सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 276, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 276

२३६ बृहत्संहिता
पश्चिम दिशा में सन्ध्याकाल में आकाश के तीसरे भाग तक जाकर दिखाई देने वाला
धूम्र या ताम्र वर्ण की तीन शिखा वाला संवर्त्त केतु है। यह जितने क्षण तक दिखाई देता
है, उतने वर्ष तक युद्ध के द्वारा राजाओं का नाश करता है; साथ ही उदयकालिक नक्षत्र को
पीड़ित करता है॥५१-५२॥
पश्चात् पश्चिमायां दिशि। सन्ध्याकाले सन्ध्यासमये। संवर्तो नाम केतुः। कीदृशः ?
धूम्रताम्रशिखः। धूम्रा ताम्रवर्णा च शिखा चूडा यस्य। वियत आकाशस्य त्र्यंशं तृतीय-
भागमाक्रम्य प्राप्य दृश्यते। शूलाग्रावस्थितः। शूलमग्रे शिरस्यवस्थितं यस्य। त्रिचूड
इत्यर्थः। स च रौद्रो भयावहः।
स च केतुर्यावतो मुहूर्तान् दृश्यो भवति तावत्संख्यानि वर्षाणि हन्ति नाशयति।
अशुभफलप्रदो भवतीत्यर्थः। तथा भूपान् नृपान्। शस्त्रनिपातैः संग्रामैर्हन्ति नाशयति। तथो-
दयर्क्षम्। यस्मिन्नक्षत्रे उदितो दृश्यते तच्च पीडयत्युपतापयति। तथा च पराशरः—
'अथ संवर्तो वर्षसहस्रमष्टोत्तरं प्रोष्य पश्चिमेनास्तं गते सवितरि सन्ध्यायां दृश्यते
तन्वीं ताम्ररूक्षां शूलाभां धूम्रं विमुञ्चन्तीं दारुणां शिखां कृत्वा नभसस्त्रिभागमाक्रम्य। स
यावन्मुहूर्तान् निशि तिष्ठति तावद्वर्षाणि परस्परं शस्त्रैर्ध्नन्ति पार्थिवाः। यानि नक्षत्राणि
धूपयति यत्र चोदेति तानि दारुणतरं पीडयति। तदाश्रितांश्च देशानि'ति। तथा च—
येषां नक्षत्रविषये रूक्षः सज्ज्वललोहितः।
दृश्यते बहुमूर्तिश्च तेषां विन्द्यान्महाभयम् ।।
अवर्षं शस्त्रकोपं च व्याधिं दुर्भिक्षमेव च।
कुर्यान्नृपतिपीडाश्च स्वचक्रपरचक्रतः ।।
यत्रोत्तिष्ठति नक्षत्रे प्रवासं यत्र गच्छति।
धूपयेद्वा स्पृशेद्वापि हन्याद्देशांस्तदाश्रितान् ।।
यस्याभिषेकनक्षत्रं जन्मभं कर्मभं तथा।
देशर्क्षं पीडयेद्वापि स शान्त्युपरमो भवेत् ।।
स्निग्धः प्रसन्नो विमलः प्रदक्षिणशिखस्तथा।
दृश्यते येषु देशेषु शिवं तेषु विनिर्दिशेत् ।।
गगनाङ्कचरः सद्यः प्रधानदेशान् विनाशयेदचिरात्।
निखिलगगनानुचारी त्रैलोक्यविनाशकः केतुः ।। इति ।। ५१-५२ ।।
अथ शुभान् केतून् वर्जयित्वाऽशुभानां नक्षत्रस्पर्शधूपनाद् दुष्टफलं वक्ष्यामीत्याह—
ये शास्तास्तान् हित्वा केतुभिरधूपितेऽथवा स्पृष्टे ।
नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ॥५३॥
शुभ केतुओं को छोड़कर अन्य केतुओं से धूपित या स्पृष्ट नक्षत्र होने पर जिन-जिन
राजाओं का नाश होता है, उनको अब कहते हैं॥५३॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA