सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 182, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 182

बान्धवा निधनं प्राप्तास्तस्याः कालक्रमेण वै।
पितृभ्रातृमुखाः सर्वे सानूढैव वयोन्विता ॥ २८ ॥
वेश्याभिस्तु कृता वेश्या नित्यमुद्विग्नमानसा।
शोचन्ती स्वकुलं भूयः परहस्तगतावशा ॥ २९ ॥
अहो मे क गता माता क च योनिप्रदः पिता।
क वा भ्रात्रादयः सर्वे हा धात्रा भ्रंशितास्म्यहम् ॥ ३० ॥
किं करोमि क गच्छामि वेश्याहस्तगतावशा।
अपि मे कापि भूयोऽपि लप्स्यते कुलमुज्ज्वलम् ॥ ३१ ॥
धिगीदृशीमवस्थां मे देहान्तश्च कथं भवेत्।
इति चिन्तासमायुक्ता सोद्वेगतरमानसा ॥ ३२ ॥
अकुर्व्वती जनैः संग स्वरविद्यामशिक्षयत्।
गन्धर्वैः कुशलैस्तत्र नानादेशसमागतैः ॥ ३३ ॥
नृत्यविद्यामशिक्षच्च गायनैर्नृत्यकारिभिः।
इत्येवं वर्त्तमाना सा पुरुषैः संगवर्जिता ॥ ३४ ॥
तां विद्यां जीवनीकृत्य निजवृत्तिमकल्पयत्।
कुलस्त्रीणां गतिं दृष्ट्वा तुतोष च मुमोद च ॥ ३५ ॥
ततः कालवशात्सा वै जरती पञ्चतां गता।
ब्रह्मावर्ते सम्भवत् कन्यका नन्दशर्मणः ॥ ३६ ॥
आख्यया सुभगा नाम रामभक्तिपरायणा।
अतीवरूपलावण्यवेशालंकारभूषिता ॥ ३७ ॥
तस्या मातोर्जला नाम महोर्जितवती तु सा।
ताभ्यां पितृभ्यां सा नित्यं पाल्यमाना दिने दिने ॥ ३८ ॥
ववृधे रूपलावण्यवयःशीलगुणान्विता।
तस्या लोकोत्तरं रूपं तेजश्चातिमनोहरम् ॥ ३९ ॥
विलोक्य मातापितरौ चिन्तायुक्तौ बभूवतुः।
अहो इयं वरतमा कन्या कस्मै प्रदीयताम् ॥ ४० ॥
नास्या रूपसमो भर्त्ता लभ्यते धरणीतले।
इति चिन्तासमायुक्तौ निद्रां न समुपेयतुः ॥ ४१ ॥
सा तु चन्द्रमुखी कन्या स्वभावादेव सुव्रता।
रामभक्तिपरा नित्यमेकादश्यामुपोषिणी ॥ ४२ ॥
कार्तिकव्रतिनी चैव माघवैशाखसंयमा।
औत्पत्तिकज्ञानयुक्ता शुचिः प्रयतमानसा ॥ ४३ ॥