सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

LIST OF BOOKS FOR SALE
AT THE LIBRARY OF THE
ASIATIC SOCIETY OF BENGAL,
No. 57, PARK STREET, CALCUTTA.
AND OBTAINABLE FROM
THE SOCIETY'S LONDON AGENTS, MESSRS. TRÜBNER & CO.
57 AND 59, LUDGATE HILL, LONDON, E. C.

BIBLIOTHECA INDICA.
Sanskrit Series.
Atharvaṇa Upanishad, (Sanskrit) Fasc. I—V @ /6/ each .. Rs. 1 14
Agni Puráṇa, (Sans.) Fasc. I—XIV @ /6/ each .. 5 4
Aitareya Áraṇyaka of the Rig Veda, (Sans.) Fasc. I—V @ /6/ each .. 1 14
Aphorisms of Śáṇḍilya, (English) Fasc. I .. 0 6
Aphorisms of the Vedánta, (Sans.) Fasc. III, V—XIII @ /6/ each .. 3 12
The Asvavaidyaka, Fasc. I—V @ /6/ each .. 1 14
Asvalayana Grihya Sutra, Fasc. II—IV @ /6/ each .. 1 2
Brahma Sútra, (English) Fasc. I .. 0 12
Bhámatí, (Sans.) Fasc. I—VIII @ /6/ each .. 3 0
Brihad Áraṇyaka Upanishad, (Sans.) Fasc. VI, VII & IX @ /6/ each .. 1 2
Ditto (English) Fasc. II—III @ /6/ each .. 0 12
Brihat Saṃhitá, (Sans.) Fasc. II—III, V—VII @ /6/ each.. .. 1, 14
Chaitanya-Chandrodaya Náṭaka, (Sans.) Fasc. II—III @ /6/ each .. 0 12
Chaturvarga Chintámaṇi, (Sans:) Vols. I, Fasc. 1—11; II, 1—25; III,
1—15, @ /6/ each Fasc. .. 19 2
Chhándogya Upanishad, (English) Fasc. II .. .. 0 6
Dasarupa, Fasc. II and III @ /6/ .. .. 0 12
Gopatha Bráhmaṇa, (Sans.) Fasc. I and II @ /6/ each .. 0 12
Gobhilíya Grihya Sútra, (Sans.) Fasc. I—XII @ /6/ each .. 4 8
Hindu Astronomy, (English) Fasc. I—III @ /6/ each .. 1 2
Kálamádhaba, Fasc. I and II @ /6/ .. .. 0 12
Kátantra, (Sans ) Fasc. I— VI @ /12/ each .. .. 4 8
Kathá Sarit Ságara, (English) Fasc. I—XIII @ /12/ each .. 9 12
Kaushitaki Brahmanapanishads, Fasc. II .. .. 0 6
Kúrma Purana, Fasc. I—II @ /6/ each .. .. 0 12
Lalitá-Vistara (Sans.) Fasc. II-VI. @ /6/ .. .. 1 14
Lalita-Vistara, (English) Fasc. I—III @ /12/ each .. 2 4
Manutíká Sangraha, Fasc. I—II @ /6/ each .. .. 0 12
Mímáṃsá Darṣana, (Sans.) Fasc. II—XVIII @ /6/ each .. 6 6
Márkaṇḍeya Puráṇa, (Sans.) Fasc. IV—VII @ /6/ each .. 1 8
Nrisiṃha Tápaní, (Sans.) Fasc. I—III @ /6/ each .. 1 2
Nirukta, (Sans.) Vol. I, Fasc. 1—6; Vol. II, Fasc. 1—6; Vol. III, Fasc. 1—6;
Vol. IV, Fasc. I & II @ /6/ each Fasc. .. .. 7 8
Nárada Smṛiti, Fasc. I—III @ /6/ .. .. .. 1 2
Nyáya Darśana, (Sans.) Fasc. III .. .. .. 0 6
Nítisára, or The Elements of Polity, By Kámandaki, (Sans.) Fasc. II—V
@ /6/ each .. .. .. .. .. 1 8
(Continued on third page of cover.)

