भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 200, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 200
- १८६ -
प्रमोदवनमभ्येत्य पालीग्रामे बभूव सा।
मानस्य कारणं प्रोक्तं सहजायाः पुराणगम् ॥ ७५ ॥
एवं सा नन्दनगृहे बभूव सहजेश्वरी।
रामः कृष्णार्ति भुक्त्वा सहजाकुञ्जमागमत् ॥ ७६ ॥
तत्र श्रुत्वा यथावृत्तं सहजायास्तथा गतिम्।
आसीद्विषण्णहृदयस्तदेकसुखमानसः ॥ ७७ ॥
ज्ञात्वावतीर्णां सहजां श्रीनन्दनगृहे प्रियाम्।
स्वयमप्यवतीर्णो वै सुखितस्य गृहे प्रभुः ॥ ७८ ॥
स्वयं रामो नदो भूत्वा सरयूं प्रति संगतः।
नदीरूपेण रेयाते तत्र तौ दिव्यविग्रहौ ॥ ७९ ॥
इदं यः सहजेशान्याः शृणुयान्मानकारणम्।
प्रादुर्भावं चापि तस्याः श्रीनन्दनगृहे पुनः ॥ ८० ॥
तस्य भक्तस्य सहजा करोति कुशलं स्वयम्।
प्रेमाणं रामपदयोर्वृद्धिष्णुं प्रतिवासरम् ॥ ८१ ॥
लभते नियतं मर्त्यो नात्र कार्या विचारणा।
इदं रहस्यमखिलं मद्भक्तेभ्यः प्रगोपयेत्।
कृष्णायाश्चैव रामस्य सहजायाः कथानकम् ॥ ८२ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
श्रीशुकजनकसंवादे सीताजन्मोत्सवे सहजामानकरणे
अष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥
✤
एकोनषष्टितमोऽध्यायः
श्रीशुक उवाच
इतः सा ववृधे पूर्णा कलाभिः सहजेश्वरी।
ततश्च ववृधे रामः प्रमोदवनचन्द्रमाः ॥ १ ॥
कलाः समग्राः प्रबभूव रेतयोलोकोत्तरं श्री सहजानन्दिनीशयोः।
यथा - नभस्येऽद्भुतशारदत्विषः पूर्णेन्दुसान्द्रद्युतिकौमुदीरुचोः ॥ २ ॥