सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 280, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 280

२४० बृहत्संहिता
स्पर्शयति। तत्कथितांश्च देशान्। यस्यां दिशि शिखा नम्रा तत्र ये देशाः। यस्यां वा गन्तुं
प्रवृत्ता तत्र ये देशा यन्नक्षत्रं स्पृशन्ति तस्य च नक्षत्रस्य ये देशा वक्ष्यमाणास्तान् कथितां-
स्तदुक्तान् देशान् नरपती राजा गतो भुङ्क्ते स्वीकरोति। कीदृशान् देशान्? दिव्यप्रभावनिहतान्।
दिव्येनाप्रतिहतेन प्रभावेण विक्रमेण निहतान् निर्जितान्। कीदृशान्? परभोगिभोगान्।
परैरन्यैर्भोगिभिर्भुज्यन्ते ये भोगा ग्रामास्तान्। कथं स राजा भुङ्क्ते? यथा गरुत्मान् गरुडो
दिव्यप्रभावनिहतान् परभोगिभोगान् भुङ्क्ते। परा उत्कृष्टा ये भोगिनः सर्पास्तेषां भोगाः शरीराण्यु-
ङ्गानि वा तान्। यथा येन प्रकारेण। तथा तेन प्रकारेणेति। तथा च पराशरः—
यस्यां दिशि समुत्तिष्ठेत्तां दिशं नाभियोजयेत्।
यतः शिखा यतो धूमस्ततो यायान्नराधिपः।।
प्रतिलोमे यतः केतोर्जयार्थी याति पार्थिवः।
सामात्यवाहनबलः स नाशमधिगच्छति।।
दृष्ट्वा षोडश वासरान्नशुभदः कैचित् प्रदिष्टः शिखी
सर्वारम्भफलप्रदो हि नियतं चैत्रेऽथवा माधवे।
ऋक्षं यत्परिभुक्तपीडितहतं यच्चाऽऽशिखाभेदितं
तत्सर्वं परिवर्ज्य शुद्धमपरं पाणिग्रहे वास्तुषु।। इति।।६२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
केतुचारो नामैकादशोऽध्यायः ॥११॥