अश्ववैद्यकम् ।
श्रीमज्जयदत्तसूरिविरचितम् ।
श्रीनकुलकृताश्वचिकित्सितसमेतम् ।
श्रीलश्री—
वङ्गदेशीयासिआटिक्-समाजानुज्ञया
गवर्नमेण्ट-संस्कृतविद्यालयस्थ-
पुस्तकाध्यक्षेण
श्रीउमेशचन्द्र गुप्त कविरत्नेन
परिशोधितं व्याख्यातञ्च ।
कलिकाताराजधान्यां
बाप्तिस्त-मिशन्-यन्त्रे मुद्रितञ्च ।
संवत् १९४३-४४ ॥

Digitized by Google

An accurate line-by-line transcription of the text from the image:

श्रीगणेशाय नमः।
अथाश्वचिकित्सितम्।
प्रथमोऽध्यायः ।
येन ज्ञानवता हिमालयतरुच्छायासु विक्रीड़ितम् ।
यः स्नातः हिमपुष्पवातशिशिरे गङ्गाजले पावने ।
रेमे यस्तु तुरङ्गयूथजनितैर्नानाविधैर्हेषितैः ।
पायाद्वः स तुरङ्गघोषतनयः श्रीशालिहोत्रो मुनिः ॥ १ ॥
जयति च पाण्डवनाथो धर्मसनाथो¹ युधिष्ठिरो नृपतिः।
भीमार्जुनसहदेवास्तदनुच ये² वाजिशास्त्रतत्वज्ञाः³ ॥ २ ॥
दृष्ट्वा सम्यङ्नकुलः शास्त्रं⁴ कृत्स्नं⁵ च शालिहोत्रीयम् ।
ब्रूते शास्त्रार्थमन्यच्छास्त्रं कृत्वा समासेन ॥ ३ ॥
प्रश्नो जातिर्वर्णमावर्त्तदन्ता
लक्षं वेगो वाहनं धातुरसम् ।
कालो नस्यं पिण्डमाज्यं कषायं
शालां चेष्टां वाजिनामद्य वक्ष्ये ॥ ४ ॥

  • नकुलकृतमश्वचिकित्सितं सर्व्वत्रैवादृतमतिप्राचीनत्वात् । अतएव
    अश्वविद्यानिष्णातमनसां सुधियां प्रीतये तत् पुस्तकमस्याश्ववैद्यकस्य
    परिशिष्टरूपेणात्र मुद्रितम् ।
    १ । धर्मनिधानः । खः । ४ । ज्ञानम् । खः ।
    २ । तदनुचरो । कः । ५ । सर्व्वं । खः ।
    ३ । वाजिशास्त्रतत्वज्ञाः । खः ।
    1

२ परिशिष्टे [१ अध्यायः ।
सपक्षा वाजिनः सर्वे १ सञ्जाता व्योमचारिणः ।
गन्धर्वेभ्यो यथाकामं गच्छन्ति च समन्ततः ॥ ५ ॥
तान् दृष्ट्वा जवसम्पन्नान् २ सञ्चान्वाहनोचितान् ।
शक्रः प्रोवाच पार्श्वस्थं शालिहोत्रं मुनीश्वरम् ॥ ६ ॥
नास्त्यसाध्यं मुने किञ्चिद्भवतो भुवनत्रये ।
तस्मादाशु ३ कुरुष्व त्वं वाहनाहन् हयोत्तमान् ॥ ७ ॥
ये च मे युद्धकालेषु ४ प्रवहन्ति रथं सदा ।
अशक्यं वारणेन्द्रैश्च ५ दानवैर्बलवत्तरैः ॥ ८ ॥
ईषिकास्त्रं ६ समुत्सृज्य पक्षच्छेदं व्यधात्तदा ।
वाजिनां शक्रवाक्येन शालिहोत्रो महामुनिः ॥ ९ ॥
छिन्नपक्षास्तु ते सर्वे गत्वा ७ तमृषिमब्रुवन् ।
दीनाः सुदुःखसम्पन्ना रुधिरेण परिप्लुता ॥ १० ॥
भगवन् किं निमित्तं नः पक्षच्छेदः कृतस्त्वया ।
अपराधविहीनानां नेह ८ गच्छन्ति पण्डिताः ॥ ११ ॥
तस्माद्गतिर्भव प्राज्ञ सर्वेषामिह वाजिनाम् ।
यथा स्यात् सर्वदा सौख्यं पुष्टिश्च मुनिपुङ्गव ॥ १२ ॥
१ । पूर्व्वं । खः ।
२ । हृयान् व । खः ।
३ । कुरु रथार्हान् मे युग्यानेतान् हयोत्तमान् । खः ।
४ । युध्यतः संख्ये । खः । ७ । गन्धर्व्वा मुनिम् । खः ।
५ । वारणेन्द्रस्य । खः । ८ । नेत्यं संश्रुति सज्जनः । खः ।
६ । तेषां शस्त्रं । कः । ६ । कुरु भयं त्यक्ता । खः ।

