सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 451, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 451

२ अध्यायः ।] जातिकथनम् । ५
समीरप्रभवा¹ वैश्या एणोलूकाश्च शूद्रजाः ।
विवेकी सङ्गुणे विप्रस्तेजस्वी क्षत्रियो बली ॥ ६ ॥
दुष्टभावस्तथा वैश्यः शूद्रो निःसत्वकातरः² ।
ब्राह्मणः सामवाही च भेदवाही च क्षत्रियः ॥ ७ ॥
उपादानेन वैश्यः स्याच्छूद्रो दण्डेन ताड़ितः ।
पुष्पगन्धः³ सदा विप्रः क्षत्रियोऽगुरुगन्धकः ॥ ८ ॥
घृतगन्धः सदा वैश्यो मीनामोदी च शूद्रकः⁴ ।
विप्रार्हा वाजिनः सर्वे क्षत्रियो⁵ भूपतेः सदा ॥ ९ ॥
द्वौ वैश्यस्याथ शूद्रस्य शूद्र⁶ एव सुखावहः ।
केचिदिच्छन्ति भूपानां सर्वेऽश्वा वाहनेाचिताः ॥ १० ॥
तदर्थं भूतले यस्माच्छालिहोत्रेण निर्मिताः ।
ब्राह्मणाः क्षेमकृत्येषु सिद्धिं गच्छन्ति वाजिनः ॥ ११ ॥
क्षत्रिया युद्धकार्येषु वैश्या वित्तार्जने⁷ सदा ।
शूद्राश्चान्येषु कृत्येषु ज्ञात्वैवं वाजिनः सदा ॥ १२ ॥
आरोहेत्सर्वकार्येषु यदीच्छेच्छाश्वतीं श्रियम् ।
सदा शुभा भवन्त्येते वाजिनो यस्य भूतले ॥ १३ ॥
सदैव निद्रावशगा निद्राच्छेदस्य सम्भवः ।
१ । प्रभञ्जनोद्भवा । खः । \qquad ५ । त्रयो भूमिपतेः । खः ।
२ । कारकः । कः । \qquad ६ । एकः । खः ।
३ । पुष्पगन्धसमः । खः । \qquad ७ । वृत्त्यर्जने । खः ।
४ । चतुर्थकः । खः ।