सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

२७६ आपस्तम्बधर्मसूत्रे [(प. ९) क. २२.
तेषां पाकादिसाधनानां द्रव्याणामेकैकं द्रव्यं स्वयमादायेतराणि भार्यायै
दत्वा अरण्यमवतिष्ठेत उपतिष्ठेत् आश्रयेदिति ॥ १६ ॥
तस्याऽऽरण्येनैवाऽत ऊर्ध्वं होमो वृत्तिः प्रतीक्षाच्छादनं च ॥
तस्य वानप्रस्थस्याऽतोऽरण्यप्रवेशादूर्ध्वं आरण्येनैव नीवारादिना होमः
वृत्तिः प्राणयात्रा प्रतीक्षा अतिथिपूजा च आच्छादनं वल्कलादिना ॥ १७ ॥
येषु कर्मसु पुरोडाशाश्चरवस्तेषु कार्याः ॥१८॥
येषु दर्शपूर्णमासादिषु पुरोडाशा विहिताः गृहस्थस्य, तेष्वस्य तत्स्थाने
(१)चरव. कार्याः ॥ १८ ॥
सर्वं चोपांशु सह स्वाध्यायेन ॥ १९ ॥
सर्वं च कर्मकाण्डं साङ्गं प्रधानमुपांशु भवति पारायणब्रह्मयज्ञाध्य-
यनेन सह । तदप्युपांशु कर्तव्यमिति ॥ १९ ॥
नाऽऽरण्यमभ्याश्रावयेत् ॥ २० ॥
उपांशुवचनादेव सिद्धे वचनमाभिमुख्यप्रतिषेधार्थम् । तेनाऽरण्य-
स्था यथा नाऽऽभिमुख्येन शृणुयुः तावदुपांश्विति ॥ २० ॥
अग्न्यर्थं शरणम् ॥ २१ ॥
शरणं गृहं तदग्न्यर्थमेव ॥ २१ ॥
आकाशे स्वयम् ॥ २२ ॥
स्वय चाऽऽकाश एव वसेत् ॥ २२ ॥
अनुपस्तीर्णे शय्यासने ॥ २३ ॥
शयनं चाऽऽसन चाऽनुपस्तीर्णे देशे कुर्यात् न तु किञ्चिदुपस्तीर्य ॥२३॥
नवे सस्ये प्राप्ते पुराणमनुजानीयात् ॥ २४ ॥
नवे धान्ये श्यामाकनीवारादौ प्राप्ते जाते पुराणं पूर्वसञ्चितं सस्यमनु-
जानीयात् परित्यजेत् । तत्र मनुः—
(२)'त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् ।
जीर्णानि चैव वासांसि पुष्पमूलफलानि च ॥' इति ॥ २४ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने द्वाविंशी कण्डिका ॥ २२ ॥
१. अनवस्त्रावितानन्तरूष्मपक्वखण्डुलप्रकृतिकश्चरुः । २. म. स्मृ. ६. २५.

ब्रह्मचर्यादिप्रशंसा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७७
भूयांसं वा नियममिच्छन्नन्वहमेव पात्रेण
सायंप्रातरर्थमाहरेत् ॥ १ ॥
इदमेकाकिनो वानप्रस्थस्य । भूयांसं नियममिच्छन्न सस्यं सञ्चिनुयात् ।
किं तर्हि ? अन्वहमेव पात्रेण येनकेनचित् सायंप्रातश्चाऽर्थमशनीयमात्रमाहरेत्
वानप्रस्थेभ्य एव ॥ १ ॥
एवं कियन्तचित्कालं वर्तयित्वा—
ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेदन्ततः
प्रवृत्तानि ततोऽपो वायुमाकाशमित्यभिनि-
श्रयेत् । तेषामुत्तर उत्तरस्संयोगः
फलतो विशिष्टः ॥ २ ॥
सर्वं गतम् ॥ २ ॥
निरूपिता आश्रमाः । अथेदानों पक्षप्रतिपक्षरूपेण तेषामेव प्राधा-
न्यमप्राधान्यं च निरूप्यते—
अथ पुराणे श्लोकावुदाहरन्ति—
अष्टाशीतिसहस्राणि ये प्रजामीषिर ऋषयः ।
दक्षिणेनाऽर्यम्णः पन्थानं ते श्मशानानि भेजिरे ॥ ३ ॥
अष्टाशीतिसहस्राणि ये गृहस्था ऋषयः प्रजामीषिरे प्रजातिमभ्यनन्दन् ते
अर्यम्णो यो दक्षिणेन पन्थाः दक्षिणायनमार्गः तं प्राप्य छान्दोग्योक्तेन
(१)धूमादिमार्गेण गत्वा पुनरपि सम्भूय श्मशानानि भेजिरे मरणं प्रतिपेदिरे ।
जायस्व म्रियस्वेत्याजीवं जीवभावमापेदिर इति गृहस्थानां निन्दा ॥३॥
अष्टाशीतिसहस्राणि ये प्रजां नेषिर ऋषयः । उत्तरे-
णाऽर्यम्णः पन्थानं तेऽमृतत्वं हि कल्पते ॥ ४॥
ये(२)तु प्रजातिं नाभ्यनन्दन् ते उत्तरायणमार्गेण (३) अर्चिरादिमार्गेण
गत्वा अमृतत्वं विभक्तिव्यत्ययः, अमृतत्वाय कल्पते वचनव्यत्ययः कल्पन्ते
समर्थास्सम्पद्यन्ते ॥ ४ ॥
इत्यूर्ध्वरेतसां प्रशंसा ॥ ५ ॥


१. छा. उ ५ १०. ३–६ २. प्रजा, इति च. पु ३ छा. उ. ५. १०. १,२

२७८ आपस्तम्बधर्मसूत्रे [ (प्र. ९.) क. २३.
गृहस्थादन्ये त्रयोऽपि ऊर्ध्वरेतसः। तेषामेषा प्रशंसेति ॥ ५ ॥
पुनरपि तेषामेव प्रकारान्तरेण प्रशंसा—
अथाऽपि सङ्कल्पसिद्धयो भवन्ति ॥ ६ ॥
अथाऽपि अपि च सङ्कल्पादेव सिद्धयो भवन्ति तेषामूर्ध्वरेतसाम् ॥६॥
तत्रोदाहरणम् —
यथा वर्षं प्रजा दानं दूरेदर्शनं मनोज-
वता यच्चाऽन्यदेवंयुक्तम् ॥ ७ ॥
यदि महत्यामनावृष्टौ (१) सत्यां ‘वर्षतु देव’ इति ते कामयेरन् तदा
कामवर्षी पर्जन्यो भवति । यदि वा कश्चिदपुत्रमनुगृह्णीयुः-पुत्रोऽस्य जा-
यतामिति स पुत्रवानेव भवति । यदि वा (२) चोलेष्ववस्थितास्तदैव हि-
मवन्तं दिदृक्षेरन् तथैव तद्भवति। मनस इव जवो येषां ते मनोजवाः तेषां
भावो मनोजवता । यदि कामयेरन् अमुं देशमित्यामेव कालकलायां प्रा-
प्नुयामेति, ततो यावता कालेन मनस्तं देशं प्राप्नोति तावता तं देशं
प्राप्नुयुरिति । यच्चान्यदेवयुक्तम् रोगिणामारोग्यादि तदपि सङ्कल्पादेव तथा
भवति ॥ ७ ॥
यस्मादेवम्—
तस्माच्छ्रुतितः प्रत्यक्षफलत्वाच्च विशिष्टा-
नाश्रमानेतानेके ब्रुवते ॥ ८ ॥
तस्माच्छ्रुतितः ‘यदहरेव विरजेत्तदहरेव प्रव्रजेदि’त्यादिश्रुत्यनुगतत्वा-
दुक्तेन प्रकारेण प्रत्यक्षफलत्वाच्च एतानूर्ध्वरेतसामाश्रमान् विशिष्टान् गार्ह-
स्थ्यादुत्कृष्टानेके ब्रुवत इति ॥ ८ ॥
तदिदं गार्हस्थ्योत्कर्षप्रतिपादनेन निराकरोति—
त्रैविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि
श्रूयन्ते व्रीहियवपश्वाज्यपयःकपालपत्नीसम्बन्धा-
न्युच्चैर्नीचैः कार्यमिति तैर्विरुद्ध आचारोऽप्रमा-
णमिति मन्यन्ते ॥ ९ ॥
१. सत्यां इति नास्ति च. पु. २ ‘दूरेषु’ इति. छ. पु.

गार्हस्थ्यश्रैष्ठ्यम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७९
त्र्यवयवा विद्या त्रिविद्या त्रयो वेदाः । तां ये पाठतश्चार्थतश्च वि-
दन्ति ते त्रैविद्याः । तेषु पक्षज्ञानास्त्रेविद्यवृद्धाः । तेषां (१)वेदशास्त्रविदां
वेदा एव प्रमाणम् अतीन्द्रियेऽर्थे इति, निष्ठा निर्णयः । यथाह भगवान् जै-
मिनिः—(२) 'चोदनालक्षणोऽर्थो धर्मः, इति(३) प्रत्यक्षमनिमित्तमि'ति
च । ततश्च तत्र वेदे यानि कर्माणि श्रूयन्ते, किंलक्षणानि ? व्रीहियवादिभि-
स्सम्बद्धानि "उच्चैः ऋचा क्रियते, उपांशु यजुषे'त्येवंप्रकाराणि तैर्विरुद्ध
आचारः प्रमाणं न भवतीति मन्यन्ते । एतदुक्तं भवति—सर्वेषु वेदेषु
सर्वासु च शाखासु अग्निहोत्रादीनि(४) विश्वसृजामयनपर्यन्तानि कर्मा-
ण्येव तात्पर्यतया विधीयन्ते । अतो गार्हस्थ्यमेव श्रेष्ठम् । ऊर्ध्वरेतसां
त्वाश्रमास्तद्विरुद्धा नैवाऽऽश्रयणीयाः यदि वेदाः प्रमाणमिति । तथा च
गौतमः—'ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानात् गार्हस्थ्यस्ये'ति ।
एवं गार्हस्थ्यं प्रशस्यते ॥ ९ ॥
श्मशानानि भेजिर इति निन्दां परिहरति—
यत्तु श्मशानमुच्यते नानाकर्मणामेषोऽन्ते पुरु-
षसंस्कारो विधीयते ॥ १० ॥
यत्तु गृहस्थानां श्मशान श्रूयते स एष नानाकर्मणामग्निहोत्रादीना-
मन्ते पितृमेधाख्यः पुरुषसंस्कारो विधीयते । न तु पिशाचा भूत्वा
श्मशानमेव सेवन्त इति ॥ १० ॥
कुत इत्याह—
ततः परमनन्त्यं फलं स्वर्ग्यशब्दं श्रूयते ॥१२॥
ततः परं श्मशानकर्मणोऽनन्तरम्, अनन्त्यमपरिमितं स्वर्गशब्दवा-
च्यं फलं श्रूयते—'स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकमेती'ति ।
अनन्त्य स्वर्ग्यमिति(५) यकारश्छान्दसः उपजनः अपपाठो वा ॥१२॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने त्रयोविंशी कण्डिका ॥२३॥
१. वेदशास्त्रार्थविदा इति छ. पु. २ जै. सू १. १. २. ३. जै सू १. १. ४.
४. सहस्रवत्सरसाध्य सत्र विश्वसृजामयनम् । अत्र संवत्सरशब्दो दिनपर इति
मीमांसकाः । पू. मी. ६. ७. ३१
५. यकारोपजनच्छान्दसः इति भवितुं युक्तम् ।

२८० आपस्तम्बधर्मसूत्रे [ (प.९.) क. २४
पुनरपि गार्हस्थ्यमेव प्रकारान्तरेण स्तौति—
अथाप्यस्य प्रजातिममृतमाम्नाय आह--प्रजामनु
प्रजायसे तदु ते मर्त्याऽमृतमिति ॥ १ ॥
अथाऽपि अपि च अस्य गृहस्थस्य प्रजापतिं प्रजासन्तानम् अमृतम् अम-
रमणम् आम्नायो वेद आह हे मर्त्य मरणधर्मन् ! प्रजां जायमानामनु त्व प्रजायसे
त्वमेव प्रजारूपेण जायसे । तदेव ते मरणधर्मिणः अमृतममरणमिति ।
न त्व म्रियसे, यतस्त्वं प्रजारूपेण तिष्ठसीति ॥ १ ॥
उपपन्नं चैतदित्याह—
अथाऽपि स एवाऽयं विरूढः पृथक्प्रत्यक्षेणोपल-
भ्यते दृश्यते चाऽपि सारूप्यं देहत्वमे-
वाऽन्यत् ॥ २ ॥
अपि च स एवाऽय पृथग्विरूढः प्रत्यक्षेणोपलभ्यते । स एव द्विधाभूत इव
लक्ष्यते । दृश्यते हि सारूप्य द्वयोः । देहमात्रं तु भिन्नम् । देहत्वमिति
स्वार्थिकस्त्वः ॥ २ ॥
यदि पुत्ररूपेणाऽवस्थानं, किमेतावतेत्याह--
ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्परायेण
कीर्तिं स्वर्गं च वर्धयन्ति ॥ ३ ॥
ते पुत्राश्शिष्टेषु चोदितेषु कर्मसु वर्तमाना अवस्थिताः पूर्वेषा पितृपिता-
महादीनां साम्परायेण परलोकेन सम्बद्धानां कीर्ति स्वर्ग च वर्धयन्ति—अ
स्याऽयं पुत्र एवं कर्मा, अस्याऽय पौत्र इति । स्वर्गं च वर्धयन्ति । कीर्ति-
मतां हि स्वर्गवासश्श्रूयते ॥ ३ ॥
एवमवरोऽवरः परेषाम् ॥ ४ ॥
एवमनेन प्रकारेण अवरोऽवर परेषां कीर्तिं स्वर्गं च वर्धयति ॥ ४ ॥
आभूतसम्प्लवात्ते स्वर्गजितः ॥ ५ ॥
भूतसम्प्लवो महाप्रलयः । आ तस्मात्ते पुत्रिणस्स्वर्गजितो भवन्ति ते च ५
पुनस्सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ॥६॥
प्रलयानन्तरं सर्गः, तत्र संसारस्य बीजार्थाः प्रजाार्थाः प्रजापतयो
भवन्तीति भविष्यत्पुराणे श्रूयते ॥ ६ ॥

