बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 274, कुल 728 में से
संदर्भ में पढ़ें२३४ बृहत्संहिता
प्रभृत्यर्द्धपञ्चमान् मासान् क्षेमसुभिक्षमुत्पादयति। क्षुद्रजन्तूनां प्रादुर्भावं करोत्यतिमात्र-
कालदृष्टः'।।४४-४५।।
अथ जलकेतोर्लक्षणमाह—
जलकेतुरपि च पश्चात् स्निग्धः शिखयापरेण चोन्नतया ।
नव मासान् स सुभिक्षं करोति शान्तिं च लोकस्य ॥४६॥
पश्चिम दिशा में दिखाई देने वाला, निर्मल और पश्चिमोन्नत शिखा वाला जलकेतु है।
यह उदित हो तो नव मास तक सुभिक्ष और लोगों का कुशल करता है।।४६।।
जलकेतुर्नाम केतुः सोऽपि पश्चात् पश्चिमायां दिशि दृश्यते। स्निग्धो निर्मलदेहः।
अपरेण पश्चिमेन। चोन्नतया उच्चया शिखया चूडया युक्तः। स च दृष्टो नव मासान्
यावत् सुभिक्षं करोति। लोकस्य जनपदस्य च शान्तिं श्रेयः करोति। तथा च पराशरः—
'अथ जलकेतुः पैतामहजस्य जलकेतोर्नवमासावशिष्टे कर्मणि कृतं प्रवर्तयति।
पश्चिमेनोदितः स्निग्धः सुजातोऽनुपश्चिमाभिनतशिखः। स च नव मासान् क्षेमसुभिक्षारोग्याणि
प्रजाभ्यो धत्ते। अन्यग्रहकृतानां चाशुभानां व्याघाताये'ति।।४६।।
अथ भवकेतोर्लक्षणमाह—
भवकेतुरेकरात्रं दृश्यः प्राक् सूक्ष्मतारकः स्निग्धः ।
हरिलाङ्गूलोपमया प्रदक्षिणावर्तया शिखया ॥४७॥
यावत एव मुहूर्तान् दर्शनमायाति निर्दिशेन्मासान् ।
तावदतुलं सुभिक्षं रूक्षे प्राणान्तिकान् रोगान् ॥४८॥
पूर्व दिशा में केवल एक रात्रि में दिखाई देने वाला, सूक्ष्म तारा से युत और सिंह की
पूँछ की तरह दक्षिणावर्त शिखा से युत भव केतु है। यह निर्मल मूर्ति का होकर जितने क्षण
तक दिखाई देता है, उतने मास तक सुभिक्ष और रूक्ष मूर्ति का होकर जितने क्षण तक
दिखाई देता है, उतने मास तक प्राणान्तक रोग की उत्पत्ति करता है।।४७-४८।।
भवकेतुर्नाम केतुः स च प्राक् पूर्वस्यां दिशि एकरात्रमेकां निशां दृश्यः। सूक्ष्मतारकः
सूक्ष्मोऽत्यल्पस्तारको यस्य। स्निग्धो निर्मलदेहः। अन्यत्र शिखयोपलक्षितः। कीदृश्या?
हरिलाङ्गूलोपमया प्रदक्षिणावर्तया। हरिः सिंहस्तस्य लाङ्गूलं पुच्छस्तदुपमया तदाकारया
प्रदक्षिणेनावर्त्तो यस्यास्तथाभूतया।
स च यावत एव मुहूर्तान् यावत्संख्यान् क्षणान् दर्शनमायाति दृश्यते तावन्मा-
सानतुलमसमं सुभिक्षं निर्दिशेद्बदेद्यदि स्निग्धः। रूक्षे तु पुनः प्राणान्तिकान् रोगान् गदान्
वदेत्। तथा च पराशरः—
'अथ जलकेतोः कर्मसमाप्तावूर्म्वादयः शीतान्ता अष्टौ प्रादुर्भवन्ति। ते त्रयोदश-
चतुर्दशाष्टादशवर्षान्तरिता दृश्यन्ते। स्निग्धाः सुभिक्षक्षेम्या विपर्ययाः विपरीताः। क्षुद्रजन्तूनां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA