सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

( १० )
३४. अयोध्यावासियों के प्रस्थान के पश्चात् राम द्वारा समागत गोपवृंद का
प्रबोधन और उन्हें प्रमोदवनलीला मे परिकररूप मे स्थान देने का
समाश्वासन ३७९-३८०
३५. ख्रिग नामक अन्त्यज के उद्धार की कथा ३८०-३८७
३६. रामराज्य की सुव्यवस्था एवं सम्पन्नता का वर्णन, राम तथा उनके तीनो
भाइयों के पुत्रों की विभिन्न प्रदेशो में राज्य संस्थापना और चिरकाल तक
धर्मसंस्थापना पूर्वक लोकपालन ३८८-३८९
३७. राम का सरयूतटवर्ती आरामकुंज गमन तथा सीता एवं परिकरों सहित
निवास ३९०-३९१
३८. राम द्वारा दिव्यधाम गमन की घोषणा और साथ चलने के लिये उत्सुक
प्रजावर्ग सहित जीवमात्र को सरयू तट पर आने का आवाहन, राम का
सीता, भ्राताओं, भ्रातृवधुओ, हनुमानादि सेवको, प्रजा तथा कीट
पतंगादि जंतुओ सहित सरयूस्नान के अनंतर दिव्य विमानों द्वारा
प्रमोदवन के लिए प्रस्थान ३९१-३९३
३९. राम के लोकान्तरणोपरात गोप-गोपियों की कालक्षेपव्यवस्था ३९४
४०. ब्रह्मा द्वारा प्रस्तुत ग्रंथ की वक्ता-श्रोता-परम्परा तथा महात्म्य वर्णन ३९५-३९६

श्री गणेशाय नमः । श्रीरामोजयति¹ ।
श्रीमदादिरामायणम्
पश्चिमखण्डः
प्रथमोऽध्यायः
ब्रह्मोवाच
एकदा भरतः श्रीमाञ्छ्रीमन्तं लक्ष्मणं प्रभुम् ।
शेषं संकर्षणं वीरं सुखासीनं शुचिस्मितम् ॥ १ ॥
श्रीमत्सीतानुजाकान्त श्रीरामभ्रातृसुन्दरम् ।
त्रैलोक्यसारं सुभगं² गौर हलधरं वरम् ॥ २ ॥
एकांस³धृतभूभारं श्रीरामपदसेवकम् ।
प्रावृषेण्यघनश्यामं मधुरोज्ज्वलविग्रहम् ॥
एकान्ते समुपागम्य भक्त्या नम्रोऽब्रवीदिदम् ॥ ३ ॥
भरत उवाच
स्वच्छन्दलील सर्वेश⁴ लक्ष्मण भ्रातृसत्तम ।
समस्ताधिकसौभाग्य नाममाहात्म्यपावन ॥ ४ ॥
एकान्तरामभक्तेश पृच्छामि त्वां महामते ।
सर्वतत्त्वं पर ब्रह्म परमानन्दलक्षणम् ॥ ५ ॥
त्रयीतत्त्वं सर्वगुह्यं श्रीराम इति कीर्तितम् ।
तस्यैव सकला लीलां विश्वसर्गादिलक्षणाः ॥
तत्प्रेमपात्रं परमं भवानेव न संशयः ॥ ६ ॥
न त्वां विना रमति जल्पति नो कदाचिन्नो वा कचिद्धसति तिष्ठति वा सजोषम् ।
शय्यासनाशनविहारविलासकादौ श्रीमान् विभाति भवतैव युतः प्रभुर्नः ॥ ७ ॥
त्वां मन्त्रयत्यविरतं पतिते विचारे प्राणाधिकस्त्वमसि तस्य सुहृत् सखा च ।
त्रैलोक्यभारमखिलं त्वयि न्यस्य रामः शेते सुखं जनकजासहितो विलासी ॥ ८ ॥
यत्कर्मवीर्यमतुलं त्रिजगत्सु वेत्तु कः कल्पते मुनिसुरासुरमानुषेषु ।
तस्य स्वरूपमखिलं खलु तत्त्वतस्त्वं जानासि राघवकुलोद्वह वीर बाहो ॥ ९ ॥
१. ' ' नास्ति-रीवां । २. शुभगं-रीवां । ३. एकांश-रीवां । ४. शर्वेश-रीवां ।

  • २ -
    सर्वे सहोदरपदस्य जुषो वयं स्म तस्योत्तमस्य पुरुषस्य रमेश्वरस्य ।
    भूयस्तथापि भवतैव वशीकृतात्मा विक्रीड़ितुं१ वितनुते भुवि राघवेन्द्रः ॥ १० ॥
    तत्कारणं किमपि लक्ष्मण भिन्नमेवं भाग्याधिकं प्रभुकृपाभरभाजनं यत् ।
    किंवा पुरा त्रिभुवनोत्तमसंविधाभिराराधितः स भगवान् रघुवंशरत्नः ॥ ११ ॥
    लक्ष्मण उवाच
    एवमेव यदात्थ त्वं भरत प्राणसम्मित ।
    श्रीरामस्य दयापात्रमहमेव विशेषतः ॥ १२ ॥
    अयं हि भगवान् साक्षाद्विश्वबीजप्रदः प्रभुः ।
    स्वयंशक्तिः स्वयंज्योतिः पूर्णपूर्णः परात्परः ॥ १३ ॥
    २तस्याहं परमः प्रेयान् मित्रं चैव सखा सुहृत् ।
    सर्वातिगः सर्वगुप्तः सर्वात्मा विश्वतः स्थितः ॥ १४ ॥
    प्रमोदवनलीलासु पर्यायोऽन्यरसालसः ।
    तस्य सर्वासु लीलासु सदा तिष्ठामि सन्निधौ ॥ १५ ॥
    लीलैव ममसर्वस्वं लीलैव मम जीवनम् ।
    अहं लीलारसाभिज्ञो जानकी हनुमाञ्छिवः ॥ १६ ॥
    भवांश्च भरत प्राज्ञ शत्रुहा च विभीषणः ।
    यावान् यस्याधिकारः स्यात्तावत्तस्य प्रदर्शयन् ॥ १७ ॥
    अवतारचरित्राणि मूलचारित्रमेव च ।
    कुरुते जानकीकान्तः स्वाच्छन्द्यरसनिर्भरः ॥ १८ ॥
    तत्राहमस्य परमः सचिवः सुहृच्च मित्रं जनश्च सुजनश्च दयालयश्च ।
    तत्कारणं जगति केवलमेतदेव श्रीजानकीचरणपङ्कज रेणुमात्रम् ॥ १९ ॥
    श्रीरामस्य प्रियाभक्तिर्भावरूपा सतां गतिः ।
    तद्रूपिणी स्वयं सीता सहजानन्दरूपिणी ॥ २० ॥
    सा सैव परमा तस्य रमा त्रैलोक्यसुन्दरी ।
    भक्ताना वैष्णवानां च सा गुरुः समुदीर्यते ॥ २१ ॥
    न तां विना भवेद्दीक्षा रामतत्त्वविभाविनी ।
    तया संसृज्यते लोकः पाल्यते ह्रियतेऽपि च ॥ २२ ॥
    सैव स्वयं राम इति भेदेन समुदीर्यते ।
    राममेव परात्परं परं ब्रह्म रसात्मकम् ॥ २३ ॥
    सीताराम इति ख्यातं त्रिषु वेदेषु कीर्तितम् ।
    न ब्रह्मा न भवो नेन्द्रो नान्ये च त्रिदिवौकसः ॥ २४ ॥
    १. विक्रीडितं-मधु०, रीवा ।
    २. तस्या हं वै प्रेयान्मित्रो सखाहं हि सुहृत्तथा-मधु०, बडौ० ।
  • ३ -
    तस्य तत्त्वं विजानन्ति इदमित्थंतया प्रभोः ।
    स्वच्छन्द एव लीलासु सर्वासु युगलात्मकः ॥ २५ ॥
    युग्मनामा युग्मकेलिर्युग्मभावविनोदवान् ।
    युग्मभूषाविलासाद्यो युग्मस्थानविलासकः ॥ २६ ॥
    युग्मजन्मा युग्मजल्पो युग्मप्रेक्षाविधायकः ।
    प्रभुरेष विलासीनः सदानन्दपयोनिधिः ॥ २७ ॥
    तन्नामामृतपानेन स्वस्थचित्ताः सनातनाः ।
    ऋषयः परमहंसाश्च बहवस्त्यक्तबान्धवाः ॥ २८ ॥
    श्रद्धावन्तो भक्तिवन्तो रामपादनिशेवकाः ।
    मुक्तिं गताः सद्गुरुभिर्ज्ञाततत्त्वाः सुकोविदाः ॥ २९ ॥
    स वै प्रपत्तिमात्रेण जनान् मोचयते भवात् ।
    शत्रुस्तवास्मीति वदन् मत्समः क्रियतेऽचिरात् ॥ ३० ॥
    प्रारब्धक्लेशहरिणी तस्य भक्तिर्निगद्यते ।
    न तच्चरणपाथोजप्रपत्त्या विशते विना ॥ ३१ ॥
    परे ब्रह्मणि स्वानन्दलीलारसविनोदिनि ।
    तल्लीलास्मृतिमात्रेण नरो भवति पावितः ॥ ३२ ॥
    कोटिगङ्गादितीर्थौघवाजपेयादिभिर्मखैः ।
    सा तस्य सहजानन्दविग्रहा स्वैरकेलिनी ॥ ३३ ॥
    नित्यलीला विनोदा च सुखप्राग्भारसम्पदा ।
    तस्याश्चरणपद्मोत्थप्रसादारुणरेणुभिः ॥ ३४ ॥
    पूतात्मा लभते रामं सच्चिदानन्दलक्षणम् ।
    रामभक्तिः स्वयं सीता तद्भक्तं विद्धि मामथ ॥ ३५ ॥
    तद्भक्तं हनुमन्तं च जानीहि पवनाङ्गजम् ।
    एवं प्रवर्तिता भक्तिर्भुवने रामतोषिणी ॥ ३६ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे¹भरतलक्ष्मणसंवादे
    प्रथमोऽध्यायः ॥ १ ॥
    ⁕
    १. पूर्वखण्डे (?) ब्रह्मभुशुण्डसंवादे—बड़ौ० ।

द्वितीयोऽध्यायः
भरत उवाच
कदा साऽऽराधिता देवी जानकी भवता प्रभो ।
यस्याः पदाम्बुजरजःप्रसादेन त्वया मुहुः ॥ १ ॥
अनन्यभक्तिः रामस्य प्राप्ता यानन्यगामिनी ।
अनन्यकरुणा चैव प्राप्ता यानन्यगामिनी ॥ २ ॥
लक्ष्मण उवाच
प्रमोदविपिने रामश्चिक्रीडे रासलीलया ।
ब्रह्मकल्पसहस्त्राणि स्वच्छन्दो निरवग्रहः ॥ ३ ॥
तावत्त्रैलोक्यभारं च मयि दध्रे स्वसम्मते ।
तामसानसुरान् सर्वान् दैत्यांश्चैवापि दानवान् ॥ ४ ॥
श्रीरामकेलिप्रत्यूहानहं जघ्ने तदाज्ञया ।
रामेण पाल्यमानाश्च धेनू रक्षितवानहम् ॥ ५ ॥
ता वै चतुर्वेदऋचो ज्ञानकर्मादिसाधिकाः ।
भक्तिरूपं वनं सद्यो विविशू रामपालिताः ॥ ६ ॥
तदाहं तस्य देवस्य लीलैकरसवर्तिनः ।
परिचर्यामकार्षं वै शयनासनभोजने ॥ ७ ॥
यथा यथा प्रभुस्तुष्येत्तथा कार्यं मया शनैः ।
प्रमोदवनलीलेशी सहजेयं तदाभवत् ॥ ८ ॥
या देवी जानकीत्यत्र कीर्तिता शुभनामिनी ।
कदाचिद्रासवलयेक्रीडन्तं व्रजशक्तिभिः ॥ ९ ॥
दृष्ट्वा प्रियतमं देवी मानतप्ता बभूव ह ।
इतश्च श्रीरामचन्द्रो विरहव्याधिपीडितः ॥ १० ॥
तदाहं ऋतुराजस्य रूपं दध्रे मनोहरम् ।
रसालमञ्जरीयत्तमत्तभ्रमरनादितम् ॥ ११ ॥
मनोज्ञकोकिलालापकूजत्पुंस्कोकिलाकुलम् ।
मलयानिलसौरभ्यसम्पर्किद्रुमराजितम् ॥ १२ ॥
अनेकद्रुमसंदोहमञ्जरीरजसाकुलम् ।
कुञ्जमण्डपसानन्दनिकूजच्छुकसारिकम् ॥ १३ ॥
प्रसन्नसलिलोत्फुल्लपङ्कजालिसुगन्धिकम् ।
हंससारसचक्राह्वकादम्बप्रमदाकरम् ॥ १४ ॥

– ५ –
कुलाङ्गनामनोंमानभञ्जनोद्धुरशक्तिकम् ।
अनेकपुष्पसंदोहरजोभिश्चनिशायितम् ॥ १५ ॥
स्मरलीलावहः हेमकेतकीधूलिधूसरम् ।
तत्काललसितोद्यानरामणीकरोचितम् ॥ १६ ॥
नवपल्लवलौहित्यसूर्यातपविभासितम् ।
फुल्लत्किंशुकवृक्षौघलोहितीकृतदिक्तटम् ॥ १७ ॥
अथोदियाय पूर्णेन्दुः प्राचीदिङ्मुखमण्डनः ।
फुल्लत्कुवलयारण्यकरसंचारकोविदः ॥ १८ ॥
चकोरकामिनीचारुचञ्चुपुटविकासकः ।
तदा सा सहजानन्दा कलहान्तरिताभवत् ॥ १९ ॥
ईशश्च सुतरां तावद्विरहाकुलमानसः ।
प्राप्ताः प्रियसखीर्वीक्ष्य केलीमण्डपमागमत् ॥ २० ॥
तत्रैतयोः सुभगयोः प्रपञ्चोत्तरकामिनोः ।
समागमः समभवत्परमानन्दकारकः ॥ २१ ॥
आकालिकं वसन्तं च दृष्ट्वासौ भक्तवत्सलः ।
मयि पूर्णां कृपा चक्रे ज्ञातसारोऽखिलेश्वरः ।
सन्तुष्ट इदमाहासौ मम भाग्यैकवर्धनः ॥ २२ ॥
श्रीराम उवाच
भ्रातर्धन्योऽसिधन्योऽसि मम दुःखनिवारकः ।
त्वं हि मे लीलया नित्यं सन्तुष्टो भक्तिभावितः ॥ २३ ॥
एवमेव सदा तिष्ठ मम लीलैकवीक्षकः ।
गुप्ताश्च प्रकटाश्चैव यावत्यो मम केलयः ॥ २४ ॥
तावतीनां त्वमेवैकः साक्षी भव महामते ।
दृष्ट्वा प्रभोः कृपापात्रं जानकी प्राह मां ततः ॥ २५ ॥
इयं हि परिचर्या ते मम संतोषवर्द्धिनी ।
अनया परितुष्टाहं ददामि कामितं वरम् ॥ २६ ॥
यथा त्वं मम भक्तोऽसि तथेशस्यापि वै भव ।
अनन्यगामिनीयं मे कृपा भवति वर्द्धताम् ॥ २७ ॥
इति दत्तवरं मां सा वनरक्षानियोजितम् ।
विसृज्य सहजानन्दा रेमे स्वप्रेयसा सह ॥ २८ ॥
तदावधि तयोर्भूरिकृपयाऽऽनन्दितोऽस्म्यहम् ।
एतत्ते कारणं प्रोक्तं रामानुग्रहवस्तुनि ॥ २९ ॥

  • ६ -
    अचिन्त्यैव कृपा तस्य युग्मलीलाविनोदिनः।
    न कर्मभिर्न तपसा न ज्ञानेन न चेज्यया ॥ ३० ॥
    सुलभा तत्कृपा कापि फलरूपादि सा यतः।
    तस्यां च परिलब्धायां न लभ्यान्तरमिष्यते ॥ ३१ ॥
    तथापि कर्मभिर्दिव्यैः पूतात्मानं परायणम्।
    ज्ञानसंशुद्धचित्तं च भक्तिद्रुतसुधान्वितम् ॥ ३२ ॥
    श्रीपादपद्मरजसा स्वाभिषिक्त शुभोदयम्।
    सोऽनुगृह्णाति वै भक्तं नित्यलीलान्तवैभवम् ॥ ३३ ॥
    ब्रह्मादयोऽपि यस्यान्तं न ययुदुर्लभात्मनः।
    अनायासेन सुलभः स लीलारसभावनात् ॥ ३४ ॥
    एवं शुकादयः सर्वे प्रेमभक्तिविभाविताः। ‘
    प्रवेशिताः स्वात्मरसे तेनैव प्रभुना सखे ॥ ३५ ॥
    सर्वसाधारणोऽप्येष स्वभक्तानां विशिष्यते।
    नैतावतास्य वैषम्यं लीलैकरसनिर्वृतेः ॥ ३६ ॥
    स यदा ब्रह्मभावेन वर्तते ज्ञानवेदितः।
    तदा सर्वापि मर्यादा विद्यते तस्य नान्यदा ॥ ३७ ॥
    एक एव द्विधा जातो भगवान् भावभावितः।
    ब्रह्म ब्रह्मेतिज्ञानेन ईश ईशेतिभक्तितः ॥ ३८ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे¹ भरतलक्ष्मणसंवादे
    द्वितीयोऽध्यायः ॥ २ ॥
    ✤
    तृतीयोऽध्यायः
    ब्रह्मोवाच
    इति श्रुत्वा स भरतः परमोत्कण्ठमानसः।
    ज्ञानस्य चापि भक्तेश्च विशेषं परिपृच्छति ॥ १ ॥
    भरत उवाच
    किं ज्ञानं का च सा भक्तिर्यया स वशतां व्रजेत्।
    एतन्मे कथय भ्रातुरुभयोस्तत्त्वनिश्चयम् ॥ २ ॥
    १. पूर्वखण्डे (?)-बड़ो० ।

रामलीलानित्यरसास्वादैकपरवाञ्छकः ॥ १४ ॥

Line 27:
रामलीलागुणाख्यातिं नामसप्रेममानसः ।
Wait, let's check गुणाख्यातिं:
ग + ु + ण + ा + ख + ् + य + ा + त + ि + ं = गुणाख्यातिं.
And नामसप्रेममानसः:
न + ा + म + स + प + ् + र + े + म + म + ा + न + स + ः.