गार्हस्थ्यश्रैष्ठ्यम् ] उज्ज्वलोपेतं द्वितीयः प्रश्नः । २८१
अथाऽपि प्रजापतेर्वचनम् ॥ ७॥
अपि च प्रजापतेरपि वाक्यमस्मिन्नर्थे भवति । गार्हस्थ्यमेव वरि-
ष्ठमिति ॥ ७ ॥
त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञ-
मनुप्रदानम् । य एतानि कुर्वते तैरित्सह
स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशं-
सन्निति ॥ ८ ॥
त्रयीं विद्यां त्रयाणां वेदानामध्ययनम् । ब्रह्मचर्यमष्टाचत्वारिंशदादिकम् ।
प्रजातिं प्रजोत्पादनम् । श्रद्धामास्तिक्यम् । तप उपवासादि । यज्ञमग्निहो-
त्रादिकं सोमयागान्तम् । अनुप्रदानं अन्तर्वेदि बहिर्वेदि च दानम् । य
एतानि कर्माणि कुर्वते, तैरित् तैरेव सह वयं स्मः त एवाऽस्माकं सहायाः ।
अन्यत्तु ऊर्ध्वरेतसामाश्रमादिकं प्रशंसन् पुरुषो रजः पांसुर्भूत्वा ध्वंसते
नश्यति । इतिशब्दो वचनसमाप्त्यर्थः । यथैवं तर्हि शिष्टेषु वर्तमानाः
पुत्राः पूर्वेषां कीर्तिं स्वर्गे च वर्धयन्ति, तथा प्रतिषिद्धेषु वर्तमाना
अकीर्तिं नरकं च वर्धयेयुः ॥ ८ ॥
तत्राऽऽह--
तत्र ये पापकृतस्त एव ध्वंसन्ते यथा पर्णं
वनस्पतेर्न परान् हिंसन्ति ॥ ९ ॥
तत्र प्रजासन्ताने ये पापस्य कर्तारः, त एव ध्वंसन्ते न परान् पित्रादीन्
हिंसन्ति । यथा यदेव पर्णं वनस्पतेः कीटादिभिर्दूषितं तदेव पतति, न
वनस्पतिं शाखान्तरं वा पातयति तद्वत् ॥ ९ ॥
एतदेवोपपादयति--
नाऽस्याऽस्मिँल्लोके कर्मभिस्सम्बन्धो विद्यते तथा
परस्मिन् कर्मफलैः ॥ १० ॥
अस्येति सामान्यापेक्षमेकवचनम् । अस्य पित्रादेः पूर्वपुरुषस्य अस्मिन्
लोके पुत्रकृतैः कर्मभिः सम्बन्धो न विद्यते । दृष्टान्तोऽयम् । यथा पुत्रकृतेषु
कर्मसु पित्रादेः कर्तृत्वं नाऽस्ति, तथा परस्मिन्नपि लोके कर्मफलैरपि
सम्बन्धो नाऽस्तीत्यर्थः ॥ १० ॥
तदेतेन वेदितव्यम् ॥ ११ ॥
आप० ध० ३६

२८२ आपस्तम्बधर्मसूत्रे [(प्र.९.)क.२४.
यदुक्तं ये पापकृतस्त एव ध्वंसन्ति न परान् हिंसन्तीति तदर्थरू-
पमेतेन वक्ष्यमाणेन हेतुना वेदितव्यम् ॥ ११ ॥
प्रजापतेर्ऋषीणामिति सर्गोऽयम् ॥ १२ ॥
प्रजापतेर्हिरण्यगर्भस्य ऋषीणां च मरीच्यादीनामयं सर्गो देवादिरित्ये-
गन्तः। ते चाऽध्वस्ता एव स्वे स्वे पदे वर्तन्ते । यदि च पुत्राः पापकृतः
स्वयं ध्वंसमानाः परामपि ध्वंसयेयुः, तदैतन्नोपपद्यते--पुण्यकृतः सुखे-
नाऽद्यापि वर्तन्ते इति ॥ १२ ॥
अत्रोदाहरणमाह-
तत्र ये पुण्यकृतस्तेषां प्रकृतयःपरा ज्वलन्त्य
उपलभ्यन्ते ॥ १३ ॥
तत्र स्वर्गे ये पुण्यकृतो वसिष्ठादयस्तेषां प्रकृतयश्शरीराणि परा उत्कृष्टाः
ज्वलन्त्यः दीप्यमाना उपलभ्यन्ते, दिवि यथा सप्तर्षिमण्डलम्। श्रूयते
च(१) 'सुकृतां वा एतानि ज्योतींषि, यन्नक्षत्राणी'ति । इदमपि प्रमाणं
न पुत्राणां ध्वंसे पूर्वेषां प्रध्वंस इति ॥ १३ ॥
स्यात्तु कर्मावयवेन तपसा वा कश्चित्सशरीरोऽन्त-
वन्तं लोकं जयति सङ्कल्पसिद्धिश्च स्यान्न
तु तज्ज्यैष्ठ्यमाश्रमाणाम् ॥ १४ ॥
कर्मावयवेन पूर्वार्जितानां कर्मणामेकदेशेन भुक्तशेषेण तपसा वा तीव्रेण
कश्चिदूर्ध्वरेतास्सहशरीरेणाऽन्तवन्तं लोकं जयतीति यत्तत् स्यात् सम्भ-
वेदपि । यच्च सङ्कल्पादेव सिद्धिरस्यादिति, तदपि स्यात् न तु
तदाश्रमाणां ज्यैष्ठ्यकारणमिति । तदेव 'मैकाश्रम्यं त्वाचार्या' इत्यय-
मेव पक्षः स्थापितः। अन्ये मन्यन्ते-सर्वे आश्रमा दूषिता भूषिताश्च।
ततस्तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छतीत्येतदेव स्थि-
तमिति ॥ १४ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्विंशी कण्डिका ॥ १७ ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायां
उज्ज्वलायां द्वितीयप्रश्ने नवमः पटलः ॥९॥
१. तै. सं. ५. ५ १.

अथ दशमः पटलः ॥
व्याख्यातास्सर्ववर्णानां साधारणवैशेषिका
धर्मा राज्ञस्तु विशेषाद्वक्ष्यामः ॥ १ ॥
उक्तवक्ष्यमाणसङ्कीर्तनं श्रोतृबुद्धिसमाधानार्थम् । अहिंसासत्यास्ते-
यादयः सर्ववर्णानां साधारणधर्माः । अध्ययनादयस्त्रयाणाम् । अध्यापना-
दयो ब्राह्मणस्य । युद्धादयः क्षत्रियस्य । कृष्यादयो वैश्यस्य । शुश्रूषा
शूद्रस्य । राजाऽत्राभिषिक्तो विविक्षितः । तस्यैव हि वक्ष्यमाणं धर्मजातं
सम्भवति । तस्य विशेषाद्विशेषतो यद्वक्तव्यं तद्वक्ष्यामः । विशेषानिति
द्वितीयान्तपाठस्तु युक्तः ॥ १ ॥
दक्षिणाद्वारं वेश्म पुरं च मापयेत् ॥ २ ॥
वेश्म गृहं पुरं नगरं तदुभयमपि दक्षिणाद्वारं मापयेत् कारयेत् स्थप-
त्यादिभिः । दक्षिणपार्श्वे द्वारं यस्य तत्तथोक्तम् ॥ २ ॥
अन्तरस्थां पुरि वेश्म ॥ ३ ॥
सर्वेषामेव प्राकाराणां मध्ये या पूस्तस्यामन्तरस्था पुरि वेश्म मापये-
दात्मनः ॥ ३ ॥
तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ॥ ४ ॥
तस्य वेश्मनः पुरस्तादावसथः कारयितव्यः । एत्य वसन्त्यस्मिन्नि-
त्यावसथः आस्थानमण्डपः । तस्यामन्त्रणमिति संज्ञा(१) ॥ ४ ॥
दक्षिणेन पुरं सभा दक्षिणोदग्द्वारा यथोभयं
सन्दृश्येत बहिरन्तरं चेति ॥ ५ ॥
दक्षिणेनेत्येनबन्तम् । पुरमिति(२)'एनपा द्वितीये'ति द्वितीयान्तम् !
पुरस्य दक्षिणतः अदूरे सभा कारयितव्या । दक्षिणोदग्द्वारा दक्षिणस्यामु-
त्तरस्यां च दिशि द्वारं यस्यास्सा तथोक्ता । किमर्थमुभयत्र द्वारमिति
चेत् । यद्वहिर्वृत्तं यच्चाऽभ्यन्तरं तदुभयमपि यथा सन्दृश्येतेत्येवमर्थ-
मिति । सैषा द्यूतसभा । तस्यां द्यूतार्थिनः प्रविशन्तीति तदायस्थानं
राज्ञः ॥ ५ ॥
१. तत्र ह्यातिथय आमन्त्र्यन्ते इत्यधिकः पाठः घ. पु. २. पा. सू. २. ३. ३१.

२८४ आपस्तम्बधर्मसूत्रे [ (प्र. १०.) कं. २५.
सर्वेष्वेवाऽजस्रा अग्नयस्स्युः ॥ ६ ॥
वेश्मन्यावसथे सभायामित्येतेषु सर्वेष्वेव स्थानेषु लौकिका अग्न-
योऽजस्राः स्युः । अविच्छेदेन धार्याः ॥ ६ ॥
अग्निपूजा च नित्या यथा गृहमेधे ॥ ७ ॥
तेषु चाग्निषु नित्यमग्निपूजा कार्या । यथा गृहमेधे औपासने सायं प्रात-
र्होम इत्यर्थः । मन्त्रावपि तावेव, द्रव्यमपि तदेव ॥ ७ ॥
आवसथे श्रोत्रियावराध्यांनतिथीन् वासयेत् ॥ ८ ॥
आवसथाख्ये स्थाने अतिथीन् वासयेत् । ते विशेष्यन्ते श्रोत्रियावराध्याँ-
निति । अवरपर्यायोऽवराध्यशब्दः । यदि सर्वान्‍वासयितुं न शक्नोति
श्रोत्रियानपि तावद्वासयेदिति ॥ ८ ॥
तेषां यथागुणमावसथाः शय्याऽन्नपानं च विधेयम् ॥ ९ ॥
तेषामतिथीनां यथागुणं विद्यावृत्तानुगुणमावसथादि विदेय विशेषेण
देयम् । आवसथा अपवरकादयः । शय्या खट्वाद्यः । अन्नमोदनादि । पान(१)
तक्रादि ॥ ९ ॥
गुरून्मात्यांश्च नातिजीवेत् ॥ १० ॥
गुरवः पित्रादयः । अमात्या मन्त्रिणः । तान्नाऽतिजीवेत् भक्ष्यभोज्याच्छा-
दनादिषु तान्नाऽतिशयीत ॥ १० ॥
न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वाऽव-
सीदेदभावाद्वुद्धिपूर्वं वा कश्चित् ॥११॥
अस्य राज्ञो विषये राष्ट्रे क्षुधा आहाराभावेन बुभुक्षया रोगेण व्याधिना
हिमेन नीहारेण वर्षादीनामप्युपलक्षणमेतत् । आतपः आदित्यरश्मितापः ।
एतैः प्रकारैरभावात् बुद्धिपूर्वं वा न कश्चिद्ब्राह्मणोऽप्यवसीदेत् अवसन्नो
न स्यात् । राज्ञो ह्ययमपराधो यदाहाराद्यभावेन कश्चिदवसन्नः स्यात् ।
बुद्धिपूर्वं वेत्यत्रोदाहरणम् — यदा कश्चित् करमृणं वा दाप्यो भवति,
तदा नाऽसौ हिमातपयोरुपनिवेशयितव्यः भोजनाद्वा निरोद्धव्यः ।
तथा कुर्वाणं राजा दण्डयेदिति ॥ ११ ॥
१. तक्रसूपादि इति च. पु. तक्रादिसूपादि इति क. पु.

राजधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८५
सभाया मध्येऽधिदेवनमुद्धत्याऽवोक्ष्याऽक्षान्नियपेद्युग्मान्
वैभीतकान् यथार्थान् ॥ १२ ॥
पूर्वोक्तायाः सभाया मध्ये अधिदेवन यस्योपरि कितवा अक्षैर्दीव्यन्ति
तत्स्थानमधिदेवनम्। तत् पूर्वं काष्ठादिना उद्धन्ति उद्धृत्याऽवोक्षति। अवो-
क्ष्य तत्राऽक्षान्युग्मसंख्याकान्वैभीतकान् विभीतकवृक्षस्य विकारभूतान्
यथार्थान् यावद्भिर्द्यूतं निर्वर्तते, तावतो निवपति। कः? यस्तत्र राज्ञा
नियुक्तः सभिको नाम ॥ १२ ॥
आर्याः शुचयस्सत्यशीला दीवितारस्स्युः ॥ १३ ॥
आर्याः द्विजातयः । (१)शुचयोऽर्थशुद्धाः । सत्यशीलास्सत्यवादिनः ।
एवंभूता एव पुरुषास्तत्र दीवितारः देवितारः स्युः । त एव तत्र दीव्ये-
युरित्यर्थः । तेच तत्र देवित्वा यथाभाषितं पणं सभिकाय दत्वा
गच्छेयुः । स च राज्ञे तमायपहरहः प्रतिमासं प्रतिसंवत्सरं वा दद्यात् ।
स एव च स्थानान्तरे दीव्यतो दण्डयेत्, सभास्थाने च कलहकारान् ।
तत्र याज्ञवल्क्यः-
(२)'ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् ।
गृह्णीयाद्धूर्त कितवादितराद्दशकं शतम् ॥
स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् ।
जितमुद्ग्राहयेज्जैत्रं दद्यात्सत्यं वचः क्षमी ॥' इति ॥ १३ ॥
आयुधग्रहणं वृत्तगीतवादित्राणीति राजाधीने-
भ्योऽन्यत्र न विद्येरन् ॥ १४ ॥
आयुधग्रहणादीनि राजाधीनेभ्यो राजाश्रया ये पुरुषास्तेभ्योऽन्यत्र न
विद्येरन् न भवेयुः । उत्सवादिष्वन्यत्रापि भवतीत्याचारः ॥ १४ ॥
क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा
तस्करभयं न विद्यते ॥ १५ ॥
यस्य राज्ञो विषये ग्रामेऽरण्ये च चोरभयं नास्ति स एव राजा क्षेम-
कृत् क्षेमङ्करः । न त्वन्यः शतं तुभ्यं शतं तुभ्यमिति ददानोऽपि ॥ १५ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने पञ्चविंशी कण्डिका ॥ २५ ॥
१. शुचयो धर्मशुद्धाः इति च. पु. २. या. स्मृ. २. १९९; २००

२८६ आपस्तम्बधर्मसूत्रे [(प.१०.)क.२६.
भृत्यानामनुपरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो
यथार्हमनन्ताँल्लोकानभिजयति ॥ १ ॥
भृत्यानामनुपरोधेन भृत्यवर्गस्य यथोपरोधो न भवति तथा ब्राह्मणेभ्यो
यथार्हं विद्यावृत्ताद्यनुरूपं क्षेत्रं वित्तं च दद्यात् । एवं दददनन्ताँल्लोकानभिजयति ॥१॥
ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरा-
त्मयूपो यज्ञोऽनन्तदक्षिण इति ॥ २ ॥
ब्राह्मणस्वानि चोरादिभिरपहृतानि अपजिगीषमाणः ब्राह्मणेभ्यो दानाया-
पजित्य ग्रहीतुमिच्छन् यो राजा युद्धे चोरैर्हन्यते तमात्मयूपोऽनन्तदक्षिणो यज्ञ
इत्याहुर्धर्मज्ञाः । सङ्ग्रामो यज्ञः । तस्य आत्मा यूपस्थानीयः । आत्मेति
शरीरमाह । अन्तरात्मा तु पशुस्थानीयः । प्रत्यानिनीषितं तु द्रव्यं
दक्षिणा । सूत्रे तु 'तं यज्ञ इत्याहु'रिति गौणो वादः ॥ २ ॥
एतेनाऽन्ये शूरा व्याख्याताः प्रयोजने युध्य-
मानास्तनुत्यजः ॥ ३ ॥
प्रयोजनं चोरादिभिरपहृतानां ब्राह्मणस्वानां प्रत्यानयनादि, तदर्थं
युध्यमाना ये शूरास्तनुत्यजो भवन्ति तेऽप्येतेन राज्ञा व्याख्याता आत्मयूपा
यज्ञा अनन्तदक्षिणा इति ॥ ३ ॥
ग्रामेषु नगरेषु चाऽऽर्याञ्छुचीन् सत्यशीलान
प्रजागुप्तये निदध्यात् ॥ ४ ॥
आर्याञ्छुचीन् सत्यशीलानिति व्याख्यातम् । एवंभूतान् पुरुषान् ग्रामेषु
नगरेषु च प्रजानां रक्षणार्थं निदध्यात् नियुञ्जीत ॥ ४ ॥
तेषां पुरुषास्तथागुणा एव स्युः ॥ ५ ॥
तेषां नियुक्तानां ये पुरुषा नियोज्याः तेऽपि तथागुणा आर्यादिगुणा एव
स्युः ॥ ५ ॥
सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ॥ ६ ॥
सर्वतः सर्वासु दिक्षु योजनमात्रं नगरं तस्करेभ्यो रक्षणीयम् । रक्ष्यन्नि-
त्यपपाठः ॥ ६ ॥
क्रोशो ग्रामेभ्यः ॥ ७ ॥

.राजधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८७
ग्रामेभ्यस्तु सर्वासु दिक्षु क्रोशो रक्ष्यः। ग्रामेभ्यः इति (१) यतश्चाऽध्व-
कालपरिमाणं तत्र पञ्चमी वक्तव्ये'ति पञ्चमी ॥ ७ ॥
तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ॥ ८ ॥
तत्र योजनमात्रे क्रोशमात्रे वा यन्मुष्यते चोर्यते ते नियुक्ताः स्वामि
भ्यस्तत्प्रतिदद्यु राज्ञा तैस्तत् प्रतिदाप्यम् राजा तैः प्रतिदापयेदिति प्रायेण
दन्त्योष्ठ्यं वकारं पठन्ति ॥ ८ ॥
धर्म्यं शुल्कमवहारयेत् ॥ ९ ॥
तत्र गौतमः-
(२)'विंशतिभागश्शुल्कः पण्ये' इति। यद्वणिग्भिर्विक्रीयते हिङ्ग्वादि,
तस्य विंशतितमं भागं राजा गृह्णीयात् । तस्य शुल्क इति संज्ञा ।
एष धर्म्यः धर्म्यश्शुल्कः। तमधिकृतैरेवाऽवहारयेत् ग्राहयेदिति। मूलादिषु
विशेषस्तैनेवोक्तः-(३)'मूलफलपुष्पौषधिमधुमांसतृणेन्धनानां षष्ठि-
क्य'मिति ॥ ९ ॥
अकरः श्रोत्रियः ॥ १० ॥
श्रोत्रिय. करं न दाप्यः । अन्ये दाप्याँः ॥ १० ॥
सर्ववर्णानां च स्त्रियः ॥ ११ ॥
अकराः । वर्णग्रहणात् प्रतिलोमादिखियो दाप्याः ॥ ११ ॥
कुमाराश्च प्राक् व्यञ्जनेभ्यः ॥ १२ ॥
व्यञ्जनानि श्मश्रूवादीनि । यावत्तानि नोत्पद्यन्ते तावदकराः ॥ १२ ॥
ये च विद्यार्था वसन्ति ॥ १३ ॥
विद्यामुद्दिश्य ये गुरुषु वसन्ति ते जातव्यञ्जना अप्यसमाप्तवेदा
अकराः ॥ १३ ॥
तपस्विनश्च ये धर्मपराः ॥ १४ ॥
तपस्विनः कृच्छ्रचान्द्रायणादिप्रवृत्ताः । धर्मपरा, अफलाकाङ्क्षिणः
नित्यनैमित्तिकधर्मनिरताः। धर्मपरा इति किम् ? ये अभिचारकामा मन्त्र-
सिद्धये तपस्तप्यन्ते ते अकरा मा भुवंन्निति ॥ १४ ॥
१. पा. सू. (वा) १. ४. ३१. २. गौ. ध १०. २६. ३. गौ. ध. १०. २७.

२८८ आपस्तम्बधर्मसूत्रे [(प. १०,) क. २६.
शूद्रश्च पादावनेक्ता ॥ १५ ॥
यस्त्रैवर्णिकानां पादावनेक्ता स शूद्रोऽप्यकरः ॥ १५ ॥
अन्धमूकबधिररोगाविष्टाश्च ॥ १६ ॥
एतेऽप्यकराः यावदान्ध्यादि ॥ १६ ॥
ये व्यर्था द्रव्यपरिग्रहैः ॥ १७ ॥
ये च परिव्राजकादयः द्रव्यपरिग्रहैर्व्यर्था निष्प्रयोजनाः शास्त्रतो येषां
द्रव्यपरिग्रहः प्रतिषिद्धः तेऽप्यकराः ।
तथा च वसिष्ठः—
(१)“अकरः श्रोत्रियो राजा पुमाननाथः प्रव्रजितो बालवृद्धतरुणप्र-
शान्ता” इति ॥ १७ ॥
अबुद्धिपूर्वमलङ्कृतो युवा परदारमनुप्रविशन्
कुमारीं वा वाचा बाध्यः ॥ १८ ॥
यत्र परदारा आसते कुमारी वा पतिंवरा, तत्र युवा अलङ्कृतः अ-
बुद्धिपूर्वमज्ञानादनुप्रविशन् वाचा बाध्यः-अत्रेयमास्ते, माऽत्र प्रविशेति ॥ १८ ॥
बुद्धिपूर्वे तु दुष्टभावो दण्ड्यः ॥ १९ ॥
यस्तु जानन्नेव दुष्टभावः प्रलोभनार्थी प्रविशति स दण्ड्यो द्रव्यानु-
रूपमपराधानुरूपं च । दुष्टभावग्रहणामाचार्यादिप्रोषितस्य प्रवेशे दण्डो
मा भूदिति ॥ १९ ॥
सन्निपाते वृत्ते शिश्नच्छेदनं सवृषणस्य ॥ २० ॥
सन्निपातो मैथुनं, तस्मिन् वृत्ते शिश्नच्छेदन दण्डः । सवृषणस्येत्युपसर्ज-
नस्यापि शिश्नस्य विशेषणम् । सवृषणस्य शिश्नस्य च्छेदनमिति ॥ २०॥
कुमार्यां तु स्वान्यादाय नाश्यः ॥ २१ ॥
कुमार्यां तु सन्निपाते वृत्ते सर्वस्वहरणं कृत्वा देशान्निर्वास्यः, न
शिश्नच्छेदः ॥ २१ ॥
अथ भृत्यै राज्ञा ॥ २२ ॥
अथ सन्निपातात्प्रभृति ते परदारकुमार्यौ राज्ञा भृत्यै ग्रासाच्छा-
दनप्रदानेन भर्तव्ये ॥ २२ ॥


१. व. ध. १९. २३.

नियोगविधिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८९
रक्षेच्चाऽत ऊर्ध्वं मैथुनात् ॥ २३ ॥
अतः प्रथमात् सन्निपातात् ऊर्ध्वं मैथुनाच्च रक्षेद्यथा पुनः मैथुनं
नाचरेतस्तथा कार्ये ॥ २३ ॥
निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् ॥ २४ ॥
यदि ते एवं निरुद्धे निर्वेषणमभ्युपेतः अभ्युपगच्छतः तदा निर्वेषा-
भ्युपाये तु स्वामिहस्ते अवसृजेत् दद्यात् । परदारं भर्त्रे श्वशुराय वा,
कुमारीं पित्रे भ्रात्रे वा । अनभ्युपगमे तु प्रायश्चित्तस्य यावज्जीवं
निरोधः ॥ २४ ॥
इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने षड्विंशी कण्डिका ॥ २६ ॥
चरिते यथापुरं धर्माद्धि सम्बन्धः ॥ १ ॥
चरिते तु निर्वेषे यथापुरं यथापूर्वं धर्मात् , तृतीयार्थे पञ्चमी । धर्मेण
सम्बन्धो भवति । हिशब्दो हेतौ । यस्मादेवं तस्मात् अवश्यं प्रायश्चित्तं
कारयितव्ये । ततो यज्ञविवाहादौ न कश्चिद्दोष इति ॥ १॥
परदारप्रसङ्गादुच्यते -
सगोत्रस्थानीयां न परेभ्यस्समाचक्षीत ॥ २ ॥
योऽनपत्यः आत्मनश्शक्त्यभावं निश्चित्य क्षेत्रजं पुत्रमिच्छन् भार्या-
(१)परत्र नियुङ्क्ते, मृते वा तस्मिन् तत्पित्रादयस्सन्तानकाङ्क्षिणः, तद्वि-
षयमेतत् । कुलान्तरप्रविष्टा सगोत्रस्थानीया । सा हि पूर्वं पितृगोत्रा
सती(२) भर्तृगोत्रधर्मैरधिक्रियेत । अतः भर्तृपक्ष्याणां सगोत्रस्थानी-
या भवति । भर्ता तु साक्षात्सगोत्रः । तां सगोत्रस्थानीयां न परेभ्यो-
ऽसगोत्रेभ्यस्समाचक्षीत—इयमनपत्या, अस्यामपत्यमुत्पाद्यतामिति ।
सगोत्रायैव तु समाचक्षीत, तत्रापि देवराय, तदभाव(३) सर्पिण्डेभ्यः ॥
कः पुनस्सगोत्रस्य विशेषः ? तमाह--
कुलाय हि स्त्री प्रदीयते इत्युपदिशन्ति ॥ ३ ॥
हि यस्मात् स्त्री कन्या प्रदीयमाना कुलायैव प्रदीयते इत्युपदिशन्त धर्म
१. परस्मै. इति. क. पु. २. भर्तृगोत्रधर्मैराधिक्रियते ।
३. सपिण्डाय. इति. च पु.
आप० ध० ३७

२९० आपस्तम्बधर्मसूत्रे [ (प.१०)क.२७.
ज्ञाः । तस्मात् सगोत्रायैव समाचक्षीतेति(१) ॥ ३ ॥
तमिमं नियोगं दूषयति--
तदिन्द्रियदौर्बल्याद्विप्रतिपन्नम् ॥ ४ ॥
यद्यप्येवं पूर्वे कृतवन्तः, तथाऽपि तदद्यत्वे विप्रतिपन्नं विप्रतिषिद्धम् ।
कुतः ? इन्द्रियदौर्बल्यात् । दुर्बलेन्द्रिया ह्यद्यत्वे मनुष्याः । ततश्च शास्त्रव्या-
जेनापि भर्तृव्यतिक्रमेऽतिप्रसङ्गस्स्यादिति ॥ ४ ॥
सगोत्रविषयेऽपि यो विशेषस्सोऽपि नास्तीत्याह--
अविशिष्टं हि परत्वं पाणेः ॥ ५ ॥
येन पाणिना पूर्वमग्निसाक्षिकं पाणिर्गृहीतः कन्यायाः, तस्मात् पा-
णेरन्यो भवति सगोत्रस्याऽपि पाणिः । यस्मादेवं पाणेः परत्वमविशिष्टं स-
मानम् ? तस्मादविशेष इति । अविशिष्टमित्यपपाठः ॥ ५ ॥
पाणिरन्यो भवतु, को दोषः ?
तद्व्यतिक्रमे खलु पुनरुभयोर्नरर्कः ॥ ६ ॥
तस्य पाणेर्व्यतिक्रमे उभयोर्दम्पत्योः नरको भवति । खलुपुनरिति प्र-
सिद्धियोतकौ निपातौ । अतः पत्याऽपि न स पाणिस्त्याज्यः यः
पूर्वं गृहीतः । भार्ययाऽपि न स पाणिस्त्याज्यो येन पूर्वमात्मानः पा-
णिर्गृहीतः ॥ ६ ॥
नियमारम्भणो हि वर्षीयानभ्युदय एवमा-
रम्भणादपत्यात् ॥ ७ ॥
आरभ्यतऽनेनेत्यारम्भणः योऽयं दम्पत्योः परस्परनियमः, स आ-
रम्भणो यस्य स नियमारम्भणः । एवंभूतो योऽभ्युदयस्स एवं वर्षीयान् ।
वृद्धतरः । कस्मात् वर्षीयान् ? एवमुक्तप्रकारेण नियोगलक्षणेन यदपत्य-
मारभ्यते तस्मादेवमारम्भणादपत्याद्वर्षीयानिति । अपत्यादिति पाठः ।
आपत्यादिति प्रायेण पठन्ति ॥ ७ ॥
नाश्य आर्यश्शूद्रायाम् ॥ ८ ॥
आर्यस्त्रैवर्णिकः, शूद्रायां परभार्यायां प्रसक्तो राज्ञा राष्ट्रात्नाश्यः
निर्वास्यः ॥ ८ ॥
१. “कुलाय कन्या क्वचिद्देशेषु दीयते । गोत्रजे न केनचिदप्यनुभूयते । उक्तं च
बृहस्पतिना—अभर्तृका भ्रातृभार्या ग्रहणं चातिदूषितम् । कुले कन्या प्रदानं च दशष्व-
न्येषु दृश्यते इति” इत्यधिकः पाठ. घ. पु.

परस्त्रीगमनप्रायश्चित्तम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २९१
वध्यश्शूद्र आर्यायाम् ॥ ९ ॥
शूद्रस्तु त्रैवर्णिकस्त्रियां प्रसक्तो वध्यः । एतच्च योऽन्तःपुरादिष्वधि-
कृतो रक्षकस्सन् स्वयं गच्छति, तस्य भवति । अन्यस्य तु पूर्वोक्तं
शिश्नच्छेदनमेव । तथा च शूद्राधिकारे गौतमः(१)-'आर्यस्यभिग-
मने लिङ्गोद्धारः स्वहरणं च । गोप्ता चेद्वधोऽधिक' इति । याज्ञवल्क्येन
प्रातिलोम्येन गमनमात्रे वध उक्तः-
"(२)सजातावुत्तमो दण्डः आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः(३) पुंसां स्त्रीणां नासादिकृन्तनम् ॥' इति ।
सोऽनुबन्धाभ्यासाद्यपेक्षो द्रष्टव्यः । तथा 'नास्य भार्य्यशूद्रायामि'
त्याचार्यवचनमप्यभ्यासापेक्षम्, ब्राह्मणादेः क्रमविवाहे या शूद्रा, तद्विष-
यं वा द्रष्टव्यम् ॥ ९ ॥
दारं चाऽस्य कर्शयेत् ॥ १० ॥
अस्य शूद्रस्य या दारभूता तेन भुक्ता त्रैवर्णिकस्त्री तां च कर्शयेत्
व्रतनियमोपवासैः । या प्रजाता न भवति तद्विषयमेतत् ।
(४)'ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः॥'
इति स्मरणात् ॥ १० ॥
सवर्णायामन्यपूर्वायां सकृत्सन्निपाते पादः
पततीत्युपदिशन्ति ॥ ११ ॥
अन्यः पूर्वः पतिः यस्यास्सा अन्यपूर्वा परभार्या, तस्यां सवर्णायां सकृ-
द्गमने पादः पतति । पतितस्य द्वादशवार्षिकं प्रायश्चित्तम् । तस्य तुर्योऽ
शस्त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यमस्य प्रायश्चित्तम् । एतच्च श्रोत्रियभा-
र्यायामृतुकाले कामतः प्रथम(५)दूषकस्य । तत्र गौतमः(६)-'द्वे पर-
दारे । त्रीणि श्रोत्रियस्ये'ति ॥ ११ ॥
एवमभ्यासे पादः पादः ॥ १२ ॥
एवमभ्यासे प्रत्यभ्यासं पादः पादः पतति ॥ १२ ॥
१. गौ. ध. १२. २. ३. २. या. स्मृ. २. २८६.
३. पुंसो नार्याः कर्णादिकर्तनम् इति विज्ञानेश्वरारूढः पाठः ।
४. श्लोकोऽयं मानवे एकादशाध्याये १७८ श्लोकानन्तर प्रक्षिप्ततया पठितः ।
५. दूषकस्य ब्राह्मणस्य. इति घ. च. पु ६. गौ. ध. २२. २९, ३०.

२९२ आपस्तम्बधर्मसूत्रे [(प.१०)क.२७.
चतुर्थे सर्वम् ॥ १३ ॥
अतः -चतुर्थे सन्निपाने सर्वमेव पतति । तनश्च पूर्णद्वादशवार्षिकं कर्तव्य-
म् । तृतीये नव वर्षाणि । द्वितीये षड्वर्षाणि । एतच्च प्रतियोगं स्त्रीभेदेन
प्रथमदूषकस्य । एकस्यामेव त्वभ्यासे कल्प्यम् । तत्र-
(१)'यत् पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्,
इति स्मरणात् स्त्रिया अपि प्रतियोगं पादः पादः पतति । तदनुरो-
धेन कल्प्यम् ॥ १३ ॥
जिह्वाच्छेदनं शूद्रस्याऽऽर्ये धार्मिकमाक्रोशतः ॥ १४ ॥
शूद्रो द्विजातीनामन्यतमं धार्मिके(२)स्वकर्मस्थं यद्याक्रोशति
निन्दति गर्हते, तदा तस्य जिह्वा छेत्तव्येति । मनुस्तु सामान्येनाह-
(३)'येनाङ्गेनावरो वर्णो ब्राह्मणस्याऽपराध्नुयात् ।
तदङ्गं तस्य छेत्तव्यं तन्मनोरनुशासनम् इति ॥
गौतमस्तु--(४)'शूद्रो द्विजातीनातिसन्धायाऽभिहत्य च वाग्दण्डपारु-
ष्याभ्यामङ्गं मोच्यो येनोपहन्द्या'दिति ॥ १४॥
वाचि पथि शय्यायामासन इति समीभवतो
दण्डताडनम् ॥ १५ ॥
यस्तु शूद्रो वागादिष्वार्यैस्समीभवति, न तु न्यग्भूतः, तस्य दण्डेन
ताडनं कर्तव्यम् । स दण्डेन ताडयितव्यः । अयमस्य दण्डः ॥ १५ ॥
पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः ॥१६॥
भूम्यादानं परक्षेत्रस्य बलात्स्वीकारः, पुरुषवधादिषु निमित्तेषु
शूद्रस्सर्वस्वहरणं कृत्वा पश्चाद्वध्यः मारयितव्यः ॥ १६ ॥
चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य ॥ १७ ॥
ब्राह्मणस्य त्वेतेषु निमित्तेषु चक्षुषो निरोधः कर्तव्यः । पट्टबन्धादिना
चक्षुषी निरोद्धव्ये, यथा यावज्जीवं न पश्यति । न तूत्पाटयेतव्ये
(५)'न शारीरो ब्राह्मणदण्डः । अक्षतो ब्राह्मणो व्रजे'दिति स्मरणात् ।
'चक्षुनिरोध' इति रेफलोपश्छान्दसः ॥ १७ ॥
नियमतिक्रामिणमन्यं वा रहसि बन्धयेत् ॥ १८ ॥
१. म. स्मृ. ११. १७७. २. स्वधर्मस्थ. इति च. पु ३. म. स्मृ. ८. २७९.
४. गौ. १२. १. ५. गौ. ध. १२. ४६.

