भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 194, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 194
- १८० -
सहजायां रति प्राप्य जीवन्मुक्तो भवेत्स्वयम् ।
ययोर्गेहे राजते नित्यं प्रेमानन्दमयी परा ॥ १८ ॥
सहजानन्दिनीनाम्नी लक्ष्मीकोटिगुणान्विता(धिका)।
महालक्ष्मीः श्रीरामस्य रमणी रमणीयमाः ॥ १९ ॥
कस्तयोस्तुल्यतां यायाद्राजिनीनन्दनयोर्वै ।
सहजानन्दिनीस्पर्शलालनात्तीर्थभूतयोः ॥ २० ॥
तव नृप सदने च श्रीमदाद्येन्दिराया जनुरितिशृणुपाद्यो हर्षवित्तैकचित्तः ।
स भवति परलीलाप्रेमजानन्दसिन्धुप्रविततलहरीणां वृन्द आप्लुत्य तुष्ट :॥२१॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मोत्सवे श्रीशुकजनकसंवादे सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥
∗</br>
अष्टपञ्चाशत्तमोऽध्यायः
जनक उवाच
अथाश्रावय मे ब्रह्मंलीलां रसमयीं पराम् ।
प्रमोदवनराज्ञ्याः श्रीसहजायाः सनातनीम् ॥ १ ॥
मानस्य हेतुमाख्याहि परे धाम्नि विलासिनोः ।
येनान्तर्द्धिमगादेषा द्वैतीयिकभावावधिः ॥ २ ॥
एनां हि शृण्वतो नाम मम श्रीसहजाश्रयाम् ।
कथामद्भुतरूपां वै औत्कण्ठ्यं वर्द्धतेऽनिशम् ॥ ३ ॥
श्रीशुक उवाच
मानस्य¹ कारणं वक्ष्ये सहजाया विशेषतः ।
इयं रहस्यगा लीला गोपनीया प्रयत्नतः ॥ ४ ॥
कदाचित्सहजानन्दा प्रमोदवननायिका ।
उत्फुल्लमालतीमल्लीमाधुरीमधुरे मधौ ॥ ५ ॥
अत्युत्कण्ठावशात्कान्ते प्रेषयामास दूतिकाम् ।
सा तं कुन्दवने स्थाप्य समेता सहजान्तिके ॥ ६ ॥
१. नास्ति बडौ० ।