भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 181, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 181
- १६७ -
अपि¹ पूर्वजन्मनि पुत्रो जातो वां कपिलाह्वयः ।
ज्ञानशक्त्यैव सम्पन्नो न त्वनेन स्वरूपतः ॥ १४ ॥
ज्ञानक्रियोभययुतं स्वरूपमिदमद्भुतम् ।
कथं वां पुत्रभावेन प्राप्नुयादितरार्भवत् ॥ १५ ॥
अयमप्युदितो भावो वैकल्यमपि नैष्यति ।
तस्मादागन्तुके कल्पे युवां सारस्वताभिधे ॥ १६ ॥
अपि मां पुत्रभावेन प्राप्स्यथः पुरुषोत्तमम् ।
मुक्तौ लीलातनुं धृत्वा पितृभावेन भावितौ ॥ १७ ॥
प्राप्स्यथः परमं सौख्यं माङ्गल्यासुखिताभिधौ ।
तावद्युवां परं भावं वात्सल्यरसरञ्जितम् ॥ १८ ॥
मयि जुष्टं वितनुतामेतद्वां परमं तपः ।
अनेन भावरूपेण तपसानन्यगामिना ॥ १९ ॥
अचिरादेव वै पूर्णो भविता वां मनोरथः ।
इति दत्त्वा वरं त