१ अध्यायः ।] प्रकथनम् । ३
अथासौ रूपयाविष्टस्तानुवाच सुदुःखितान् ।
इन्द्रादेशात्कृतं¹ सर्वं भवतां पक्षपातनम् ॥ १३ ॥
तस्माद्वः प्रकरिष्यामि² भविष्यति यथा सुखम् ।
पुष्टेरम्या³ यथा देहे गौरवं च जगत्त्रये ॥ १४ ॥
यूयं शक्रादिदेवानां वाहनत्वं करिष्यथ⁴ ।
तथा भूमिपतीनाञ्च गौरवेण समन्विताः ॥ १५ ॥
यो राजा भवतां पुष्टिं खन्न⁵पानादिभिः सदा ।
करिष्यति न सन्देहो भविष्यति स दुर्जयः ॥ १६ ॥
न च त्यक्ष्यति तं लक्ष्मोः कदाचिज्जयलक्षणा ।
अपि सर्वैर्गुणैर्हीनं बहुशत्रुभिरावृतम् ॥ १७ ॥
तथा चैव विधास्यामि⁶ परमञ्च चिकित्सितम् ।
पुष्ट्यै च रोगनाशार्थं नराणां विहितं⁷ यथा ॥ १८ ॥
तस्माद्गच्छत भूलोकं पातालञ्च तथापरे ।
स्वर्गं चान्ये ⁸मदादेशाद्येन शान्तिर्भवेद्⁹ ध्रुवम् ॥ १९ ॥
एवं विसृज्य तान् सर्वान् शालिहोत्रस्तुरङ्गमान् ।
चक्रे द्वादशसाहस्रीं तदर्थं संहितां सुधीः ॥ २० ॥
१ । मया वत्साः कृतं वः पक्षभेदनम् । खः ।
२ । प्रहरिष्यामि । ख । ६ । अभिधास्यामि । खः ।
३ । पुष्टिमन्त्यां । खः । ७ । च हितं सदा । खः ।
४ । गमिष्यथ । खः । ८ । समादेशात् । खः ।
५ । खान । खः । ९ । परा भवेत् । खः ।

8 परिशिष्टे [१ अध्यायः।
ततःप्रभृति लोकेऽस्मिन् वाह्या जातास्तुरङ्गमाः ।
ततश्चिकित्सितं तेषां शालिहोत्रप्रभाषितम् ॥ २१ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते प्रश्नोनाम प्रथमो
ऽध्यायः ।
अथ द्वितीयोऽध्यायः ।
जाति ।
उत्तमा मध्यमा नीचाः कनीयांसस्तथापरे ।
चतुर्द्धा वाजिनो भूमौ जायन्ते देशसंश्रयात् ॥ १ ॥
ताजिकाः खुरशाणाश्च उत्तरा'श्चोत्तमा हयाः ।
गोजिकाणाश्च केकाणाः प्रौढाहाराश्च१ मध्यमाः ॥ २ ॥
भाण्डजाश्चोत्तमांशाश्च राजशूलाश्च मध्यमाः ।
गोङ्गराः शावराश्चैव२ सिन्धुपाराः कनीयसः ॥ ३ ॥
अन्यदेशोद्भवा ये च नीचनीचाश्च ते स्मृताः ।
वाजिनो जलजाः केचिद्द्विजातास्तथापरे ॥ ४ ॥
समीरप्रभवाश्चान्ये उलूकमृगजास्तथा ।
जलोद्भवा द्विजातीयाः४ क्षत्रिया वह्निसम्भवाः ॥ ५ ॥
१ । तुषाराः । खः । ३ । सवरांसाश्च । कः ।
२ । पोप्तहाराः । खः । ४ । द्विजा ज्ञेयाः । खः ।

२ अध्यायः ।] जातिकथनम् । ५
समीरप्रभवा¹ वैश्या एणोलूकाश्च शूद्रजाः ।
विवेकी सङ्गुणे विप्रस्तेजस्वी क्षत्रियो बली ॥ ६ ॥
दुष्टभावस्तथा वैश्यः शूद्रो निःसत्वकातरः² ।
ब्राह्मणः सामवाही च भेदवाही च क्षत्रियः ॥ ७ ॥
उपादानेन वैश्यः स्याच्छूद्रो दण्डेन ताड़ितः ।
पुष्पगन्धः³ सदा विप्रः क्षत्रियोऽगुरुगन्धकः ॥ ८ ॥
घृतगन्धः सदा वैश्यो मीनामोदी च शूद्रकः⁴ ।
विप्रार्हा वाजिनः सर्वे क्षत्रियो⁵ भूपतेः सदा ॥ ९ ॥
द्वौ वैश्यस्याथ शूद्रस्य शूद्र⁶ एव सुखावहः ।
केचिदिच्छन्ति भूपानां सर्वेऽश्वा वाहनेाचिताः ॥ १० ॥
तदर्थं भूतले यस्माच्छालिहोत्रेण निर्मिताः ।
ब्राह्मणाः क्षेमकृत्येषु सिद्धिं गच्छन्ति वाजिनः ॥ ११ ॥
क्षत्रिया युद्धकार्येषु वैश्या वित्तार्जने⁷ सदा ।
शूद्राश्चान्येषु कृत्येषु ज्ञात्वैवं वाजिनः सदा ॥ १२ ॥
आरोहेत्सर्वकार्येषु यदीच्छेच्छाश्वतीं श्रियम् ।
सदा शुभा भवन्त्येते वाजिनो यस्य भूतले ॥ १३ ॥
सदैव निद्रावशगा निद्राच्छेदस्य सम्भवः ।
१ । प्रभञ्जनोद्भवा । खः । \qquad ५ । त्रयो भूमिपतेः । खः ।
२ । कारकः । कः । \qquad ६ । एकः । खः ।
३ । पुष्पगन्धसमः । खः । \qquad ७ । वृत्त्यर्जने । खः ।
४ । चतुर्थकः । खः ।

