्य, शुक्ति और शंख से युत समुद्र शरद् ऋतु में
तरंग, श्वेत कुवलय और हंस से युत सरोवर की शोभा धारण करता है ( यहाँ पर चलित
मत्स्य = तरंग, शुक्ति = श्वेत कुवलय, शंख = हंस है ) ॥४॥
सरितां नदीनाम्। पतिः प्रभुः समुद्रः। सलिले जलेऽपहृतेऽपि सति। शरदि शरत्काले।
सरसो महोदकाधारस्य सम्बन्धिनीं रुचिं दीप्तिम्। बिभर्ति धारयति इव। कीदृशस्य
सरसः? सतरङ्गसितोत्पलहंसभृतः। सतरङ्गानि तरङ्गेण वीचिसमूहेन सहितानि सितोत्प-
लानि श्वेतकुवलयानि पुष्पविशेषान् हंसान् पक्षिविशेषांश्च बिभर्ति धारयति यत् तस्य।
समुद्रः कीदृशः? प्रचलत्तिलिशुक्तिजशङ्खचितः। प्रचलद्भिस्तिमिभिर्मत्स्यैः। शुक्तिजैः प्राणिभिः
शङ्खैश्च चितो व्याप्तः। प्रचलन्तो मत्स्यास्त एव तरङ्गाः। शुक्तिजाः सितोत्पलानि। शङ्खा
हंसा इति॥४॥
अथान्यत्—
तिमिसिताम्बुधरं मणितारकं स्फटिकचन्द्रमनम्बुशरद्द्युतिः ।
फणिफणोपलरश्मिशिखिग्रहं कुटिलगेशवियच्च चकार यः ॥५॥
मत्स्यरूप मेघ, मणिरूप तारा, स्फटिक मणिरूप चन्द्र, जलाभावरूप शारदीय द्युति
और सर्पों के फणा पर स्थित मणि ( चन्द्रकान्त, सूर्यकान्त आदि ) के किरणरूप केतु ग्रह
हैं, जिसमें ऐसे कुटिलगेश ( समुद्र ) को जिन्होंने बना दिया ॥५॥
यः कुटिलगेशं समुद्रम्। वियदाकाशम्। चकार कृतवान्। कुटिलमस्पष्टं गच्छन्तीति
कुटिलगा नद्यः। तासामीशं स्वामिनम्। तिमयो मत्स्याः। त एव सिताः शुक्ला अम्बुधरा
मेघा यस्मिन् तत्तथाभूतम्। मणयो रत्नानि तान्येव दीप्तिमत्त्वात्तारका यस्मिन्। स्फटिको
मणिविशेषः। स एव स्थूलत्वाच्चन्द्रः शशी यस्मिन्। अनम्बु जलाभावः। तदेव शरद्द्युतिः
शरत्कान्तिः। अभिव्यक्तत्वाद्यस्मिन्। फणिफणोपलरश्मिशिखिग्रहम्। फणिनः सर्पाः। तेषां
फणासु मूर्धसु यान्युपला रत्नानि चन्द्रकान्तसूर्यकान्तप्रभृतीनि। तेषु ये रश्मयः। त एव
तत्सदृश वाच्छिखिग्रहाः केतवो यस्मिन्। यत आकाश एत एव सम्भवन्तीति ॥५॥
अथ समुद्रवर्णनानन्तरं विन्ध्यवर्णनामाह—
दिनकररथमार्गविच्छित्तयेऽभ्युद्यतं यच्चलच्छृङ्ग-
मुद्भ्रान्तविद्याधरांसावासक्तप्रियाव्यग्रदत्ताङ्गदेहाव-
लम्बाम्बरात्युच्छ्रितोद्धूयमानध्वजैः शोभितम् ।
करिकटमदमिश्ररक्तावलेहानुवासानुसारि-
द्विरेफावलीनोत्तमाङ्गैः कृतन् बाणपुष्पैरिवोत्तंसकान्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२४४ बृहत्संहिता
धारयद्भिर्मृगेन्द्रैः सनाथीकृतान्तर्दरीनिर्झरम्।
गगनतलमिवोल्लिखन्तं प्रवृद्धैर्गजाकृष्टफुल्लद्रुम-
त्रासविभ्रान्तमत्तद्विरेफावलीहृष्टमन्द्रस्वनैः
शैलकूटैस्तरक्ष्वृक्षशार्दूलशाखामृगाध्यासितैः ।
रहसि मदनसक्तया रेवया कान्तयेवोपगूढं सुराध्या-
सितोद्यानमम्भोऽशनानन्नमूलानिलाहारविप्रान्वितं
विन्ध्यमस्तम्भयद्यश्च तस्योदयः श्रूयताम् ॥६॥
सूर्य के मार्ग को रोकने के लिये उन्नत होने में कम्पायमान शृङ्ग होने से भयभीत,
विद्याधर के कन्धे में सक्त और व्यग्र विद्याधरी गण से दिये हुये विद्याधर के शरीर में लगे
हुये कम्पायमान और अत्युन्नत ध्वजरूप वस्त्र से शोभित, हस्ती के मद से युक्त रक्त के
आस्वादन से उत्पन्न सुगन्धि को खोजने में उद्यत भ्रमरगणों से युक्त शिर वाले मानो
बाणपुष्पों से रचित शिरोमाला धारण करने वाले सिंहों से युक्त गुहागत निर्झर वाला, बढ़े
