बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 275, कुल 728 में से
संदर्भ में पढ़ेंकेतुचाराध्यायः २३५
वधाय। तेषामष्टानां कर्मण्यतीते 'भवकेतुर्दृश्यते पूर्वेणैकरात्रम्। या कृत्तिकानामग्रतमा तारा
तत्प्रमाणया स्निग्धयाऽरूक्षाभया सिंहलाङ्गूलसंस्थानया प्रदक्षिणनताग्रया शिखयोदितः।
स यावन्मुहूर्तान् दृश्यते तावन्मासान् भवत्यतीव सुभिक्षाय। रूक्षः प्राणहराणां रोगाणां
प्रादुर्भावायेति'।।४७-४८।।
अथ पद्मकेतोर्लक्षणमाह—
अपरेण पद्मकेतुर्मृणालगौरो भवेन्निशामेकाम्।
सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि ॥४९॥
पूर्व दिशा में केवल एक रात्रि में दिखाई देने वाला मृणाल की तरह गौर पद्म केतु है।
यह उदित हो तो सात वर्ष तक सुभिक्ष और लोगों में आनन्द-मंगल करता है।।४९।।
पद्मकेतुर्नाम केतुः। अपरेण पश्चिमायां दिशि निशां रात्रिमेकां दृश्यते। कीदृशः?
मृणालगौरः, मृणालवद् गौरो मृणालगौरः। मृणालं बिसतन्तु। तद्वद् गौरः। श्वेत इत्यर्थः।
स तु दृष्टः सप्त वर्षाण्यतिहर्षयुक्तानि सुभिक्षं करोति। तथा च पराशरः—
'अथ पद्मकेतुः श्वेतकेतुफलसमाप्तौ पश्चिमेनाह्लादयन्निव मृणालकुमुदाभया शिखयैक-
रात्रचरः। सप्त वर्षाण्यभ्युच्छ्रितं हर्षमावहति जगतः'।।४९।।
अथावर्तकेतोर्लक्षणमाह—
आवर्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः।
यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः ॥५०॥
पश्चिम दिशा में रात्र्यर्ध समय में उदित होने वाला, दक्षिणस्थ शिखा वाला, रक्तवर्ण,
निर्मल शरीर वाला आवर्त केतु है। यह जितने क्षण तक दिखाई देता है, उतने मास तक
सुभिक्ष करता है।।५०।।
आवर्तनामेति यः केतुः स निशार्धे रात्र्यर्धे। अपरे पश्चिमायां दिशि। सव्यशिखो
दक्षिणदिगाश्रितशिखः। अरुणनिभो रक्तवर्णः। स्निग्धो निर्मलवपुर्दृश्यते। स तु यावत्क्षणान्
यावत्संख्यान् मुहूर्तान् दृश्यते तावन्मासान् सुभिक्षं करोति। तथा च पराशरः—
'अथावर्तकेतुः श्वेतकेतोः कर्मण्यतीतेऽपरस्यामर्द्धरात्रे शङ्खावदातोऽरुणाभया प्रदक्षिणन-
ताग्रया शिखयोदितः। स यावन्मुहूर्तान् दृश्यते तावन्मासान् भवत्यतीव सुभिक्षं नित्य-
यज्ञोत्सवं जगत्'।।५०।।
अथ संवर्तकेतोर्लक्षणमाह—
पश्चात् सन्ध्याकाले संवर्तो नाम धूम्रताम्रशिखः।
आक्रम्य वियत्त्र्यंशं शूलाग्रावस्थितो रौद्रः ॥५१॥
यावत एव मुहूर्तान् दृश्यो वर्षाणि हन्ति तावन्ति।
भूपान् शस्त्रनिपातैरुदयर्क्षं चापि पीडयति ॥५२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA