अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 452, कुल 522 में से
संदर्भ में पढ़ें६ परिशिष्टे [२ अध्यायः ।
जायते सङ्करे प्राप्ते कर्करस्य च भक्षणे ॥ १४ ॥
प्रबुद्धाः कथयन्त्यश्वाः शुभं वा यदि वाशुभम् ।
स्वस्वामिने निजैश्चिह्नैस्तद्विज्ञेयं विचक्षणैः ॥ १५ ॥
यः सन्नद्धो हयो रावमूर्ध्वमूर्ध्वं करोति च ।
खुराग्रेण लिखन् भूमिं स शंसति रणे जयम् ॥ १६ ॥
यः करोत्यसकृन्¹ मूत्रं पुरीषञ्चाश्रुमोक्षणम् ।
स शंसति पराभूतिं यस्यैवं² वर्त्तते हयः ॥ १७ ॥
निरामिषं निशीथे यो जागर्त्ति नृपतेर्हयः ।
स शंसति द्रुतन्तस्य स्थिरस्यापि³ प्रयाणकम् ॥ १८ ॥
यदा व्याधिं विना वाजी ग्रासन्त्यजति दुर्मनाः ।
अश्रुपातञ्च कुरुते तदा भर्तुरशोभनम् ॥ १६ ॥
पुलकाङ्कितपुच्छा ये जायन्ते भूपतेर्हयाः ।
निरीक्षन्तः⁴ प्रभोर्नाशं ते वदन्ति निशागमे ॥ २० ॥
शरटं रक्षयेद्यत्नात्प्रविशन्तं हयालये ।
यदिच्छेच्छाश्वतीं वृद्धिं तेषाञ्चैव तथात्मनः ॥ २१ ॥
स्फुलिङ्गा यस्य दृश्यन्ते पुच्छदेशे च वह्निजाः ।
परचक्रागमाशंसी विज्ञेयो हयपण्डितैः ॥ २२ ॥
अश्वशालां समासाद्य यदान्त⁵र्मधुमक्षिकाः ।
१ । करोति सकृत् । खः । ४ । निर्गच्छतः । खः ।
२ । यस्यैवोपहतः । खः । ५ । यदा च । कः ।
३ । स्थितस्य । खः ।