६ परिशिष्टे [२ अध्यायः ।
जायते सङ्करे प्राप्ते कर्करस्य च भक्षणे ॥ १४ ॥
प्रबुद्धाः कथयन्त्यश्वाः शुभं वा यदि वाशुभम् ।
स्वस्वामिने निजैश्चिह्नैस्तद्विज्ञेयं विचक्षणैः ॥ १५ ॥
यः सन्नद्धो हयो रावमूर्ध्वमूर्ध्वं करोति च ।
खुराग्रेण लिखन् भूमिं स शंसति रणे जयम् ॥ १६ ॥
यः करोत्यसकृन्¹ मूत्रं पुरीषञ्चाश्रुमोक्षणम् ।
स शंसति पराभूतिं यस्यैवं² वर्त्तते हयः ॥ १७ ॥
निरामिषं निशीथे यो जागर्त्ति नृपतेर्हयः ।
स शंसति द्रुतन्तस्य स्थिरस्यापि³ प्रयाणकम् ॥ १८ ॥
यदा व्याधिं विना वाजी ग्रासन्त्यजति दुर्मनाः ।
अश्रुपातञ्च कुरुते तदा भर्तुरशोभनम् ॥ १६ ॥
पुलकाङ्कितपुच्छा ये जायन्ते भूपतेर्हयाः ।
निरीक्षन्तः⁴ प्रभोर्नाशं ते वदन्ति निशागमे ॥ २० ॥
शरटं रक्षयेद्यत्नात्प्रविशन्तं हयालये ।
यदिच्छेच्छाश्वतीं वृद्धिं तेषाञ्चैव तथात्मनः ॥ २१ ॥
स्फुलिङ्गा यस्य दृश्यन्ते पुच्छदेशे च वह्निजाः ।
परचक्रागमाशंसी विज्ञेयो हयपण्डितैः ॥ २२ ॥
अश्वशालां समासाद्य यदान्त⁵र्मधुमक्षिकाः ।
१ । करोति सकृत् । खः । ४ । निर्गच्छतः । खः ।
२ । यस्यैवोपहतः । खः । ५ । यदा च । कः ।
३ । स्थितस्य । खः ।

३ अध्यायः ।] वर्णकथनम् । ७
मधुजालं प्रकुर्व्वन्ति१ तदाश्वान् घ्नन्ति कृत्स्नशः ॥ २३ ॥
तस्मात्सर्व्वप्रयत्नेन वाजिशालां प्ररक्षयेत्२ ।
उपायेभ्यश्च३ सर्व्वेभ्यो य इच्छेद्भूतिमात्मनः ॥ २४ ॥
ब्राह्मणाम्बाचयेत्स्वस्ति नित्यं वेदविचक्षणान्४ ।
तिलहोमस्तथा कार्य्यो जप्यश्च५ शतरुद्रियः ॥ २५ ॥
मन्दुरान्ते सदा धार्य्यो रक्तवक्त्रो महाकपिः ।
सर्व्वपापविनाशाय वाजिनाञ्च विवृद्धये ॥ २६ ॥
शरघां रक्षयेद् यत्नात् प्रविशन्तीं हयालये ।
यदीच्छेच्छाश्वतीमृद्धिं तेषाञ्चैव तथात्मनः ॥ २७ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते जात्यधिकारे द्वि-
तीयोऽध्यायः ॥
अथ तृतीयोऽध्यायः ।
वर्णवर्णनं ।
वर्णाः सप्त भवन्ती६ह सर्वेषां वाजिनां ध्रुवम् ।
तानहं कीर्त्तयिष्यामि भेदैर्जाताननेकधा ॥ १ ॥
१ । प्रबध्नन्ति । ख ।
२ । प्रलङ्घयेत् । खः ।
३ । अपायानाञ्च सर्व्वेषां यदिच्छेन्नाशमात्मनः । खः ।
४ । अर्चयेन्नित्यं तत्तत्त्ववेदविचक्षणान् ।
५ । जपः स्यात्तत्र रुद्रतः । खः ।
६ । वर्णा भवन्ति येऽपीह । कः ।

