सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 187, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 187
  • १७३ -
    चिदानन्दघनं ब्रह्म प्रभाभूतं हि यत्तनोः।
    तदेव सहजारामयुग्ममित्थं त्वयोदितम् ॥ १६ ॥
    श्रीशुक उवाच
    स्वयम्भूरेश भगवान् ब्रह्मा लोकपितामहः।
    येन वेदः पुरा सृष्टः शब्दब्रह्ममयोऽखिलः ॥ १७ ॥
    स एव भगवानेतं सृष्ट्वाँलोकविस्तरम्।
    साक्षात्परम्पराभेदादेकोऽनेकश्च कारणम् ॥ १८ ॥
    स एवाण्डं ससर्जैदमपायन्तः स्ववीर्यधृक्।
    तासु गर्भमभूद्भूयो ब्रह्माण्डं यदनन्तकम् ॥ १९ ॥
    ब्रह्माण्डञ्चप्सु निहितमापस्तद्विश्वतेजसि।
    स वैश्वतेजसो वह्निः संस्थितः परमानिले ॥ २० ॥
    परमानिल आसीनः परमे व्योम्नि कार्यशः।
    एतद्विश्वं उद्भूतं महामनस उद्भवात् ॥ २१ ॥
    तन्महाहंकृतौ व्याप्तं महा महति सा तता।
    महा महन्महामाया महाप्रकृतिसंज्ञके ॥ २२ ॥
    अव्यक्ताख्ये परे व्योम्नि प्रधाने सर्वकारणे।
    अव्यक्तमन्तरंगायां महाशक्तौ परात्मनः।
    परमात्माक्षरं ब्रह्म वेदानां स्थानमुत्तमम् ॥ २३ ॥
    समन्वयो यत्र गिरां पराणां वेदाख्यानामुपनिषदाह्वयानाम्।
    तदक्षरं ब्रह्मविदो वदन्ति यद्वेत्तारस्तं परमाप्नुवन्ति ॥ २४ ॥
    परमः पुरुषो रामो भगवान् पुरुषोत्तमः।
    यतो भुवनमुद्भूतं यस्मिन् परिसमाप्यते ॥ २५ ॥
    यतो वेदाश्च सम्भूतास्तद्ब्रह्मस्य प्रभामयम्।
    इति ज्ञात्वा स भगवान् ब्रह्मा लोकपितामहः ॥ २६ ॥
    तदंशभूतः सकलं सृष्टवान् भुवनं विधिः।
    यः सोऽण्डं व्यसृजत्पूर्वं तत्र जातः स्वयं च यः ॥ २७ ॥
    विवस्वानेष भगवान् द्योतमानस्त्रयीमयः।
    स्वयम्भूर्भगवान् सर्वमुवाचैवं विवस्वते ॥ २८ ॥
    विशिष्ट ब्रह्माणस्तत्त्वं साङ्गोपाङ्गरहस्यकम्।
    तस्मै तन्त्रं समाचख्यौ कृत्स्नं सकर्मपद्धतिम् ॥ २९ ॥
    ततश्चोपनिषत्सारं ज्ञानयोगं तपोयुतम्।
    भक्तिशास्त्रं रसमयं सोपासनमुदाहृतम् ॥ ३० ॥