हुये गजों से आकृष्ट होने पर कम्पित प्रफुल्लित वृक्षों पर चञ्चल और आनन्द से मधुर शब्द
करते हुये भ्रमरपंक्ति वाले तथा वन के अश्व, भालू, व्याघ्र और वानरों से युत पर्वतशृङ्गों से
मानो आकाश को उल्लिखित करता हुआ, निर्जन स्थान में मदनवृक्ष से युक्त होने के
कारण मानो मदनातुर प्रिया—रेवा नदी से युक्त, देवताओं से सेवित उद्यान
अगस्त्यचाराध्यायः २४५
उत्तमाङ्गेषु शिरःसु येषां तैः सिंहैः। बाणपुष्पैर्बाणकुसुमैः कृतान् रचितान्। उतंसकान्
शिरोमाला धारयद्भिरिव।
गगनतलमिति। शैलकूटैः पर्वतशृङ्गैः। गगनतलमाकाशतलम्। उल्लिखन्तमिव।
कीदृशैः शैलकूटैः? प्रवृद्धैर्वृद्धिमद्भिः। गजैर्हस्तिभिः। आकृष्ट आकर्षिताः फुल्लाः
कुसुमिता ये द्रुमा वृक्षास्तैर्यस्त्रासः कम्पः, तस्माद्ये विभ्रान्ता भ्रान्तिमापन्ना मत्तद्विरेफा
भ्रमराः, तेषामावली पङ्क्तिः। तस्या हृष्टाया ये मन्द्रा मधुराः स्वनाः शब्दाः। ते विद्यन्ते
येषां तैस्तथाभूतैः शैलकूटैः। अत्र भ्रमरपङ्क्तिर्वर्णपङ्क्तिरिव। तथा तग्क्षैर्वनश्वभिः। ऋक्षै-
र्वानरैः प्राणिविशेषैर्वा। शार्दूलैः सिंहजातिभिः। शाखामृगैर्मर्कटैः। अध्यासिताः सेविता
ये शैलकूटास्तैः।
रहसीति। कीदृशं विन्ध्यम्? रहसि निर्जने। रेवया मदनसक्तया कान्तया वल्लभया
कामिन्येवोपगूढं परिष्वक्तम्। रेवा नर्मदा। यतः सा तत्रैव बहुशो गता। सा च मदनसक्ता।
मदनवृक्षावृतत्वादिति। सुरैर्देवैरध्यासितानि निषेवितानि, उद्यानानि उपवनानि यस्मिन्।
तथाम्भोऽशनैर्जलाहारैः। अनन्नैर्निराहारैः। मूलाहारैर्मूलभक्षैः। अनिलाहारैर्वायुभक्षैश्च। विप्रै-
र्ब्राह्मणैर्मुनिभिरन्वितं संयुक्तं विन्ध्यम्।।६।।
तथाऽगस्त्योदयप्रभावमाह—
उदये च मुनेरगस्त्यनाम्नः कुसमायोगमलप्रदूषितानि।
हृदयानि सतामिव स्वभावात् पुनरम्बूनि भवन्ति निर्मलानि ॥७॥
जिस तरह खलों की सङ्गति-रूप मल से दूषित हृदय वाला मनुष्य भी सज्जनों के
दर्शन से निर्मल हृदय वाला हो जाता है, उसी तरह वर्षा ऋतु में कीचड़ मिला हुआ जल
भी अगस्त्य मुनि के दर्शन से निर्मल हो जाता है।।७।।
अगस्त्यनाम्नो मुनेरुदये उद्गमे। पुनर्भूयः। अम्बूनि पानीयानि। स्वभावात् प्रकृत्यैव।
निर्मलानि प्रसन्नानि भवन्ति। कीदृशानि? कुसमायोगमलप्रदूषितानि। कोर्भूम्याः समायोगः
संश्लेषः कुसमायोगः। तस्मात् कुसमायोगाद्यन्मलं पङ्कः। तेन प्रदूषितानि दुष्टानि यानि
तान्यगस्त्यदर्शनान्निर्मलानि भवन्ति। वर्षासु कुसमायोगस्तेषाम्। यथा सतां साधूनां
उदये दर्शने हृदयानि पुनर्निर्मलानि भवन्ति। कीदृशानि? कुसमायोगमलप्रदूषितानि।
कुत्सितैर्जनैर्योऽसौ समायोगस्तस्माद्यन्मलं पापं तेन प्रदूषितानि दुष्टानि। पुनः स्वभावदेव
निर्मलानि भवन्ति। साधुदर्शनात् पापक्षय उत्पद्यते यावत्।।७।।
अथ विन्ध्यवर्णनानन्तरं शरद्वर्णनमाह—
पार्श्वद्वयाधिष्ठितचक्रवाकामापुष्णाती सस्वनहंसपङ्क्तिम्।
ताम्बूलरक्तोत्कषिताग्रदन्ती विभाति योषेव शरत् सहासा ॥८॥
ताम्बूल से रक्त ओठों के मध्य विराजमान दन्तपंक्ति वाली, हास्ययुत स्त्री की तरह
दोनों पार्श्वों में स्थित लाल वर्ण के चक्रवाकों के मध्य शब्दायमान हंसपंक्ति से विराजमान
नदियों के द्वारा शरद् ऋतु शोभित है।।८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA