भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
- १६७ -
अपि¹ पूर्वजन्मनि पुत्रो जातो वां कपिलाह्वयः ।
ज्ञानशक्त्यैव सम्पन्नो न त्वनेन स्वरूपतः ॥ १४ ॥
ज्ञानक्रियोभययुतं स्वरूपमिदमद्भुतम् ।
कथं वां पुत्रभावेन प्राप्नुयादितरार्भवत् ॥ १५ ॥
अयमप्युदितो भावो वैकल्यमपि नैष्यति ।
तस्मादागन्तुके कल्पे युवां सारस्वताभिधे ॥ १६ ॥
अपि मां पुत्रभावेन प्राप्स्यथः पुरुषोत्तमम् ।
मुक्तौ लीलातनुं धृत्वा पितृभावेन भावितौ ॥ १७ ॥
प्राप्स्यथः परमं सौख्यं माङ्गल्यासुखिताभिधौ ।
तावद्युवां परं भावं वात्सल्यरसरञ्जितम् ॥ १८ ॥
मयि जुष्टं वितनुतामेतद्वां परमं तपः ।
अनेन भावरूपेण तपसानन्यगामिना ॥ १९ ॥
अचिरादेव वै पूर्णो भविता वां मनोरथः ।
इति दत्त्वा वरं त
बान्धवा निधनं प्राप्तास्तस्याः कालक्रमेण वै।
पितृभ्रातृमुखाः सर्वे सानूढैव वयोन्विता ॥ २८ ॥
वेश्याभिस्तु कृता वेश्या नित्यमुद्विग्नमानसा।
शोचन्ती स्वकुलं भूयः परहस्तगतावशा ॥ २९ ॥
अहो मे क गता माता क च योनिप्रदः पिता।
क वा भ्रात्रादयः सर्वे हा धात्रा भ्रंशितास्म्यहम् ॥ ३० ॥
किं करोमि क गच्छामि वेश्याहस्तगतावशा।
अपि मे कापि भूयोऽपि लप्स्यते कुलमुज्ज्वलम् ॥ ३१ ॥
धिगीदृशीमवस्थां मे देहान्तश्च कथं भवेत्।
इति चिन्तासमायुक्ता सोद्वेगतरमानसा ॥ ३२ ॥
अकुर्व्वती जनैः संग स्वरविद्यामशिक्षयत्।
गन्धर्वैः कुशलैस्तत्र नानादेशसमागतैः ॥ ३३ ॥
नृत्यविद्यामशिक्षच्च गायनैर्नृत्यकारिभिः।
इत्येवं वर्त्तमाना सा पुरुषैः संगवर्जिता ॥ ३४ ॥
तां विद्यां जीवनीकृत्य निजवृत्तिमकल्पयत्।
कुलस्त्रीणां गतिं दृष्ट्वा तुतोष च मुमोद च ॥ ३५ ॥
ततः कालवशात्सा वै जरती पञ्चतां गता।
ब्रह्मावर्ते सम्भवत् कन्यका नन्दशर्मणः ॥ ३६ ॥
आख्यया सुभगा नाम रामभक्तिपरायणा।
अतीवरूपलावण्यवेशालंकारभूषिता ॥ ३७ ॥
तस्या मातोर्जला नाम महोर्जितवती तु सा।
ताभ्यां पितृभ्यां सा नित्यं पाल्यमाना दिने दिने ॥ ३८ ॥
ववृधे रूपलावण्यवयःशीलगुणान्विता।
तस्या लोकोत्तरं रूपं तेजश्चातिमनोहरम् ॥ ३९ ॥
विलोक्य मातापितरौ चिन्तायुक्तौ बभूवतुः।
अहो इयं वरतमा कन्या कस्मै प्रदीयताम् ॥ ४० ॥
नास्या रूपसमो भर्त्ता लभ्यते धरणीतले।
इति चिन्तासमायुक्तौ निद्रां न समुपेयतुः ॥ ४१ ॥
सा तु चन्द्रमुखी कन्या स्वभावादेव सुव्रता।
रामभक्तिपरा नित्यमेकादश्यामुपोषिणी ॥ ४२ ॥
कार्तिकव्रतिनी चैव माघवैशाखसंयमा।
औत्पत्तिकज्ञानयुक्ता शुचिः प्रयतमानसा ॥ ४३ ॥
- १६९ -
राम रामेति जल्पन्ती श्रीपते राघवेति च ।
जगद्भर्तास्तु मे भर्ता काङ्क्षन्तीति मुहुर्मुहुः ॥ ४४ ॥
वयोऽन्वितापि न तरां चक मे प्राकृतं नरम् ।
वरचिन्तातुरौ दृष्ट्वा पितरावभिकाङ्क्षती ॥ ४५ ॥
साक्षाल्लक्ष्मीपति कान्तं स्वभावादेव तत्त्ववित् ।
अथ तस्याः पिता चक्रे काले पाणिग्रहोत्सवम् ॥ ४६ ॥
सुपर्वाख्येन विप्रेण भार्गवेण निरायुषा ।
विवाह्य विधिवत्तां तु कन्यकां नन्दशर्मणः ॥ ४७ ॥
पथि स्वसदनं गच्छन् दष्टः कृष्णाहिना मृतः ।
सा सुन्दरी तथा वीक्ष्य तमुक्तक्रान्तासुमातुरा ॥ ४८ ॥
अनुगन्तुं मतिं चक्रे तावदाहान्तरिक्षगीः ।
अलं शोकेन ते तन्वि नासौ भर्ता तवात्मनः ॥ ४९ ॥
भज श्रीरामचरणं त्वं जीवस्व म्रियस्व मा ।
यावदायुः प्रर्वतस्व साधुभिः सेविते पथि ॥ ५० ॥
भजन्ती परया भक्त्या स्वात्मभर्तारमच्युतम् ।
इति श्रुत्वा व्योमगिरं संनिवृत्ताभवत्ततः ॥ ५१ ॥
पत्युस्तस्यानुगमनात् सुभगा भजनोत्सुका ।
विलप्य लोकरीत्या सा मृतं भर्तारमादरात् ॥ ५२ ॥
आनीता स्वपितुर्गेहं भ्रातृभिः पुनरेव सा ।
तत्रस्था सा रामं भेजे प्रेम्णा लोकोत्तरेण च ॥ ५३ ॥
उपदिष्टा नारदेन वैष्णवप्रवरेण सा ।
षडक्षरं राममन्त्रमुपासांचक्र उच्चकैः ॥ ५४ ॥
वैष्णवं कर्म कुर्वाणा तत्सेवौपायिकं भृशम् ।
कायेन मनसा वाचा चक्रे सा वैष्णवं तपः ॥ ५५ ॥
तीर्थेष्व्वायतनेष्वन्येष्वतिपुण्यतमेषु च ।
कुर्वंती विविधां भक्तिं चचारसुभगाह्वया ॥ ५६ ॥
वैष्णवाख्येन तपसा शोषयामास सा तनुम् ।
सदाचाररता भक्ता विशुद्धहृदया च सा ॥ ५७ ॥
भक्त्या वशीकृत्य रामं वर्तमाना शुभे पथि ।
कदाचित्स्वप्नमध्ये सा ददर्श निजवल्लभम् ॥ ५८ ॥
रामं सहजया युक्तं प्रमोदवनमध्यगम् ।
नवीननीलमेघाभं पीताम्बरसमुज्ज्वलम् ॥ ५९ ॥
२२
- १७० -
सुवर्णसूत्रकटककुण्डलादिविभूषितम् ।
अत्युदारमुखं रुच्यं स्वभावमधुराकृतिम् ॥ ६० ॥
तस्य वामाङ्कसंसक्तां सहजानन्दिनी प्रियाम् ।
कमलाद्यकरां देवीं स्मयमानां गुणोज्ज्वलाम् ॥ ६१ ॥
सद्यो निर्मुक्तनिद्रा सा प्रोत्थिता तदनन्तरम् ।
अस्मार्षीद् वल्लभं रामं यथोक्तमधुराकृतिम् ॥ ६२ ॥
सहजानन्दिनीप्रेमभक्तिक्रीतं प्रियं तु सा ।
विज्ञाय सुभगा चक्रे सहजाराधने मतिम् ॥ ६३ ॥
भक्त्या समाराध्य तु सा सहजां रामवल्लभाम् ।
रामभक्तिं परां लेभे सुभगा सुभगाकृतिः ॥ ६४ ॥
अन्यदत्यद्भुतं राजंस्तस्या भक्तिस्वरूपके ।
उपलब्धे महारत्ने प्रकाश उपजायते ॥ ६५ ॥
रामभक्तेर्विशुद्धायाः श्रीभक्तेश्च विशेषतः ।
श्रीभक्ती रामभक्तिश्च भक्तिद्वयमुदाहृतम् ॥ ६६ ॥
सहजानन्दिनीरक्तिः श्रीभक्तिरिति शब्दिता ।
श्रीमद्रामचन्द्रे भक्तिः सा वै रामविशेषिता ॥ ६७ ॥
रामभक्तेर्हेतुभूता श्रीभक्तिः प्रेमरूपिणी ।
प्रेमरूपा स्वयं साक्षात्सहजानन्दिनी प्रिया ॥ ६८ ॥
तस्माद्भक्तिं ददात्येषा सहजाऽऽराधिता भृशम् ।
रसिकेन्द्रवरो रामः पुरुषोत्तमशब्दितः ॥ ६९ ॥
कल्याणगुणसम्पन्न आदिलक्ष्मीरतिप्रदः ।
तदालिङ्गितवल्ली सा तद्दृश्यत्वप्रदायिनी ॥ ७० ॥
यावन्नाराधिता सा वै कथं रामः प्रसीदति ।
अतः श्रीरामवश्यार्थं सहजाराधयेद्भृशम् ॥ ७१ ॥
या प्रसन्ना सती सद्यः स्वात्मैकत्वं ददात्युत ।
यथा श्रीसहजा देवी सुभगा प्रीतिवत्सला ॥ ७२ ॥
स्वात्मैकत्वमदात्तस्यै सुभगायै स्वरूपतः ।
सुप्रसन्ना कदाचित्सा आदिलक्ष्मीः परा स्वयम् ॥ ७३ ॥
सुभगायाः परप्रेम्णा प्रत्यक्षा समभूत्ततः ।
अशोकवनमध्यस्था श्रीरामानन्दरूपिणी ॥ ७४ ॥
चन्द्रानना तडिद्गौरी वामे कमलधारिणी ।
दक्षिणेऽभयदानाढ्या सानन्दकलहासिनी ।
मधुरालापिनी रामा वरं ब्रूहीति सादरम् ॥ ७५ ॥
- १७१ -
श्रीसहजोवाच
सहजाहं प्रेमरूपा श्रीरामाद्धार्ङ्गरूपिणी ।
प्रेम्णानेन तव प्रीता स्वात्मैक्यं दातुमुत्सहे ॥ ७६ ॥
धन्यासि सुभगे देवि त्वं मद्रूपासि भाविनी ।
मया सम्प्रीतया वत्से दत्तं स्वात्मैक्यमेव ते ॥ ७७ ॥
अधुना सुभगेत्याख्या त्वामालम्ब्य भविष्यति ।
या पूर्वं सुभगा नाम सुभगा सैव भामिनी ॥ ७८ ॥
श्रीशुक उवाच
इत्थं श्रीः स्वस्य माहात्म्यं दत्वा तस्यै कृपान्विता ।
आगामिनि भवे सैव सुभगाख्या भविष्यति ॥ ७९ ॥
एवं सुखितगोपोऽपि तथा माङ्गल्यका प्रसूः ।
नित्ये धाम्नि स्वरूपेण तिष्ठतः सर्वदा प्रभोः ॥ ८० ॥
परितुष्टः प्रभुस्ताभ्यां भक्त्यात्यन्तविशुद्धया ।
दत्तवान् पितृदात्म्यं १देवहूत्यै कर्दमाय च ॥ ८१ ॥
एवं सर्वोऽपि लीलाया नित्यः परिकरः किल ।
आविर्भावतिरोभावैः क्रीडति प्रभुणा सह ॥ ८२ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
श्रीशुकजनकसंवादे चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥
✤
पञ्चपञ्चाशत्तमोऽध्यायः
श्रीशुक उवाच
प्रत्यक्चितिः परानन्दा सहजानामशब्दिता ।
रामभक्तिः शुभगुणा न तां स्तोतुमहं क्षमः ॥ १ ॥
अनेकनामरूपात्मा स्वानन्दरसकेलिनी ।
चिन्मये परमे धाम्नि प्रमोदवनसंज्ञिनि ॥ २ ॥
१. पादेऽस्मिन्नक्षराधिक्यमार्षः ।
- १७२ -
नानाभावमयैर्भोगैः क्रीडत्येषा दिवानिशम् ।
रामेण स्वानुकूलेन चिदानन्दाद्वयात्मना ॥ ३ ॥
अप्राकृतानुभावेन स्वरूपानन्दलीलया ।
सा कदाचिद्दधौ मानं रहःकेलिरसोदये ॥ ४ ॥
क्रीडन्त्येव मनोरम्ये रसकुञ्जे रसात्मिका ।
अन्तर्दधौ सखीलोकैः सार्द्धं लीलामनस्विनी ॥ ५ ॥
ततस्तद्विरहेणैव दूयमानहृदुन्मदः ।
छन्नो विरहजैर्भावैः सात्त्विकैश्च स्खलन्मनाः ॥ ६ ॥
चलितुं नाशकत्कुञ्जात्कृती स रसवित्तमः ।
सान्तर्धाय ततः कुञ्जाच्छ्रोनन्दनगृहेऽभवत् ।
राजिन्यां गोपतेर्वध्वां प्रसादसुमुखाकृतिः ॥ ७ ॥
जनक उवाच
कस्माच्छ्रीनन्दनगृहे सहजानन्दिनी गता ।
एषा खलु परालक्ष्मीः प्रत्यग्ज्योतिश्चिदात्मिका ।
एतं मे संशयं छिन्धि त्वं श्रीशुक महामुने ॥ ८ ॥
अहो भाग्यं गोपवंशस्य तस्य श्रीनन्दस्य ग्रामवास्तोर्जनस्य ।
श्रीराजिन्याश्चैव मातुः परायास्तस्याः श्रीमदादिलक्ष्म्याः स्वयं वै ॥ ९ ॥
किं ताभ्यां सुकृतं तादृक्कृतं लोकोत्तरं तपः ।
कर्म वा दुष्करं किंचिद्येनेषा कन्यतां गता ॥ १० ॥
श्रीशुक उवाच
विवस्वान् भगवान् देवः प्रभा चैव महामनाः ।
तौ दम्पती प्रचक्राते सहस्रं शरदां तपः ॥ ११ ॥
मन्दाकिन्यास्तटे शुद्धे सुमेरुशिखरोपरि ।
कल्पवृक्षवने रम्ये तस्थतुस्तौ तयोर्तौ ॥ १२ ॥
अन्येन च स्वरूपेण भास्वन्मण्डलमूहतुः ।
तयोर्मण्डलवर्ती यो वैकुण्ठसदनेश्वरः ॥ १३ ॥
लक्ष्मीनारायणो देवो युगलात्मा तडिद्घनः ।
तस्याप्यंशी परो देवः श्रीरामः सहजासखः ।
स एव भावितस्ताभ्यां योगयुक्तेन चेतसा ॥ १४ ॥
जनक उवाच
ताभ्यां केनोपदिष्टो वै श्रुत्यगोचरविग्रहौ ।
परौ श्रीसहजारामौ तडिद्घननिभाकृती ॥ १५ ॥
- १७३ -
चिदानन्दघनं ब्रह्म प्रभाभूतं हि यत्तनोः।
तदेव सहजारामयुग्ममित्थं त्वयोदितम् ॥ १६ ॥
श्रीशुक उवाच
स्वयम्भूरेश भगवान् ब्रह्मा लोकपितामहः।
येन वेदः पुरा सृष्टः शब्दब्रह्ममयोऽखिलः ॥ १७ ॥
स एव भगवानेतं सृष्ट्वाँलोकविस्तरम्।
साक्षात्परम्पराभेदादेकोऽनेकश्च कारणम् ॥ १८ ॥
स एवाण्डं ससर्जैदमपायन्तः स्ववीर्यधृक्।
तासु गर्भमभूद्भूयो ब्रह्माण्डं यदनन्तकम् ॥ १९ ॥
ब्रह्माण्डञ्चप्सु निहितमापस्तद्विश्वतेजसि।
स वैश्वतेजसो वह्निः संस्थितः परमानिले ॥ २० ॥
परमानिल आसीनः परमे व्योम्नि कार्यशः।
एतद्विश्वं उद्भूतं महामनस उद्भवात् ॥ २१ ॥
तन्महाहंकृतौ व्याप्तं महा महति सा तता।
महा महन्महामाया महाप्रकृतिसंज्ञके ॥ २२ ॥
अव्यक्ताख्ये परे व्योम्नि प्रधाने सर्वकारणे।
अव्यक्तमन्तरंगायां महाशक्तौ परात्मनः।
परमात्माक्षरं ब्रह्म वेदानां स्थानमुत्तमम् ॥ २३ ॥
समन्वयो यत्र गिरां पराणां वेदाख्यानामुपनिषदाह्वयानाम्।
तदक्षरं ब्रह्मविदो वदन्ति यद्वेत्तारस्तं परमाप्नुवन्ति ॥ २४ ॥
परमः पुरुषो रामो भगवान् पुरुषोत्तमः।
यतो भुवनमुद्भूतं यस्मिन् परिसमाप्यते ॥ २५ ॥
यतो वेदाश्च सम्भूतास्तद्ब्रह्मस्य प्रभामयम्।
इति ज्ञात्वा स भगवान् ब्रह्मा लोकपितामहः ॥ २६ ॥
तदंशभूतः सकलं सृष्टवान् भुवनं विधिः।
यः सोऽण्डं व्यसृजत्पूर्वं तत्र जातः स्वयं च यः ॥ २७ ॥
विवस्वानेष भगवान् द्योतमानस्त्रयीमयः।
स्वयम्भूर्भगवान् सर्वमुवाचैवं विवस्वते ॥ २८ ॥
विशिष्ट ब्रह्माणस्तत्त्वं साङ्गोपाङ्गरहस्यकम्।
तस्मै तन्त्रं समाचख्यौ कृत्स्नं सकर्मपद्धतिम् ॥ २९ ॥
ततश्चोपनिषत्सारं ज्ञानयोगं तपोयुतम्।
