भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 188, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 188
- १७४ -
तत्त्वं निदर्शयामास करामलकवत्स्फुटम् ।
सोंऽशः साक्षात्स्वयं रामस्यांशो देवऋषीमयः ॥ ३१ ॥
स्वयं चाधिजगे सर्वं विवस्वान् सकलाः श्रुतीः ।
साङ्गाः सहरहस्याश्च पृथक्संस्थाक्रियामयीः ॥ ३२ ॥
शब्दब्रह्माखिलं ज्ञात्वा दृष्टिं चक्रेऽर्थगोचराम् ।
समासव्यासतो जज्ञे रामं सर्वार्थरूपिणम् ॥ ३३ ॥
यावन्तो वै मताः शब्दास्ते सर्वे रामवाचकाः ।
रामो विशुद्धतत्त्वं तद्रामाख्यं धाम शर्मभृत् ॥ ३४ ॥
राममुष्य१ तपश्चक्रे विवस्वान् प्रभया सह ।
निराहारौ जितात्मानौ जितेहामुष्मिकस्पृहौ ॥ ३५ ॥
सहस्रवर्षपर्यन्तं तपोनिष्ठौ बभूवतुः ।
तयोराविर्बभूवासौ रामः सहजया सह ॥ ३६ ॥
तौ विलोक्य प्रभासूर्यो लोकोत्तरगुणाकरौ ।
प्रेम्णा श्रोसहजारामौ शृङ्गाररसविग्रहौ ।
तयोरासीन्मतिर्भूयः पुत्र ईदृग्भवेत् नः ॥ ३७ ॥
श्रीभगवानुवाच
इमं मनोरथं प्रादामदितयै कश्यपाय च ।
इयं तु सहजा देवी मम रसात्मिका ॥ ३८ ॥
भवित्री युवयोः कन्या पराश्रीर्विश्वतैजसी ।
अहं चेश्वरभावेन प्राप्स्यामि भवतोः कुलम् ।
भूत्वा जामातृरूपेण गुप्तो जारव्रते स्थितः ॥ ३९ ॥
विवस्वानुवाच
भूत्वापि प्रकटोऽस्मासु जारभावेन किं प्रभो ।
भविष्यसि श्रीसहजा यतस्तव सदा वधूः ॥ ४० ॥
भवता लालितां देवी नित्यं परमभूषिताम् ।
कं स्वादं लप्स्यसे राम नित्यसिद्धास्वरूपतः ॥ ४१ ॥
श्रीराम उवाच
अधिकोऽत्र रसानन्दो भावे स्नेहरसात्मके ।
दौर्लभ्यं नाम स्पृहाया वर्द्धनं परमं मतम् ॥ ४२ ॥
स्पृहा संचारिणी स्नेहे पूर्णभावविभाविनी ।
अतोऽयं रसभावो वै भविता वां गृहेषु नो ॥ ४३ ॥