Line 28:
राम धाम च पूर्वोक्तं निर्गुणं ब्रह्म वै विदन् ॥ १५ ॥

Line 29:
रामलीलालोकरूपाद्यखिलं तन्मयं विदन् ।
Wait, let's check:
र + ा + म + ल + ी + ल + ा + ल + ो + क + र + ू + प + ा + द + ् + य + ख + ि + ल + ं
= `

नित्यलीलारसानन्दी नित्यलीलैकभावकः ।
हंसः परमहंसश्च परब्रह्ममयो हि सः ॥ १९ ॥
महाभक्तराजः साक्षात्परः श्रीरामोपासकः ।
श्रीर्नामसीता सहजा स्वनन्दानन्दरूपिणी ॥ २० ॥
रामसम्पन्मयी शेषा शेषाशेषरसात्मिका ।
सा यत्र गुरुतां गच्छेत् ते वै श्रीरामोपासकाः ॥ २१ ॥
समस्तवैष्णवाग्र्याश्च सर्वदैवतपूजिताः ।
न तेषां तुल्या कश्चित् ससुरासुरमानवे ॥ २२ ॥
तं दृष्ट्वा प्रणमन्त्येव सकला दैवतोत्तमाः ।
तद्गात्रच्छायाया स्पृष्टाः पूयन्ते देवना अपि ॥ २३ ॥
तदागमनमात्रेण पूयन्ते यज्ञकोटयः । *
तदुच्छिष्टाशनात्सद्यो ब्रह्मज्ञो जायते नरः ॥
यत्र देशे स्थिताह्येते स देशो गाङ्गपावितः ॥ २४ ॥
ब्रह्मादयस्तं स्पृहयन्ति सर्वे शक्रादयस्तस्य दासानुदासाः ।
ईशादयो ह्यस्य तुलां कथञ्चिद् वाञ्छन्ति धर्तुं पुरुषोत्तमस्य ॥ २५ ॥
भरत उवाच
स्वयं स भगवान् रामः परब्रह्मस्वरूपधृक् ।
कथं दशरथस्यैष सदने समवातरत् ॥ २६ ॥
अप्राकृतः प्राकृताकारो ह्यस्मभिः सकलैःसह ।
इति संचोदितो भ्रात्रा लक्ष्मणः प्रत्यवोचत१ ॥ २७ ॥
पूर्वं प्रमोदवन एव विभाति देवो देव्या स्वयं परमया रमया मया च ।
युक्तः समस्तगुणमङ्गलशीलमूर्तिः स्वानन्दसिन्धुरसराजितदिव्यलीलः ॥ २८ ॥
सरय्वाः पारद्वयोर्ऋद्धि ब्रह्मत्रिगुणातिगम् ।
श्रीराममहसा व्याप्तं ब्रह्मानन्दरसात्मकम् ॥ २९ ॥
तदाधारीकृत्य महाप्रेमानन्दरसात्मकः ।
श्रीरामलोक इति स विख्यातः श्रीमहोमयः ॥ ३० ॥
सहजालोक इति च ख्यातः कामरसात्मकः ।
यत्र प्रमोदविपिनं सर्वर्तुकुसुमाकरम् ॥ ३१ ॥
सर्वर्तुफलशोभाढ्यं सर्वर्तुसुखसंयुतम् ।
सर्वर्तुरसभोगाढ्यं सर्वर्तुगुणभूषितम् ॥ ३२ ॥
यत्र कामदुघा नीरैः सरयू रसपूरिता ।
रामभक्तिप्रदा साक्षात्सुरसैव तरंगिणी ॥ ३३ ॥
१. प्रत्युवाच तम्-बड़ो० ।

– ९ –
तस्यास्तरंगकल्लोलपूरितः सर्वतोदिशम् ।
पवनः कुरुते लोकान् मूर्खानपि चतुर्भुजान् ॥ ३४ ॥
श्रीरामरमणीरम्यकुचचन्दनभाविनी ।
तरंगचन्दनालेपकर्त्री श्रीसरयू सरित् ॥ ३५ ॥
यत्र रत्नाद्रिरुदयत्सानुकान्तिमनोहरः ।
सौवर्णे राजतैश्चापि¹ माणिक्यसुभगैः पुनः ॥ ३६ ॥
शिखरैर्माजिते शैलो रामक्रीडारसालयः ।
तस्मिन् सहजया युक्तो निभृतं रामचन्द्रमाः ॥ ३७ ॥
कुञ्जाभ्यन्तरकुञ्जेषु नित्यं क्रीडति विभ्रमैः ।
तत्कन्दरासु सततं मणिदीपोज्ज्वलास्वपि ॥ ३८ ॥
पुष्पशय्यासु सुरतं सेवते रामचन्द्रमाः ।
तस्य तुङ्गेषु शृङ्गेषु संध्यातपपिशङ्गिषु ॥ ३९ ॥
सहजारामयुगलं राजते काञ्चनोज्ज्वलम् ।
तस्य छायाश्रयान्नित्यं सरयू शीतलोदका ॥ ४० ॥
तद्रत्नशिखरच्छाया व्याप्नुते नाकमण्डलम् ।
तस्य गुहासु वीथीषु सीतारामौ विराजतः ॥ ४१ ॥
यत्र साकेतनगरी प्रेमानन्दरसात्मिका ।
तस्यां दशरथो राजा रामवात्सल्यवासितः ॥ ४२ ॥
प्रमोदविपिनोच्छिष्टप्रेमभाजनभावितः ।
यत्र सा काञ्चनी भूमिर्माणिक्योपलनिर्मिता ॥ ४३ ॥
यत्र रामसरो नाम विविधोत्पलसुन्दरम् ।
मत्तभ्रमरगुञ्जाढ्या यत्र ताः कुञ्जभूमयः ॥ ४४ ॥
एवं सहजसौन्दर्यं प्रमोदवनमुत्तमम् ।
स्वयं स भगवांस्तत्र सीतयापि मयापि च ।
भाति लीलारसं बिभ्रद् रामः परमसुन्दरः ॥ ४५ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे² भरतलक्ष्मणीये
तृतीयोऽध्यायः ॥ ३ ॥
✤
१. चारु—बड़ौ० ।
२. पूर्वखण्डे (?)—बड़ौ० ।
२

चतुर्थोऽध्यायः
भरत उवाच
कथं लीलारसं तेने प्रमोदवनचन्द्रमाः ।
एतन्मम समाचक्ष्व श्रीरामप्रिय लक्ष्मण ॥ १ ॥
कथं च सहजादेव्या चिक्रीडे रामसुन्दरः ।
किमेकरूपो बहु वा प्रमोदविपिने रसः ॥ २ ॥
आविर्भावि कथं चात्र प्रमोदविपिनान्तरे ।
स्वैरस्य पूर्णकामस्य निष्कामपदभागिनः ॥ ३ ॥
किमेष सगुणो वोत निर्गुणः पुरुषः परः ।
विश्वात्मा विश्वकर्त्ता च रामो विश्वातिगो गुणैः ॥ ४ ॥
एवं प्रियकथाः शृण्वन्न तृप्यामि प्रियस्य मे ।
स्वयं भगवतो भ्रातुः सुहृदः सख्युरात्मनः ॥ ५ ॥
लक्ष्मण उवाच
साधु पृष्टं त्वया भद्र साधु संस्मारितोऽस्मि तत् ।
प्रमोदनविश्रान्तिलीलाविलासिते सखे ॥ ६ ॥
श्रीरामनित्यसंसर्गी सर्वं चानुबभूविथ ।
तथापि तन्मायया त्वं न स्मरस्यद्भुतं हि तत् ॥ ७ ॥
नित्यमस्ति स्वयं रामः प्रमोदविपिने वसन् ।
तथापि ते प्रवक्ष्यामि कालेनाविर्भवं विभोः ॥ ८ ॥
रामस्यैव कलाव्यूहः श्रीमान् नारायणः प्रभुः ।
रमावैकुण्ठनिलयो रमया नित्यसेवितः ॥ ९ ॥
सहजांशस्वरूपिण्या प्रमोदविपिनांशके ।
वैकुण्ठे चिदचिद्रूपस्वरूपानन्दविग्रहः ॥ १० ॥
हरिः संतोषयामास ब्रह्मण्यो ब्राह्मणोत्तमान् ।
ततः सानुशयास्ते वै प्रोचुर्लज्जानताननाः ॥ ११ ॥
सनकाद्या ऊचुः
अहो अनार्यमस्माकं कर्मैतद् दुष्टचेतसाम् ।
यदीश तावकौ दिव्यौ शप्तौ पार्षदसत्तमौ ॥ १२ ॥
इहापि चागत्य कुभाव एष रोषाधोनामीशसेवातिगानाम् ।
न यत्र माया च मदो न मत्सरो न क्षुल्लकानां गमनं च दृश्यते ॥ १३ ॥

  • ११ -

तत्रागता वयं तावच्छ्रीकृपाभाजनत्वतः ।
अनुगृह्णापि नाविद्या श्रीमतापहृता कुतः ॥ १४ ॥
श्रीभगवानुवाच
द्वारपावेव विप्रेन्द्रा इमौ दुर्मदपीडितौ ।
स्वशापहेतुतां यातौ स्वयमेव न संशयः ॥ १५ ॥
ममैवाभिमतार्थाय शाप एष भविष्यति ।
काले करिष्यत इमौ वीरलीलारसं मम ॥ १६ ॥
जन्मभिस्त्रिभिरेतौ वै विशुद्धौ च भविष्यतः ।
त्रिभिश्चैवावतारेमें वीरकेली भविष्यति ॥ १७ ॥
इति प्रसाद्य भगवान् महर्षीन् व्यसृजद्विभुः ।
हिरण्यकशिपुर्वीरो हिरण्याक्षस्तथापरः ॥ १८ ॥
अभूतां भुवने तौ च देवराज्यापहारकौ ।
सर्वत्रैलोक्यदुर्धर्षौ तपोघोरतयोल्बणौ ॥ १९ ॥
यज्ञभागाशिनौ ब्रह्मविष्णुभागादिलोपिनौ ।
स्वयं सूर्यौ स्वयं चन्द्रौ स्वयमिन्द्रौ स्वयं विधी ॥ २० ॥

  • १२ -
    रेवातीरे च गौतम्यास्तीरे सीमातटे तथा ।
    काबेरीपुलिने कृष्णातटे गङ्गातटे तथा ॥ ३० ॥
    यमुनायास्तटे चापि पुण्यशैलतटेषु च ।
    चण्डीशं समुपासीनो देव्या चण्डिकया सह ॥ ३१ ॥
    वेदाभ्यासं प्रकुर्वाणस्त्रैलोक्य भयदोऽसुरः ।
    आजहार महायज्ञान् वहून सोऽध्वरदीक्षितः ॥ ३२ ॥
    त्रैलोकयं तापयामास तपस्तेजोभिरुद्गतैः ।
    लक्षवर्षाणि विषमं स तेपे दुश्चरं तपः ॥ ३३ ॥
    शम्भुलब्धवरः प्रायः लङ्काराज्यं महोदयम् ।
    त्रैलोक्यं करदीकृत्य जृम्भते राक्षसेश्वरः ॥ ३४ ॥
    स याति हरसेवार्थं कैलासे नित्यमूर्ध्वगः ।
    लङ्कायाः परतश्चापि देवी श्रीवरदेश्वरी ॥ ३५ ॥
    सुवर्णपर्वते भाति तत्सेवार्थं च नित्यशः ।
    प्रयाति लोकराज्येन्द्रो रावणो लोकरावणः ॥ ३६ ॥
    कदाचिदलसोभूत्वा स इत्थं समचिन्तयत् ।
    शंकर चाम्बिकां देवीमेकीकृत्य क्षणादुभौ ॥ ३७ ॥
    स्वगृहे वासयिष्यामि बलादानीय पर्वतम् ।
    इत्युक्त्वा सहसोत्थाय कैलासं शिखरं बली ॥ ३८ ॥
    लङ्कामागन्तुमारेभे ततः क्रुद्धोऽभवद्धरः ।
    किमेष गृहचालोऽद्य नन्दिन् हेतुर्विलोक्यताम् ॥ ३९ ॥
    क्रुद्धं हरं समालोक्य नन्दी पर्यचलद्ध्यये १ ।
    ततस्तयोः समभवत् संग्रामो भृशदारुणः ॥ ४० ॥
    परस्परप्रजविनोर्नन्दिनो रावणस्य च ।
    पाषाणैश्च तथोल्काभिर्वज्रपोतैश्च दारुणैः ॥ ४१ ॥
    द्रुमैः शिलाभिः परिघैर्नानायुधनिपातनेः ।
    मूर्द्धना वहन् गिरेः शृङ्गं रावणो युयुधे बली ॥ ४२ ॥
    ततः पराजितो नन्दो रावणेन महौजसा ।
    महाप्रहारिणा भूयो रणदुर्मदबाहुना ॥ ४३ ॥
    भृशं निष्पीडितो नन्दी मूच्छितो न्यपतद्भुवि ।
    पृथ्व्यां पतितं प्राह मिषन्तं नन्दिनं बली ॥ ४४ ॥
    १. ह्यमिति वेगवाचकम् ।

word again:
स द्य स्त त पा ज
Wait, is that a द्य?
Look at द्य in line 7: तदैव ते वधो भूयाद्यदि -> द्य.
Notice how द्य is written: द with a loop at the bottom curving down-right.
Now look at line 8:
After स, the letter is:
A letter with a vertical stem on the right? No, it has a horizontal top, a loop down, then a tail. That is च!
WAIT! IS IT च?
Look at उवाच: च has a flat top, a loop to the left, and a vertical stem.
Does the letter after स have a vertical stem?
YES, IT DOES!
Wait, स then च?
Wait, look at the letter after स:
It's च? But there is something under it?
No, wait! Look at line 8:
शै ल ं then a space, then:
स
Then a letter that looks like: च with a vertical line?
Wait, no, look at सद्यस्ततपाज:
Could it be सद्यस्तत्याज?
Let's look at how the printer

  • १४ -
    दूतावूचतुः
    प्रभो काचन देवी वा राक्षसी मानुषी च वा।
    गान्धर्वी नागकन्या वा शैली वा वनदेवता ॥ ९ ॥
    सागरस्यसुतावापि सिन्धुद्वीपे तपस्यति ।
    न तस्यास्तुल्या काचिद्दृष्टा वापि श्रुताभवे ॥ १० ॥
    सर्वोपमा सुरूपाङ्गी सर्वावयवसुन्दरी ।
    सर्वसौन्दर्यपाथोधिवाङ्मनोगोचरप्रभा ॥ ११ ॥
    सहस्रचन्द्रज्योत्स्नेव तस्या वदनचन्द्रिका।
    कोटिरत्नप्रभातुल्या तस्याः पादनखच्छविः ॥ १२ ॥
    कोटिनक्षत्रमालेव तस्याः सर्वाङ्गगा छविः।
    विभाति चञ्चलापाङ्गी तपस्यन्त्यपि सागरे ॥ १३ ॥
    नैतच्छपं विजानीमः किमिच्छन्ती तपस्यति।
    प्रायो नास्याः समः कश्चित्रिषु लोकेषु वै वरः ॥ १४ ॥
    ब्रह्मा द्विजो वराकश्च कर्मकाण्डपरश्च सः।
    विष्णुर्वैराग्यशाली च ज्ञानी जगति निःस्पृहः ॥ १५ ॥
    रुद्रः श्मशानचारी च तपस्वी भस्मधूसरः।
    भूतसंगी त्रिनेत्रश्च जटी प्रकृतिभीषणः ॥ १६ ॥
    अन्ये वराकाः किं देवास्त्वद्योग्या केवलं हि सा।
    त्वयैव गृह्यतां नाथ पाणिग्रहविधानतः ॥ १७ ॥
    योषिद्रत्नं वरं दिव्यं न त्व संत्यज्यतां प्रभो।
    इत्युक्तो रावणस्ताभ्यां पातस्तत्र स्मरोद्धुरः ॥ १८ ॥
    यत्र सा सुन्दरी देवी सिन्धुमध्ये तपस्यति।
    तद्रूपदर्शनोद्भूतस्मरनाराचपीडितः ॥
    तामादातुं यतितवानतिदुर्धर्षविग्रहाम् ॥ १९ ॥
    रावण उवाच
    का त्वं तपस्यसे सुभ्रु किमर्थं च वरानने।
    कश्च ते जनकः ख्यातः किमर्थं भजसे न माम् ॥ २० ॥
    त्वादृशी सुन्दरी देवि मम शोभिष्यसे गृहे।
    अहं त्रैलोक्यनाथोऽस्मि लङ्काया अधिपः स्फुटम् ॥ २१ ॥
    त्वामहं हि ग्रहीष्यामि पाणिग्रहणलीलया।
    कोऽन्यो मयि स्थिते भूमौ भविता च पतिस्तव ॥
    इत्युक्ता तेन सा क्रुद्धा सक्रोधमिदमब्रवीत् ॥ २२ ॥
  • १५ -
    स्त्र्युवाच
    स्वयं लक्ष्मीरहं तावत्तपस्यामि गरीयसे ।
    वराय विष्णवे सर्वत्रैलोक्यस्थितिहेतवे ॥ २३ ॥
    न हि तस्मात्परो भावः श्रुतो दृष्टोऽथवा क्वचित् ।
    त्रिजगज्जनितं तस्मात् पाल्यते तेन लीलया ॥ २४ ॥
    तेनैव ह्रियते भूयः स्वच्छन्दनिजकेलिना ।
    न तत्समश्चाभ्यधिकस्त्रिषु लोकेषु विद्यते ॥ २५ ॥
    स्वयं स भगवान् साक्षात् पूर्णः स्वगुणमङ्गलः ।
    कल्याणरूपो भक्तानामभक्तानां निषूदनः ॥ २६ ॥
    असुराणां दानवानां दैत्यानां च निषूदनः ।
    विश्वाधारोऽतिगम्भीरो समुद्रश्च पिता मम ॥ २७ ॥
    योऽसौ तव पुरीरक्षां करोति परिखायतः ।
    त्वं चासुरो नीचबुद्धिः प्रकृत्या राक्षसः खरः ॥ २८ ॥
    तत्रापि विमुखो विष्णोर्वेदब्राह्मणलोपकः ।
    क तत्र गण्यसे यत्र ब्रह्माद्या अप्यनादृताः ॥ २९ ॥
    मा मैवं संस्पृश रिपोभावदुष्टेन पाणिना ।
    इत्युक्तो रावणः क्रुद्धः प्रत्युवाच समुद्रजाम् ॥ ३० ॥
    अये भ्रान्ताशये नूनं केन त्वमसि वञ्चिता ।
    त्रैलोक्येशमनादृत्य दीनं स्पृहयसे वरम् ॥ ३१ ॥
    एवं चेत्तर्हि सुमुखि मद्देशे किं तपस्यसि ।
    आब्रह्मस्तम्बपर्यन्तं जगन्मम वशानुगम् ॥ ३२ ॥
    यदि त्वमेका न वशे तर्हि शोच्यासि सम्प्रति ।
    त्वां बलेनैव नेष्यामि रुदन्तीं स्वात्मदोषतः ॥ ३३ ॥
    स्त्रीणां खलु दृढो दोषः पुरुषेण निवार्यते ।
    ततस्तमाह सा देवी निःश्वसन्ती रुषारुणा ॥ ३४ ॥
    दुष्ट त्वं मां तपस्यन्तीं निवारयसि किं वृथा ।
    कुतो न वारयसि तान् सप्तर्षीन् हि तपस्यतः ॥ ३५ ॥
    ये त्वां दहेयुः सहसा धर्मकर्मैकलोपिनम् ।
    किं चाप्यजनिता कश्चित्तव प्राणनिषूदनः ॥ ३६ ॥
    स एव भविता देवो मम लोकोत्तरो वरः ।
    मा ज्वालीर्गुरुगर्वेण तामसेनान्ध तामस ॥ ३७ ॥
    इत्युक्त्वा वचनं देवी तिरोभूता तदग्रतः ।
    प्रमोदविपिने रम्ये प्रादुर्भावं तदाकरोत् ॥ ३८ ॥
  • १६ -
    आनन्दिनी नन्दनाख्यगोपराजस्य वै गृहे।
    राजिका गोपमहिषी गर्भरत्नमहोदया ॥ ३९ ॥
    माघे मासि सिते पक्षे पञ्चम्यां शुभवासरे।
    अश्विनीशुभनक्षत्रे शुभयोगे शुभोदये ॥ ४० ॥
    ततः प्रसन्नमखिलं जगदासीत् समंततः।
    रावणारिपराभूताः सुराश्चासन् सुनिर्वृताः ॥ ४१ ॥
    ववृषुः पुष्पवर्षाणि जगुर्गन्धर्वनायकाः।
    देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ ४२ ॥
    तदाधिदैविकः कालः प्रादुर्भावितवान् गुणान्।
    विकासं लेभिरे सद्यो लतास्तरव एव च ॥ ४३ ॥
    सरांस्युत्फुल्लपद्मानि सुगन्धिसलिलानि च।
    दिदीपिरेऽग्नयश्चैव यज्ञशालासु दक्षिणम् ॥ ४४ ॥
    ववुः सुगन्धयो वाताः सरयूवीचिशीतलाः।
    एवं जगत्प्रमोदाय तज्जन्मदिवसोऽभवत् ॥ ४५ ॥
    नन्दनस्य गृहे साक्षात्स्वयं लक्ष्मीर्यदाभवत्।
    तदा समृद्धिरभवद् गोकुले रम्यसम्पदि ॥ ४६ ॥
    व्रजः सर्वश्रिया युक्तः सर्वसम्पत्समृद्धिमान्।
    माङ्गल्यासुखितपोश्चापि भाविमाङ्गल्यसूचकः ॥ ४७ ॥
    सा संजाता व्रजे स्वांशैर्व्रजस्त्रीभिरनेकधा।
    उभयोस्तीरयोर्गर्मिष्वाभीराणां गृहे गृहे ॥ ४८ ॥
    गोप्यः कमलपत्राक्ष्य ऊढाश्चैवापि कन्यकाः।
    रामलीलाविनोदार्थं देवानां च तथाङ्गनाः ॥ ४९ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    रामजन्मोपाख्याने पञ्चमोऽध्यायः ॥ ५ ॥
    ✤

षष्ठोऽध्यायः
लक्ष्मण उवाच
एवमेव मया पृष्टः श्रीरामो रसवर्द्धनः।
यदाह तत्ते वक्ष्यामि रहस्यं रसवद्र्धनम् ॥ १ ॥
राम उवाच
नित्यं स्थितोऽप्यहं तात प्रमोदविपिनान्तरे।
अधुनाऽऽविर्भविष्यामि भक्तानां कार्यसिद्धये ॥ २ ॥
अवतारार्थसिद्धयै च साकेतपुरकेलये।
इत्युक्त्वा रघुवंशेऽस्मिन् प्रादुर्भूतोऽद्य सम्प्रति।
अस्माभिः सहितो भाति प्रमोदवनचन्द्रमाः ॥ ३ ॥
पूर्वं जातो दशरथगृहे रावणस्याथ भीत्या
श्रीमाङ्गल्यं सुखितसदने रक्षितोऽस्याविशेषम्।
स्नेहार्द्राभ्यांवसतिमधुरो भूरिभावेन ताभ्यां
माभीरीभिः प्रणयखचितो भूरिभावोपयुक्तः ॥ ४ ॥
आनन्दाब्धिर्नटवरवपुर्नन्दनापत्यरत्नं
दृष्ट्वा जीवनप्रकृतिसहजां श्रीमतीं मोदिनीं ताम्।
अन्यां लीलां स्वजनसुखदां कर्तुमिच्छुः स्वशक्त्या
भर्तेदानीं दशरथगृहे शोभते प्राप्तएषः ॥ ५ ॥
अस्यानुरोधात्सहजापि देवी प्राप्ता निजांशेन निमेश्च वंशे।
राजाधिराजोजनकस्यगेहे सुलोचनागर्भमनोज्ञरत्नम् ॥ ६ ॥
रम्यातिरम्ये मिथिलाख्यदेशे सुवर्णभूमौ खलु यज्ञवेद्याम्।
माणिक्यदिव्यत्कलशान्तरालतः समुद्गता कोटितडिच्छदेव ॥ ७ ॥
अथाविरासन् सरितो नव शीतसुधोदकाः।
त्रियुगा कमलेशी च गण्डक्यप्यद्यवारिणी ॥ ८ ॥
द्युम्ना घोषवती चैव वनघोषा च सप्तमी।
अष्टमी च स्वयं लक्ष्मीः कौशिकी नवमो स्मृता ॥ ९ ॥
सुवर्णहलकृष्टायां भूमौ वेद्यां मखस्य च।
सुवर्णकलशीमध्याज्जलधारा विनिर्ययुः ॥ १० ॥
तासां मध्ये विस्फुरन्ती कोटिचन्द्रार्कदीधितिः।
सद्यः प्रादुर्भूद्देवी सहजा जनकालये ॥ ११ ॥
रामप्रिया या प्रथमं प्रमोदवनकुञ्जगा।
नवभिर्दिव्यधाराभिरभिषिक्ता समंततः ॥ १२ ॥
३