८ परिशिष्टे [९ अध्यायः ।
सितो रक्तस्तथा पीतः सारङ्गः पिङ्ग एव च ।
नीलः कृष्णोऽथ सर्वेषां श्वेतः श्रेष्ठतमः स्मृतः ॥ २ ॥
पट्टार्हो भूपतेर्वाजी सर्वश्वेतः प्रशस्यते ।
तदभावे यथा प्रोक्तास्तथा श्रेष्ठाः क्रमेण च ॥ ३ ॥
श्वेतः प्रालेयसङ्काशो रक्तः कुङ्कुमसंनिभः ।
हरिद्रासदृशः पीतः सारङ्गः कर्बुरः स्मृतः ॥ ४ ॥
पिङ्गः कपिलकाकारो नीलो दूर्वाग्रसंनिभः ।
कृष्णो जम्बूफलाकारः शास्त्रज्ञैः समुदाहृतः ॥ ५ ॥
पीताभः श्वेतपादोयस्तथा स्यात्सितलोचनः ।
चक्रवाकः स विज्ञेयो राजार्हो वाजिसत्तमः ॥ ६ ॥
सर्वश्वेतो हयो यस्तु भवेन्मेचककर्णकः १ ।
सवाजी वाजिमेधार्हः श्यामकर्णः प्रकीर्त्तितः ॥ ७ ॥
मुखे चन्द्रकसंवीतो २ जम्बूफलसमाकृतिः ।
श्वेतपादः स विज्ञेयो मल्लिकाख्यः स पूजितः ॥ ८ ॥
चत्वारोऽप्यसिताः पादाः सर्वश्वेतस्य वाजिनः ।
भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥ ९ ॥
यस्य पादाः सिताः सर्वे पुच्छं वक्षो मुखं तथा ।
मूर्धजाश्च सिता यस्य तं विद्यादष्टमङ्गलम् ॥ १० ॥
१ । श्यामैककर्णकः । ख ।
२ । सङ्काशः । ख ।

३ अध्यायः।] वर्णकथनम्। ६
भस्माभं वाजिनं जह्यात् सुदूरेण नराधिपः।
यदि वाञ्छति¹ कल्याणं वाञ्छेच्च श्रीसमुद्भवम् ॥ ११ ॥
यस्य² रोमविभेदेन जायन्ते रोमविन्दवः।
पुष्पाख्यः स परित्याज्यः सर्ववाजिभयावहः ॥ १२ ॥
यस्य पादाः सिताः सर्वे तथा वक्त्रञ्च मध्यतः।
कल्याणपञ्चकः प्रोक्तः सर्व³कल्याणकृच्च सः ॥ १३ ॥
विमिश्रवर्णीकाः सर्वे प्रशस्ता वाजिनः स्मृताः।
कृष्णनीलस्य मिश्रत्वमेकं मुक्त्वा सुदूरतः ॥ १४॥
यस्योत्कृष्टतरो वर्णो वृद्धिं याति शनैः शनैः।
नाशयति तथा नीचान् स करोति वहून् हयान् ॥१५॥
यस्याधमेन वर्णेन छाद्यते⁴ च प्रधानजः।
विवृद्धिं गच्छता⁵ सोऽथ करोति हयसंक्षयम् ॥१६॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते वर्णोनाम तृतीयो
ऽध्यायः॥
१। कर्म्मणि वाञ्छाञ्च करोति श्रीसमुद्भवाम्। खः।
२। ह्यस्य वर्म्मभेदेन। खः।
३। सदा। खः।
४। सीद्यन्ते च प्रधानजाः। खः।
५। गच्छते। खः।
2

[ १० ]
अथ चतुर्थोऽध्यायः ॥
आवर्त्ताः ।
आवर्त्ता विंशतिः प्रोक्ताः शालिहोत्रेणमहात्मना ।
गात्रस्थानविभागेन तेषां व्यक्तिर्मयोच्यते ॥ १ ॥
ललाटे मस्तके चैव ग्रीवायां हृदये तथा ।
पादे पृष्ठे मणीबन्धे नाभिदेशे विशेषतः ॥ २ ॥
स्कन्धे पार्श्वे गले वक्त्रे कुक्षौ रंध्रे षिके तथा ।
आद्यास्त्रयोदशावर्त्ता१ विज्ञेया वाजिपण्डितैः ॥ ३ ॥
नासिकाग्रे ललाटाग्रे शङ्खे कण्ठे च मस्तके ।
आवर्त्तो जायते येषां ते धन्यास्तुरगोत्तमाः ॥ ४ ॥
हृदि स्कन्धे गले चैव कटिदेशे तथैव च ।
नाभौ कुक्षौ च पार्श्वार्ङ्गे मध्यमास्ते प्रकीर्त्तिताः ॥ ५ ॥
ललाटे यस्य चावर्त्तो द्वितीयस्य स लिङ्गकः ।
मस्तके च तृतीयश्च पूर्णकुक्षिः स उत्तमः ॥ ६ ॥
पृष्ठवंशे तथावर्त्तो यस्यैकः संप्रजायते ।
स करोत्यश्वसंघातान् स्वामिनः सूर्य्यसंज्ञकः ॥ ७ ॥
कक्षायां जानुमेढ्रे च चिवलौ पुच्छसन्निधौ ।
पुच्छे गुह्ये चलावष्टावावर्त्ता अधमा इये ॥ ८ ॥
१ । ललाटाये । खः ।
२ । आयन्ता द्वादशावर्त्ताः । खः ।

४ अध्यायः।] आवर्त्तकथनम् । ११
त्रयो यस्य ललाटस्था आवर्त्ता अधरोत्तराः ।
त्रिकूटः स परिज्ञेयो वाजिवृद्धिकरः परः ॥ ९ ॥
एवमेव प्रकारेण त्रयो ग्रीवां समाश्रिताः ।
त्रयावर्त्तः१ स वाजीशो जायते भूपमन्दिरे ॥ १० ॥
ललाटे युगलावर्त्तौ चन्द्रार्कौ संप्रकीर्त्तितौ ।
वाजिनो यदि२ तौ स्यातां राष्ट्रवृद्धिकरौ परौ ॥ ११ ॥
उपर्युपरि यस्य स्युरावर्त्ता अलिके त्रयः ।
निःश्रेणिः सतु विज्ञेयो राष्ट्रवृद्धिकरः परः ॥ १२ ॥
एकोऽथवा कपोलस्थो यस्यावर्त्तः प्रदृश्यते ।
वर्त्तमानः३ स विज्ञेयः स दुच्छेदस्वामिनाशनम् ॥ १३ ॥
कपोलाभ्यान्तथावर्त्तौ विद्येते४ वाजिनो यदि ।
तावश्विनाविति प्रोक्तौ युद्धकाले जयप्रदौ ॥ १४ ॥
गण्डावर्त्ती५ भवेद्यस्य वाजिनो दक्षिणाश्रयः ।
स करोति महासौख्यं स्वामिनः शिवसंज्ञकः ॥ १५ ॥
तद्वद्वामाश्रयः क्रूरः प्रकरोति धनक्षयम् ।
इन्द्वर्काख्या६वुभौ शस्तौ नृपराज्यविवृद्धिदौ ॥ १६ ॥
१ । यस्यावर्त्तः । खः ।
२ । यस्य । खः ।
३ । रथिनामन्त्रनिष्ठानां स दुष्टः स्वामिनाशने ।
४ । कपोलाभ्यन्तरावर्त्तौ विद्येते । खः ।
५ । गजावर्त्तः । खः ।
६ । इन्द्रकाख्यौ । खः ।

१२ परिशिष्टे [४ अध्यायः।
कर्णमूले यदावर्त्तस्तन्मध्ये च तथापरः ।
विजयाख्यावुभौ ज्ञेयौ युद्धकाले जयप्रदौ ॥ १७ ॥
नासामध्ये यदावर्त्त एको वा यदि वा त्रयः ।
चक्रवर्त्ती स विज्ञेयो वाजी भूपालपूजितः ॥ १८ ॥
कण्ठे यस्य महावर्त्त एकोऽश्वस्य¹ प्रजायते ।
चिन्तामणिः स विज्ञेयश्चिन्तितार्थविवृद्धिदः ॥ १९ ॥
स्कन्धे पार्श्वे यदावर्त्तः स भवेत् पद्मलक्षणः ।
करोति विधिवत् पद्मे स्वामिनः सततं सुखम् ॥ २० ॥
युक्ताख्यौ² तालुकान्तस्थावावर्त्तौ कीर्त्तिवृद्धिदौ ।
हयस्य स्वामियुक्तस्य सदैव सुसुखावहौ ॥ २१ ॥
एका³वर्त्तो भवेद्यस्य⁴ कक्षान्ते वाजिनो यदा⁵ ।
स रणे मृत्युमाप्नोति द्वौ च⁶ स्वामिविनाशनौ ॥ २२ ॥
जानुदेशे यदावर्त्तो वाजिनः संप्रदृश्यते ।
प्रवासं सततं ब्रूते स्वभर्त्तुः क्लेशसंयुतम् ॥ २३ ॥
वाजी मेढ्रतलावर्त्तो वर्जनीयो महीभुजाम् ।
स करोति हरेर्नाशं परचारसमुद्भवम्⁷ ॥ २४ ॥
१ । एकः स्पष्टः । खः । ५ । ह्यशुभः । खः ।
२ । मुक्ताख्यौ । खः । ६ । चाशु । खः ।
३ । यस्य । खः । ७ । परस्परसमुद्भवम् । खः ।
४ । व्यक्तः । खः ।