भक्तिशास्त्रं रसमयं सोपासनमुदाहृतम् ॥ ३० ॥
- १७४ -
तत्त्वं निदर्शयामास करामलकवत्स्फुटम् ।
सोंऽशः साक्षात्स्वयं रामस्यांशो देवऋषीमयः ॥ ३१ ॥
स्वयं चाधिजगे सर्वं विवस्वान् सकलाः श्रुतीः ।
साङ्गाः सहरहस्याश्च पृथक्संस्थाक्रियामयीः ॥ ३२ ॥
शब्दब्रह्माखिलं ज्ञात्वा दृष्टिं चक्रेऽर्थगोचराम् ।
समासव्यासतो जज्ञे रामं सर्वार्थरूपिणम् ॥ ३३ ॥
यावन्तो वै मताः शब्दास्ते सर्वे रामवाचकाः ।
रामो विशुद्धतत्त्वं तद्रामाख्यं धाम शर्मभृत् ॥ ३४ ॥
राममुष्य१ तपश्चक्रे विवस्वान् प्रभया सह ।
निराहारौ जितात्मानौ जितेहामुष्मिकस्पृहौ ॥ ३५ ॥
सहस्रवर्षपर्यन्तं तपोनिष्ठौ बभूवतुः ।
तयोराविर्बभूवासौ रामः सहजया सह ॥ ३६ ॥
तौ विलोक्य प्रभासूर्यो लोकोत्तरगुणाकरौ ।
प्रेम्णा श्रोसहजारामौ शृङ्गाररसविग्रहौ ।
तयोरासीन्मतिर्भूयः पुत्र ईदृग्भवेत् नः ॥ ३७ ॥
श्रीभगवानुवाच
इमं मनोरथं प्रादामदितयै कश्यपाय च ।
इयं तु सहजा देवी मम रसात्मिका ॥ ३८ ॥
भवित्री युवयोः कन्या पराश्रीर्विश्वतैजसी ।
अहं चेश्वरभावेन प्राप्स्यामि भवतोः कुलम् ।
भूत्वा जामातृरूपेण गुप्तो जारव्रते स्थितः ॥ ३९ ॥
विवस्वानुवाच
भूत्वापि प्रकटोऽस्मासु जारभावेन किं प्रभो ।
भविष्यसि श्रीसहजा यतस्तव सदा वधूः ॥ ४० ॥
भवता लालितां देवी नित्यं परमभूषिताम् ।
कं स्वादं लप्स्यसे राम नित्यसिद्धास्वरूपतः ॥ ४१ ॥
श्रीराम उवाच
अधिकोऽत्र रसानन्दो भावे स्नेहरसात्मके ।
दौर्लभ्यं नाम स्पृहाया वर्द्धनं परमं मतम् ॥ ४२ ॥
स्पृहा संचारिणी स्नेहे पूर्णभावविभाविनी ।
अतोऽयं रसभावो वै भविता वां गृहेषु नो ॥ ४३ ॥
...`
Let's read character by character:
- त (ta)
- स्मि (smi)
- न् (n)
space - मा (mā)
- ने (ne)
space - स्व (sva)
- स्व (sva)
- रू (rū)
- प (pa)
- न् (n) -- wait, is it न्?
- ति (ti) -- wait! Look at the top!
Is there an 'i' matra?
Look at the vertical line with a hook to the left:
Wait, that is an 'i' matra!
Wait, whose 'i' matra?
Does it go over 'त' or 'प'?
Wait! Look at the character:
It is: प (pa) then 'न्' then 'ति'?
Wait, look at 'न्ति' in 'शान्ति', 'ददन्ति', 'यान्ति'.
In Devanagari, 'न्' + 'त' + 'ि' is written with the 'i' matra on the left, covering 'न्' and 'त': 'न्ति'!
Does that glyph look EXACTLY like 'न्ति'?
Wait, let's look at the loop:
It has a vertical line on the left, an arch at the top, going over 'न्' and... wait!
No, look at:स्वस्वरूपन्तिधाय
- १७६ -
प्रभामण्डललध्येण अनुभावेन भूषिता ।
अस्यां संजातमात्रायां क्षितिरासीच्छुभान्विता ॥ ७ ॥
जलानि सुप्रसन्नानि सुज्वालश्चहुताशनः ।
शुभस्पर्शस्तथा वायुर्वाति त्रिविधसुन्दरः ॥ ८ ॥
मनांसि परभक्तानां श्रीरामस्य पदस्पृशाम् ।
आसन्नतिप्रसन्नानि ब्रह्मबोधोदयाद्यथा ॥ ९ ॥
केचन ननृतुर्गोपाः केचिद्गोपालका जगुः ।
केचिच्च चिक्षिपुर्भूयो दध्यक्षतशुभाञ्जलीन् ॥ १० ॥
गोपिकाः स्वस्वगेहेभ्यः सद्दर्वादलपाणिकाः ।
सामन्त्राः साक्षतकरा आजग्मुः समलंकृताः ॥ ११ ॥
गावः शृङ्गारिता गौपैर्वासोऽलंकारधातुभिः ।
वृषा वत्सावत्सतर्र्यः सर्वा एव महीपते ॥ १२ ॥
आयान्तीनां च यान्तीनां गायन्तीनां च यूथपा ।
नृत्यन्तीनां वाद्यतीनां गोपीनामुत्सवोऽभवत् ॥ १३ ॥
तस्मिन् मङ्गलभूयिष्ठे समाजे व्रजयोषिताम् ।
इन्दिरा व्यचरत् साक्षात्स्वयं निर्मञ्छनीकृता ॥ १४ ॥
रत्नकाञ्चनराशीनां मिषेण परितश्च सा ।