  • १८ -
    रत्नपीठस्थिता लोकमहासाम्राज्यभाजनम् ।
    तस्यामभ्युदितायां तु मुमुदे जनको नृपः ॥ १३ ॥
    राज्ञी सुनयना वापि हर्षोत्फुल्लाननाभवत् ।
    याज्ञवल्क्यश्च भगवान् दारास्तस्य महौजसः ॥ १४ ॥
    अरुन्धती वशिष्ठश्चाप्यहल्या गौतमस्तथा ।
    शतानन्दश्च योगीशो नव योगेश्वरास्तथा ॥ १५ ॥
    निवसन्तो नित्यमेव जनकस्यालये चिरात् ।
    ददृशुस्ते शुभं तस्या जन्म कर्म गुणान्वितम् ॥ १६ ॥
    धवले माधवे मासि नवम्यां मङ्गले दिने ।
    शुभे भद्राख्यनक्षत्रे शुभयोगे च जानकी ॥ १७ ॥
    ऊर्मिलापि ततो रत्नकलशाच्चक्र उद्भवम् ।
    माण्डवीश्रुतकीर्तिश्च वामदक्षिणपार्श्वयोः ॥ १८ ॥
    अथो जनकराजस्य सदने दुन्दुभिरवाः ।
    पटहध्वनयश्चापि वितेनुर्महती मुदम् ॥ १९ ॥
    देवदुन्दुभयश्चापि नेदुर्व्याहतक्रमाः ।
    सर्वं जगत्सुखमासीदानन्दामृतवर्षणात् ॥ २० ॥
    कञ्जद्रुमाः पल्लविताः समंततो वसन्तलक्ष्मी समवातरद्भुवि ।
    समञ्जरीकैस्तरुभी रसालैश्चम्पैयाद्यैर्विभरे पुष्पराशिः ॥ २१ ॥
    धरणी सहसाऽऽगम्य पृथ्वीलोका स्मितानना ।
    सुवेशं रूपमास्थाय जनकस्यापुरःस्थिता ॥ २२ ॥
    रत्नपर्यङ्किकामध्येनिवष्ण्णां स्वसुतां पराम् ।
    कमलामर्पयन्त्यस्मैप्रोवाच मुनिमण्डले ॥ २३ ॥
    धरण्युवाच
    भूरहं भगवत्पादकमलस्पर्शजाङ्कुरा ।
    ममेयं हृदयात्सारभूता प्रेममयाकृतिः ॥ २४ ॥
    समुद्गता नाम सीता मया तुभ्यं प्रदीयते ।
    इयं श्रीः श्रीरामप्रेमभाजनं रक्ष्यतां त्वया ॥ २५ ॥
    अनया ज्ञानगम्यस्य प्रेम्णा पारंगतो भवान् ।
    प्राप्स्यसे तत् परंब्रह्म सच्चिदानन्दविग्रहम् ॥ २६ ॥
    श्रीरामचन्द्रं रसिकं सर्वावतारसागरम् ।
    स समायास्यति वै हि भगवान् पुरुषोत्तमः ॥ २७ ॥
  • १९ -
    चतुर्भिंरशैः संजाता तेनेयं परमेश्वरी ।
    रच्यतां जनकाधीश कलधौततनुः सुता ॥ २८ ॥
    इत्यर्पयित्वा जनकाय मेदिनी तिरोबभूव द्रुतमेव देवी ।
    नैभ्यः पुनर्भूपतिः प्रियायै समर्पयामास सुलोचनायै ॥ २९ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मोपाख्याने
    षष्ठोऽध्यायः ॥ ६ ॥
    ∗</p>
    सप्तमोध्यायः
    लक्ष्मण उवाच
    ततः सुनयना देवी सम्प्राप्य नृपतेः करात् ।
    कन्यारत्नं प्रमुदिता बभूव महिषीवरा ॥ १ ॥
    ततस्ताः सहजासख्यः सहर्षाः सरितो नव ।
    ऊचुर्जनकराजानं सीतासंगमलालसाः ॥ २ ॥
    त्रियुगोवाच
    अहमस्याः सखी नित्यं निवसामि च सन्निधौ ।
    अस्याः पिता त्वं संवृत्तो ममापि च तथैव हि ॥ ३ ॥
    कमलेश्युवाच
    अहं मन्दरशैलस्य कन्या या कमलेश्वरी ।
    सहजाया नियसखी प्रादुर्भूता सहानया ॥
    यथा स्याः साम्प्रतं तद्वन्ममापि त्वं पिता भव ॥ ४ ॥
    गण्डक्युवाच
    सालिग्रामशिलाक्षेत्रे गण्डक्यस्मि महानदी ।
    सहजायाः सखी तेन ममापि त्वं पिता नृप ॥ ५ ॥
    श्रधवारोवाच
    अहमस्याः सखी काचिदधवाराभिधा सरित् ।
    तव कन्याहमधुना मत्सखी सहजा पितः ॥ ६ ॥
    धुम्नोवाच
    अहं धुम्ना नदी तात सहजायाः परा सखी ।
    यथा त्वमस्या जनको ममापि जनको भव ॥ ७ ॥