४ अध्यायः ।] आवर्त्तकथनम् । १३
चिर्वालस्थो यदावर्त्तस्त्रिवर्गस्य प्रणाशकः१ ।
वाजिनस्ते परिज्ञेयाः स्त्रीपार्श्वस्था२ भयप्रदाः ॥ २५ ॥
पुच्छ३देशे यदावर्त्तो वाजिनः संप्रदृश्यते ।
धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥ २६ ॥
गुह्ये पुच्छे वलौ यस्य भवन्त्यावर्त्तकास्त्रयः ।
स कृतान्तरूपेण वर्जनीयस्तुरङ्गमः ॥ २७ ॥
अधऊर्ध्वं४ यदा वाजी सम्पुटं न स्पृशेत् क्वचित् ।
यमदूतः स विज्ञेयो वर्जनीयः प्रयत्नतः ॥ २८ ॥
हीनदन्तोऽधिदन्तश्च कराली कृष्णतालुकः ।
मुशली च तथा शृङ्गी षडेते स्वामिघातकाः ॥ २९ ॥
एकाण्डजातश्चैकाण्डो५ हीनांगोऽप्यधिकाङ्गकः ।
परित्याज्यः स६ वाञ्छद्भिरन्विष्य परमं यशः ॥ ३० ॥
घण्टी वदनको वाली शृङ्गीचैव चतुर्थकः ।
वर्जनीयः प्रयत्नेन सर्वे ते पापकृत्तमाः ॥ ३१ ॥
घण्टी च स्वामिनं हन्ति वदनी धनसंक्षयम् ।
अन्तःपुरं तथा वाली शृङ्गी राष्ट्रविनाशनः ॥ ३२ ॥
षट्पदाभो भवेद्यश्च कृष्णतालुर्न दुष्यति ।

१ । प्रसाधकः । खः । ४ । अधोर्द्धं च यदा । कः ।
२ । श्रीपार्श्वः स शुभप्रदः । खः । ५ । एकाण्डकोऽप्यमण्डश्च । खः ।
३ । पृष्ठ । खः । ६। भूपाद्यैः संग्रामे क्लेशकारकः । खः ।

१४ परिशिष्टे [५ अध्यायः ।
शङ्गपादमुखो यस्तु' आवर्त्तैः कुत्सितैरपि ।
न दुष्यति सदावर्त्तः शालिहोत्रमतं यथा ॥ ३३ ॥
इति श्रीनकुलविरचितेऽश्वचिकित्सिते आवर्त्ता-
ध्यायश्चतुर्थः ॥
अथ पञ्चमोऽध्यायः ।
दन्ताः ।
दन्तोद्भेदं प्रवक्ष्यामि वाजिनामायुर्लक्षणम् ।
येन विज्ञातमात्रेण आयुर्ज्ञानं प्रचक्षते ॥ १ ॥
अश्वस्तु तनुभिर्दन्तैः क्षीरदन्त इति स्मृतः ।
तथा षोड़शभिः कोणे प्राप्तैर्द्वादशमासिकः ॥ २ ॥
त्रिंशन्मासोद्गताः सर्व्वे अखण्डाः परिकीर्त्तिताः ।
द्वौ स्यातां द्वौ च न स्यातां मूर्द्धोपरि यथाक्रमम् ॥ ३ ॥
चतुर्भिर्व्वत्सरैर्दन्ताः कालिकाख्ये भवन्ति च ।
तथान्यः सप्तमे वर्षे चतुर्थः कालिको भवेत् ॥ ४ ॥
अष्टमे वत्सरे प्राप्ते प्राप्ताः स्युः सार्व्वकालिकाः ।
नवमे त्वथवा रेखा पीतत्वं शंसयन्ति च ॥ ५ ॥
तथाप्येकादशे वर्षे तावत् पीतत्वमागताः ।
तिष्ठन्ति दशनास्तेषां वाजिनामप्यसंशयम् ॥ ६ ॥
१ । वात्र नावर्त्तैः । खः ।