आत्मानमुपदीकृत्य परितः पर्युपस्थिता ॥ १५ ॥
आगच्छन्त्यो व्रजमृगदृशो नन्दनाख्यस्य गेहे-
मार्गे कूजद्वलयरसनानूपुरद्वन्द्वघोषैः ।
श्रीराजन्या अविरतमलञ्चक्रिरे द्वारवेशं-
सम्पद्देव्याः किमपि चतुरङ्गाख्यसेना इवोग्रा ॥ १६ ॥
दिशां प्रसादेन मनोहरेण सितांशुकोटिद्युतिदीपितानाम् ।
जगज्जनेनानुमितानि तस्याः सौभाग्यभाग्योद्भवनानि भूयः ॥ १७ ॥
तदुत्सवे समायाता ब्रह्मविष्णुमहेश्वराः ।
पृथक् पृथग् जगुर्गाथा इमास्तत्र विचक्षणाः ॥ १८ ॥
ब्रह्मोवाच
जय जय लीलाललिते गुणगणकल्याणश्रुते ।
कृपय सुभव्ये सहजे मयि भवसर्गाकुलिते ॥ १९ ॥
व्रजवसुधासंपदियं प्रकटितरूपा भवति ।
वितरतु भक्तिं सहजे
- १७७ -
चिरमुदयस्वाभरणा सुखितगवेन्द्रस्य भुवः।
क्वचन भवित्रीं जनके जगदुदयायाभ्युदिता ॥ २२ ॥
वाण्युवाच
परधामतः प्रमुदकाननाजजयत्ति संगता त्व नन्दनालयम् ।
परमशोभया शोभनैर्गुणैः किमपि मण्डपस्युच्चकैर्जगत् ॥ २३ ॥
विधिपयोधिजाः पुष्टिकान्त यस्तदनुकीर्तिस्तुष्टिरिला चोर्जिका ।
तदनु विधिका परीचायाविधिका परिलसन्ति माया च ते शक्तयः ॥ २४ ॥
निजसुशक्तिभिः संगता पराश्रयगुणान्विता स्वामिनी प्रभोः ।
स्नपयसिप्रिय लोचनाम्भैर्विरहवेदनारुद्धमानसे ॥ २५ ॥
किमपि जन्मनि गोपकुले सरसलीलया राममन्वितुम् ।
त्वमथ राजसे रासराज्येश्वरी परमभावकानप्रेम दापितुम् ॥ २६ ॥
महादेव उवाच
आविर्भावं प्राप्य महेशी ब्रह्मभूमौ श्रीराजिन्या-
गर्भमणित्वं प्रतिपद्य सम्यङ्मानो व्यरचि भवत्या
श्रीरामस्य छन्दक्रीडां खलु सहजानन्दात्वम् ।
कर्मेत्येके कालमथैःके निगदन्ति दैवं चान्ये
स्वाभावमपरे प्रवदन्ति ब्रह्मविद्वांसो मे सद्यः ॥ २७ ॥
सुमुखीः त्वां जानन्त्येके निर्गतकालाभिपाशाः
श्रीमत्सहजानन्दा श्रीराजिनीगवेन्द्र-
प्रेमानन्दस्तोममयी परमाद्या यस्मै मातः
कृपयसि सुलभस्तस्येशः ।
योगीन्द्राणां चेतसिदुर्लभतरस्त्वेष मातः
परमं प्रमोदविपिनं तव धाम स्वेच्छानन्दावसे रसानन्दागारं
तत्र क्रीडन्तीं त्वां सुखितामजसगे ये सेवन्ते तेषां मुक्तिस्तृणतुल्या ॥ २८ ॥
इत्थं गाथाः प्रगायन्तो नन्दतुर्जातसम्भ्रमाः ।
ब्रह्मा विष्णुस्तथा रुद्रो ये चान्ये देवतोत्तमाः ॥ २९ ॥
सर्वे स्त्रीवेशिनो भूत्वा ननृतुर्नन्दनाङ्गणे ।
श्रीनन्दनः प्रसन्नात्मा तेभ्योऽदात् पटभूषणे ॥ ३० ॥
भोजनं चापि विविधं परमान्नं सुपेशलम् ।
ते तृप्ता मानितास्तुष्टाः प्रायुञ्जन् शुभदाशिषः ॥ ३१ ॥
न, the mother is called "राज्ञी" (the Queen)!
"श्रीराज्ञी" = the revered Queen!
And "नो" = "नः" (our)!
Or "श्रीराज्ञी नः मातुः" -> "श्रीराज्ञीनोमातुरङ्क..."!
Wait, or is her name "राजी"?
If her name is "राजी", can it be "श्रीराजी नो मातुः"? "Revered Raji, our mother"?
Wait, look at that letter: is it 'जी' or 'ज्ञी'?
Let's zoom in extremely close to that letter:
Top line: horizontal bar.
Letter body:
Wait, look at:
Vertical bar on the right? No, there is a vertical bar on the right with a matra going to the left?
Wait! Look at the top of that letter:
There is an arch going to the LEFT: that is an 'इ' (short i) matra!
Wait, look at the arch:
It starts from the vertical bar of the NEXT letter, or does it go to the left?
Wait, look at 'नि' in 'निःसाधना' : arch goes to the left.
Look at 'पि' in 'पितुर्गेहं' : arch goes to the left.
Now look at :
Letter 4 is रा.
Letter 5 has an arch going to the left!
And the consonant
– १७९ –
सा चैवं राजहंसी ब्रजजननयानन्दसंदोहदात्री ।
सीतेत्याख्या प्रसिद्धा नृपवर सहजानन्दिनीति प्रगीता ।
श्रीनन्दनस्य प्रमुदवनपरा नित्यलक्ष्मीरनन्ता ।
चित्ते संचिन्तनीया सपदि सुमहती या प्रसिद्धा चिकीर्षोः ॥ ३ ॥
नित्यधाम च माहात्म्यं प्रमोदवनसंज्ञितम् ।
यः शृणोति नरस्तस्य कल्याणमुपजायते ॥ ४ ॥
सहजां शृणुयाद्यश्च नामलीलागुणान्विताम् ।
सहजानन्दिनीनाथं तथा रघुकुलोद्वहम् ॥ ५ ॥
नामलीलागुणैर्युक्तं जीवन्मुक्तः स वै भवेत् ।
सुखितस्य च माहात्म्यं पूर्णस्नेहस्य गोपतेः ॥ ६ ॥
माङ्गल्यायाश्च पुण्याया महिमार्णवो वै महान् ।
ययोस्तनयतां प्राप्तः श्रीरामो रमणोसखः ॥ ७ ॥
नित्यलीलासमायुक्तः प्रमोदवनचन्द्रमाः ।
सहजानन्दिनीसीतापार्श्वद्वयसुशोभितः ॥ ८ ॥
रासमण्डलमध्यस्थः सखीभिः परिवारितः ।
सरयूपुलिने रम्ये रासलीलां करोति वै ॥ ९ ॥
अत्र विष्ण्वादयः सर्वे सखीभावसमन्विताः ।
पश्यन्ति सादरं प्रेम्णा राघवेन्द्रं परात्परम् ॥ १० ॥
हर्षिताः स्वस्वचेतसि ते रोमाञ्चितविग्रहाः ।
लुठन्ति राघवेन्द्रस्य चरणोपान्तविह्वलाः ॥ ११ ॥
मुहुर्मुहुर्नति कृत्वा स्तुति कृत्वा मुहुर्मुहुः ।
दण्डवत् प्रणताः सर्वे राघवं रसिकोत्तमम् ॥ १२ ॥
पुनरुत्थाय ते सर्वे ब्रह्माद्याः सुरसत्तमाः ।
सपर्यां राघवेन्द्रस्य चक्रुः प्रेमसुविह्वलाः ॥ १३ ॥
कृतार्थं मन्यमानाः स्वं ब्रह्माद्याः सुरसत्तमाः ।
दर्शनाद् राघवेन्द्रस्य अयोध्यायाश्च दर्शनात् ॥ १४ ॥
सरयूदर्शनाच्चैव प्रमोदवनदर्शनात् ।
प्रेमविह्वलिताः सर्वे वभूवुः सहसा क्षणात् ॥ १५ ॥
एवं ब्रह्मादयो देवा ये चान्ये सुरसत्तमाः ।
लीलां श्रीराघवेन्द्रस्य प्रेम्णा पश्यन्ति प्रत्यहम् ॥ १६ ॥
इमां प्रेममयीं लीलां महोदरान् गुणांस्तथा ।
शृणुते राघवेन्द्रस्य प्रेमभक्ति लभेत सः ॥ १७ ॥
- १८० -
सहजायां रति प्राप्य जीवन्मुक्तो भवेत्स्वयम् ।
ययोर्गेहे राजते नित्यं प्रेमानन्दमयी परा ॥ १८ ॥
सहजानन्दिनीनाम्नी लक्ष्मीकोटिगुणान्विता(धिका)।
महालक्ष्मीः श्रीरामस्य रमणी रमणीयमाः ॥ १९ ॥
कस्तयोस्तुल्यतां यायाद्राजिनीनन्दनयोर्वै ।
सहजानन्दिनीस्पर्शलालनात्तीर्थभूतयोः ॥ २० ॥
तव नृप सदने च श्रीमदाद्येन्दिराया जनुरितिशृणुपाद्यो हर्षवित्तैकचित्तः ।
स भवति परलीलाप्रेमजानन्दसिन्धुप्रविततलहरीणां वृन्द आप्लुत्य तुष्ट :॥२१॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मोत्सवे श्रीशुकजनकसंवादे सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥
∗</br>
अष्टपञ्चाशत्तमोऽध्यायः
जनक उवाच
अथाश्रावय मे ब्रह्मंलीलां रसमयीं पराम् ।
प्रमोदवनराज्ञ्याः श्रीसहजायाः सनातनीम् ॥ १ ॥
मानस्य हेतुमाख्याहि परे धाम्नि विलासिनोः ।
येनान्तर्द्धिमगादेषा द्वैतीयिकभावावधिः ॥ २ ॥
एनां हि शृण्वतो नाम मम श्रीसहजाश्रयाम् ।
कथामद्भुतरूपां वै औत्कण्ठ्यं वर्द्धतेऽनिशम् ॥ ३ ॥
श्रीशुक उवाच
मानस्य¹ कारणं वक्ष्ये सहजाया विशेषतः ।
इयं रहस्यगा लीला गोपनीया प्रयत्नतः ॥ ४ ॥
कदाचित्सहजानन्दा प्रमोदवननायिका ।
उत्फुल्लमालतीमल्लीमाधुरीमधुरे मधौ ॥ ५ ॥
अत्युत्कण्ठावशात्कान्ते प्रेषयामास दूतिकाम् ।
सा तं कुन्दवने स्थाप्य समेता सहजान्तिके ॥ ६ ॥
१. नास्ति बडौ० ।
?
Wait, look at 'वि' in "विविध": the i-matra is very clear.
Then 'ध'. Then 'व': does it have an i-matra?
Wait, the matra of 'स्त्रि' is a long curve covering 'त्स्त्रि'.
Between 'ध' and 'त्स्त्रि', there is 'व'. It does NOT have an i-matra. It is 'व'.
Wait, then 'त्' + 'स्त्रि': 'त्स्त्रियः'.
So "विविधवत्स्त्रियः" (the women, in various ways). "विविधवत् स्त्रियः".
Let's check line 31:
"तुलाकोटीन्निधायाङ्घ्रयोः किङ्किणी पर्यभूषयन् ।"
Wait, is it "किङ्किणी पर्यभूषयन्" or "किङ्किणीः पर्यभूषयन्"?
Look after 'णी': no visarga. Just "किङ्किणी पर्यभूषयन्".
Let's check line 32:
"मञ्जरीकाधः संलग्नाः कलहंसनिनादिनीः ॥ २० ॥"
Wait, "मञ्जरीकाधः संलग्नाः" or "मञ्जरीकाधःसंलग्नाः"? There is a space.
"कलहंसनिनादिनीः ॥ २० ॥" - visarga is clearly visible.
Let's check line 11:
मण्डयांचक्रुस्तस्याः सख्या विचक्षणाः ।
Wait, 'आननं':
Look at 'आननं': आ न नं.
'मण्डयांचक्रुस्तस्याः': म ण् ड य ा ं च क्रु स ् त स्य ा ः
'सख्या विचक्षणाः ।': स ख्य ा वि च क्ष ण ा ः । (Wait, 'सख्या' or 'सख्यः'? It clearly says 'सख्या', though grammatically 'सख्यः' makes sense, the print says 'सख्या').
कबरीं गुफयामासुः पट्टसूत्रान्तरस्थितैः ॥ २५ ॥
Wait, 'गुफयामासुः' - yes, ग ु फ य ा म ा स ु ः.
मणिभिर्मौक्तिकैश्चैव गजमुक्ताफलैस्तथा ।
सीमन्तं पूरयामासुर्युक्तं सिन्दूररेखया ॥ २६ ॥
गजमुक्ताफलैःस्थूलैः संध्याभ्रमिव तारकैः ।
ललाटं मण्डयांचक्रुस्तस्याः कुंकुमपत्रकैः ॥ २७ ॥
कस्तूरी विदुना चैव महाभाग्यैकमन्दिरम् ।
Wait, space between 'महाभाग्यैक' and 'मन्दिरम्'?
It's
- १८३ -
हा सीते सहजे सितासिततमे साकेतलक्ष्मीपरे-
पूर्णे चिन्मयचित्तचन्द्रकिरणश्रेणीचमत्कारिणी।
दत्तप्रेमरसावलम्बनमहो कान्ते जनं मादृशं-
कामक्रूरकठोरसायकहतिं कृत्वा भृशं मा कुरु ॥ ३५ ॥
गुणवति तावकीने मधुहासविशिष्टमुखेन्दुरुचिप्रसरे-
मधुसमयेऽपराधरहिते प्रणवैकपराजितके रमणे।
वितथमियतमीश्वरि विलम्बमिमं न कुरुष्व कदापि परं-
न सहितिकालशक्तिरतिमात्रवियोगभवं परितापमिमम् ॥ ३६ ॥
इत्थं प्रलयमानस्य तस्य पूर्णमहेशितुः।
कालशक्तिः स्वानुचरी प्रभुं साक्षादुवाच ह ॥ ३७ ॥
कालशक्तिरुवाच
अहं कृष्ण सखी नाम तावकीना गुणोदया।
त्वमिच्छसि यमानन्दं तं साक्षादुपसादये ॥ ३८ ॥
कालशक्तिरहं कृष्णा ज्ञानशक्तिस्तु जानकी।
क्रियाशक्तिः कला नाम प्रेमशक्तिश्च मोदिनी ॥ ३९ ॥
अन्याश्च शक्तयोऽनन्ता योषिद्रूपमुपाश्रिताः।
प्रभुं गुणनिधिं कान्तं भवन्तं पर्युपासते ॥ ४० ॥
सर्वासां रञ्जनं कार्यं प्रभुणा भवता प्रभो।
एतद्धि सौष्ठवं नाथ स्वामिनः स्वामिनीष्वपि ॥ ४१ ॥
इति ब्रुवाणां तां कृष्णं कोटिचन्द्रावलिप्रभाम्।
इन्द्रनीलमणिप्रख्यनीलमेघतनुद्युतिम् ॥ ४२ ॥
ज्योत्स्नायतीं तडिल्लेख्यां स्वर्णकोटितनुप्रभाम्।
सर्वावयवशोभाढ्यां हसन्तीं कामुकी प्रियाम् ॥ ४३ ॥
वीक्ष्य कान्तः स्थितो दृग्भ्यां सद्यः कामविमोहितः।
अविध्यत चलैस्तस्याः कटाक्षैः काममार्गणैः ॥ ४४ ॥
ततस्तयातिकामुक्या समयुज्यत कामुकः।
रन्तुमेकान्ततः स्वैरं सुखैर्निधुवनोद्भवैः ॥ ४५ ॥
कालशक्तिः स्वयं साक्षात् सा तु कृष्णा गुणोदया।
अदृश्यमकरोत्कुञ्जं तस्मिन् कुन्दवने महत् ॥ ४६ ॥
दिव्यं तमः समसृजत् क्रीडास्थानं न्यगूहयत्।
तत्र रेमे तया रामश्चिदानन्दगुणाकरः ॥ ४७ ॥
- १८४ -
नवं निधुवनं प्राप्य कृष्णायां रामकामुकः।
तद्गुणैः सहजां गौरी त्रिसस्मार वशंवदः ॥ ४८ ॥
अथ श्रीसहजानन्दा दूतीवचनलोभिता ।
कृताङ्गविविधाकल्पा रन्तुं पर्यचलद् गृहात् ॥ ४९ ॥
सखीभिः सहिता साक्षात्सहजानन्दिनी स्वयम् ।
विवेश विपिनं घोरं प्रमोदवनगह्वरम् ॥ ५० ॥
न प्राप तिमिरच्छन्नं कुन्दकुञ्जवनं महत् ।
मधुचन्द्रोदयज्योत्स्नागोचरं यावदीक्षितम् ॥ ५१ ॥
तावदन्वेषितं भूयः प्रमोदविपिने तया ।
सखीभिः सहिता साध्वी सहजानन्दिनी स्वयम् ॥ ५२ ॥
बभ्राम विपिनं तत्र पृच्छन्ती खलु तांस्तरूनू ।
अथ तत्र तृषार्ता सा पीत्वा श्रीसरयूजलम् ॥
विलोक्य दिव्यया दृष्ट्या प्रोवाच वचनं सखीः ॥ ५३ ॥
श्रीसहजोवाच
कियद्यावदिदं घोरं वनमद्य गवेषितम् ।
गौर्या मया ततो ज्ञातं रामः कृष्णामुपासते ॥ ५४ ॥
कृष्णा च जानकी चैव कला चैव हि मोदिनी ।
एताः पिबन्ति कान्तास्यसारं प्रेमसुधारसम् ॥ ५५ ॥
इत उत्थाय सख्यश्चदीपिकापाणयोऽग्रतः ।
यात कुन्दवनं सर्वा ध्रियतां कामुकाधयः ॥ ५६ ॥
धृत्वा बद्ध्वा समानीय दण्ड्योऽयं वश्यकामुकः ।
इत्युत्साहवती गोपीरनुयुज्यस्वयं च सा ॥ ५७ ॥
अनुकुन्दवनं सद्यः सहजा पर्यगच्छत ।
अथ कृष्णा भयत्रस्ता सहजायाः समागमात् ॥
उवाच रमणं वाक्यं दृढबन्धरतिस्थिता ॥ ५८ ॥
कृष्णोवाच
इदं कुन्दवनं नाम सहजाया विहारभूः ।
स्थातव्यं नो चिरमिह स्वस्थानस्थोऽखिलः शुभः ॥ ५९ ॥
संहजाया सखीनां वै आयान्तीनामितस्ततः ।
मञ्जीरकिङ्किणीघोषैर्व्याप्ता कुन्दवनस्थली ।
नात्रास्थातुमितो युक्त पारक्ये कुन्दकानने ॥ ६० ॥
- १८५ -
श्रीराम उवाच
मनोऽभिलषितं देशं तमेव नय मां प्रिये।
इत्युक्तः स तया रामो नीतः स्वस्थानमादरात् ॥ ६१ ॥
योगशक्त्या स्वया तत्र निभृतं योगरूपया।
दृढबन्धस्थितावेवैतौ कृष्णरामकामुकौ ॥ ६२ ॥
विकसद्भूरिमन्दारं कृष्णावनमुपेयतुः।
अथ श्रीसहजानन्दा दूती निर्दिष्टवर्त्मना ॥ ६३ ॥
अगात् कुन्दवने कुञ्जेयत्ररामः पुरा स्थितः।
कामुक्या कृष्णया युक्तः कुर्वाणः सुरतोत्सवम् ॥ ६४ ॥
तत्र गत्वा सखीवृन्दैः साकं श्रीसहजेश्वरी।
व्यचष्ट रतिचिह्नानि मध्ये कुञ्जेयथोदिते ॥ ६५ ॥
नवकिसलयशय्या मर्दिता दृश्यतेऽसौ निधुवनपरिवर्तावर्त संवर्तनतैः ।
विलुठति मणिमाला मेखलायुक्तसूत्रा विगलितवलयार्धं चाप्यहोकुञ्जधूलौ ॥६६॥
मुहुरिति विमनस्का भूपउद्दीक्ष्य दूत्या-
मुखमवनतमुच्चैर्लज्जया धिग् धिगाह।
अधवति ननु धिङ्मां त्वन्मृषोधायि यातां-
धिगधरमणमेनं योषां वृषलपं जगामु ॥ ६७ ॥
केयं दैवहृतस्याहो युवती विहितस्पृहा।
इहापि सहजाधाम्नि या महोद्धतमानसा ॥ ६८ ॥
एवमादीनि बहुधा वचांस्यभ्युज्जगाद सा।
कृष्णसक्तं प्रियं वीक्ष्य बहुरोषरसाविला ॥ ६९ ॥
भूषणं वसनं रागं हारान् कुसमालिकाः।
विदधाना सदाङ्गेभ्यो वेपमानाधरा रुषा ॥ ७० ॥
सहजोवाच
न तथान्यरतिं वीक्ष्य विद्रूपे सुखवर्जिता।
यथा मद्दर्शनं वीच्य विद्रूपेऽहं निजे हृदि ॥ ७१ ॥
य एवं रमते नित्यं रसिकेन्द्रो हि धूर्तधीः।
तस्याहं कैतवं महाधूर्तस्य योगतः ॥ ७२ ॥
इति प्रीतिपणं कृत्वा सहजा स्त्रीस्वभावतः।
सरय्वा वै तटे सद्यः स्रोतोरूपा बभूव ह ॥ ७३ ॥
विख्याता सा स्वयं लक्ष्मीस्त्रिषु लोकेषु पुण्यवाट्।
इत्थं मानवती भूत्वा सहजा स्वालिभिः सह ॥ ७४ ॥
- १८६ -
प्रमोदवनमभ्येत्य पालीग्रामे बभूव सा।
मानस्य कारणं प्रोक्तं सहजायाः पुराणगम् ॥ ७५ ॥
एवं सा नन्दनगृहे बभूव सहजेश्वरी।
रामः कृष्णार्ति भुक्त्वा सहजाकुञ्जमागमत् ॥ ७६ ॥
तत्र श्रुत्वा यथावृत्तं सहजायास्तथा गतिम्।
आसीद्विषण्णहृदयस्तदेकसुखमानसः ॥ ७७ ॥
ज्ञात्वावतीर्णां सहजां श्रीनन्दनगृहे प्रियाम्।
स्वयमप्यवतीर्णो वै सुखितस्य गृहे प्रभुः ॥ ७८ ॥
स्वयं रामो नदो भूत्वा सरयूं प्रति संगतः।
नदीरूपेण रेयाते तत्र तौ दिव्यविग्रहौ ॥ ७९ ॥
इदं यः सहजेशान्याः शृणुयान्मानकारणम्।
प्रादुर्भावं चापि तस्याः श्रीनन्दनगृहे पुनः ॥ ८० ॥
तस्य भक्तस्य सहजा करोति कुशलं स्वयम्।
प्रेमाणं रामपदयोर्वृद्धिष्णुं प्रतिवासरम् ॥ ८१ ॥
लभते नियतं मर्त्यो नात्र कार्या विचारणा।
इदं रहस्यमखिलं मद्भक्तेभ्यः प्रगोपयेत्।
कृष्णायाश्चैव रामस्य सहजायाः कथानकम् ॥ ८२ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
श्रीशुकजनकसंवादे सीताजन्मोत्सवे सहजामानकरणे
अष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥
✤
एकोनषष्टितमोऽध्यायः
श्रीशुक उवाच
इतः सा ववृधे पूर्णा कलाभिः सहजेश्वरी।
ततश्च ववृधे रामः प्रमोदवनचन्द्रमाः ॥ १ ॥
कलाः समग्राः प्रबभूव रेतयोलोकोत्तरं श्री सहजानन्दिनीशयोः।
यथा - नभस्येऽद्भुतशारदत्विषः पूर्णेन्दुसान्द्रद्युतिकौमुदीरुचोः ॥ २ ॥