५ अध्यायः । ] दन्तोद्भेदकथनम् । १५
ततः श्वेताः प्रदृश्यन्ते यावद्वर्षत्रयं पुनः ।
ततः काचप्रभाः सम्यक् यावत् संवत्सरास्त्रयः ॥ ७ ॥
ततः सप्तदशादूर्द्धं यावद्वर्षाणि विंशतिः ।
मक्षिकाभारदास्तेषां यावद्वर्षत्रयं पुनः ॥ ८ ॥
तस्मादुदूखलं प्राप्तास्तावद्वर्षत्रयं पुनः ।
प्रकम्प्यञ्च समागम्य पश्चात् पातः समाचयम् ॥ ९ ॥
द्वात्रिंशद्वत्सरैरेव वाजो निर्वाणमाप्नुयात् ।
दंष्ट्राचतुष्टयं श्वेतं वक्त्रेण परमायुषि ॥ १० ॥
अश्वानामेव सर्वेषां दन्ता द्वादश कीर्त्तिताः ।
कालिका हरिणी शुक्ला काचावाप्यथ मक्षिका ॥ ११ ॥
शङ्खोदूखलकञ्चैव दन्तानाञ्चलनं तथा ।
ततस्तु पतनं विद्यादेष व्यञ्जनसंग्रहः ॥ १२ ॥
चतुर्विंशतयो दंष्ट्राः शालिहोत्रमतं तथा ।
एवं दन्तविशेषेण सर्वेषामिह वाजिनाम् ।
विज्ञेया चायुषः सङ्ख्या वाजिपोषणतत्परैः ॥ १३ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते दन्तोद्भेदानाम्
पञ्चमोऽध्यायः ।

[ १६ ]
अथ षष्ठोऽध्यायः ।
अवयवप्रमाणम् ।
दीर्घह्रस्वविमांसास्या ये भवन्ति तुरङ्गमाः ।
ते शस्ताः पार्थिवेन्द्रस्य यानवाहनकर्मणि ॥ १ ॥
स्कन्धमभ्युन्नतं दीर्घं वक्रग्रीवं विशेषतः ।
चमरालङ्कृतं सम्यक् स्तोकवालसमन्वितम् ॥ २ ॥
येषां पृष्ठं¹ सुवंशं स्याद्विपुलं व्रणवर्जितम् ।
किञ्चिन्मध्ये भवेन्निम्नं² राजार्हास्ते तुरङ्गमाः ॥ ३ ॥
स्निग्धरोमा सुवृत्ता च ³सुस्थूला विपुला कटी ।
ग्रथिताः सुदृढा रम्या भुजा मांसप्रपूरिताः⁴ ॥ ४ ॥
पादा निर्मांसलावकाश्र्वकाकारखुरान्विताः ।
अप्रमाणं तथा वक्षः कर्णौ लघुतरौ स्मृतौ⁵ ॥ ५ ॥
पार्श्वौ तनुतरौ⁶ शस्तौ सुरसस्निग्धतालुकम्⁷ ।
दन्ताश्च शिखराकारा विपुला चन्द्र

६ अध्यायः । अवयवप्रमाणम् । १७
सप्तविंशप्रमाणेन मुखमश्वस्य शस्यते ।
कर्णौ षडङ्गुलौ प्रोक्तौ तालुकं चतुरङ्गुलम् ॥ ७॥
चत्वारिंशच्च सप्ताख्याः स्कन्धाः सम्यक् प्रकीर्त्तिताः¹ ।
पृष्ठवंश²श्चतुर्विंशः सप्तविंशा तथा कटी ॥ ८॥
अतिसूक्ष्मं तथा निम्नं पुच्छं हस्तद्वयायतम्³ ।
लिङ्गं हस्तप्रमाणञ्च तथाण्डौ चतुरङ्गुलौ ॥ ९॥
मार्ग⁴स्थानं चतुर्विंशं हृदयं षोडशाङ्गुलम् ।
कटिकक्षान्तरञ्चोक्तं चत्वारिंशत्⁵ प्रमाणतः ॥ १० ॥
मणिबन्धद्वयं चैव खुराश्च चतुरङ्गुलाः ।
अशीत्यङ्गुल उत्सेधो दैर्घ्यञ्च ह्यधिकं शतम् ।
एवं क्रमेण गात्रस्य प्रमाणं वाजिनां मतम् ॥ ११ ॥
दीर्घाणि चत्वारि तथोन्नतानि
चत्वारि रक्तानि च सूक्ष्मकाणि ।
ह्रस्वानि⁶ चत्वार्य्यथ चायतानि
भूयश्च चत्वार्य्यथ नम्रकाणि⁷ ॥ १२ ॥
द्वात्रिंशत्⁸ क्रमशोऽप्याहुर्लक्षणानि मुनीश्वराः ।
तान्यहं कीर्त्तयिष्यामि वाजिनाञ्च पृथक् पृथक् ॥ १३ ॥
१ । संपरिकीर्त्तिताः । खः ।
२ । पृष्ठिवंशः । खः ।
३ । हस्तार्द्धमायतम् । खः ।
४ । साङ्गं । खः ।
५ । चतुर्विंशत् । खः ।
६ । हृस्तानि । खः ।
७ । निम्नानि । कः ।
८ । द्वात्रिंशच्च समानि । कः ।
३