उज्ज्वलोपेते द्वितीयः प्रश्नः । २९३
यो वर्णाश्रमप्रयुक्तान्नियमानतिक्रामति तं नियमातिक्रमणमन्य वा प्रति-
षिद्धानां कर्तारं रहसि बन्धयेत् निगलितं निरुन्ध्यात् ॥ १८ ॥
आसमापत्तेः ॥ १९ ॥
यावदसौ नियमान् प्रतिपत्स्ये प्रतिषिद्धेभ्यो निवर्तिष्य इति
ब्रूयात् ॥ १९ ॥
असमापत्तौ नाशः ॥ २० ॥
यद्यसौ दीर्घकालं निरुद्धोऽपि न समापद्येत, ततो नाशः निर्वास्यः२०
आचार्य ऋत्विक्स्नातका राजेति त्राणं स्युरन्यत्र
वध्यात् ॥ २१ ॥
यदि दण्डे प्रवृत्तं राजानमाचार्यो ब्रूयात्-अहमेनमतः परं वारयि-
ष्यामि मुच्यतामयमिति । अतोऽङ्गदण्डं प्राप्तेऽर्थदण्डम्, अर्थदण्डे प्राप्ते
ताडनेम् , ताडने प्राप्ते धिग्दण्डमिति कृत्वा तद्वशे विसृजेत् । एवमृ-
त्विजि । ऋत्विगाचार्यौ राज्ञस्स्वभूतौ न दण्ड्यस्य । स्नातको विद्याव्रता-
भ्याम् । राजा अनन्तरादिः । सर्व एते राज्ञस्सम्मान्याः । अतस्ते
दण्ड्यस्य त्राणं स्युः । उक्तेन प्रकारेण रक्षका भवेयुः । नान्यः कश्चित् ।
तेऽप्यन्यत्र वधात् यस्य वधानुगुणोऽपराधः न तस्याऽऽचार्यादयोऽपि
त्राणम् ; हन्तव्य एव स इति ॥ २१ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने सप्तविंशी कण्डिका ॥ २७ ॥
इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्ज्वलायां द्वितीयप्रश्ने दशमः पटलः ॥ १० ॥

अथैकादशः पटलः ॥
क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यस्स-
मृद्धस्स भावि तदपहार्यः ॥ १ ॥
वैश्यो वैश्यवृत्तिर्वा परस्य क्षेत्रं कृष्यर्थं परिगृह्य यदि उत्थानं कृषि
विषयं यत्नं न कुर्यात्, तदभावाच्च फलं न स्यात्, तत एतस्मिन्निमित्ते
स कर्षकस्समृद्धश्चेत्तस्मिन् भोगे यद्भावि फलं तदपहार्यः अपहारयितव्यः ।
राज्ञा क्षेत्रस्वामिने दाप्यः ॥ १ ॥
अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् ॥ २ ॥
कीनाशः कर्षकः । तस्याऽवशिनः अस्वतन्त्रस्य निर्धनस्य कर्मन्यासे
स चेत् कृषिकर्म न्यसेत् विच्छिन्द्यात् तस्य दण्डेन ताडन कर्तव्यं स
दण्डेन ताडयितव्यः । अर्थाभावाच्चाऽर्थदण्डः ।
अपर आह—अवशी अवश्यः अविधेयः यः क्षेत्रं परिगृह्याऽवशिनः
कीनाशस्य कृषिकर्म न्यसेत् न स्वयं कुर्यात्, तदा स परिग्राहको
दण्डेन ताडयितव्य इति । यदि वा अवशिन इति बहुव्रीहिः । यस्य
कीनाशस्य वशी स्वतन्त्रः क्षेत्रवान्नास्ति, स यदि पूर्वकृष्टस्य क्षेत्रस्य
कृषिकर्म न्यसेत् न कुर्यात्, तस्य दण्डताडनं दण्ड इति राजपुरुष-
स्योपदेशः ॥ २ ॥
तथा पशुपस्य ॥ ३ ॥
पशुपो गोपालः तस्याऽपि कर्मन्यासे पालनस्याऽकरणे दण्डेन ताडनं
दण्डः ॥ ३ ॥
अवरोधनं चाऽस्य पशूनाम् ॥ ४ ॥
ये चाऽस्य पशवो रक्षणाय समर्पितास्तेषां चाऽवरोधनमपहरणं कर्त-
व्यमन्यस्य गोपस्य समर्पणीया इति ॥ ४ ॥
हित्वा व्रजमादिनः कर्शयेत्पशून् ॥ ५ ॥
ये पशवो व्रजे गोष्ठे निरुद्धास्तं व्रजं हित्वा आदिनस्सस्यादेर्भक्षयि-
तारो भवन्ति; तान् कर्शयेत् बन्धनादिना कृशान् कुर्यात् । कः ? यत् भ-
क्षितं तद्वान्, राजपुरुषो वा ॥ ५ ॥
नाऽतिपातयेत् ॥ ६ ॥

दण्डानर्हाः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २९५
नाऽतिनिरोधं कुर्यात् न ताडयेद्वेति ॥ ६ ॥
अवरुध्य(१) पशून्मारणे नाशने वा
स्वामिभ्योऽवसृजेत् ॥ ७ ॥
यदि पशुपः पशूनवरुध्य पालयितुं गृहीत्वा सभ्यस्थाने विसृज्यो-
पेक्षया मारयेत् नाशयेद्वा । नाशनं चारादिभिरपहरणम् । स स्वामिभ्यः
पशूनवसृजेत् प्रत्यर्पयेत् पश्वभावे मूल्यम् ॥ ७ ॥
प्रमादादरण्ये पशूनुत्सृष्टान् दृष्ट्वा ग्राममानीय
स्वामिभ्योऽवसृजेत् ॥ ८ ॥
यदि स्वामिनः प्रमादादरण्ये पशूनुत्सृजेयुः विना पालकेन ततस्तान्
दृष्ट्वा ग्राममानीय स्वामिभ्यः अर्पयेत् । कः ? यस्तत्र रक्षकत्वेन राज्ञा
नियुक्तः ॥ ८ ॥
पुनः प्रमादे सकृदवरुध्य ॥ ९ ॥
पुनः प्रमादादुत्सृष्टेषु सकृदवरुध्य स्वामिभ्योऽवसृजेत् ॥ ९ ॥
तत ऊर्ध्वं न सूक्षेत् ॥ १० ॥
ततो द्वितीयात् प्रयोगादूर्ध्वं 'ग्राममानीयै'त्यादि यदुक्तं तन्न सूक्षेत् ना-
द्रियेत तस्मिन् विषये उपेक्षेत ॥ १० ॥
परपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे फले
गन्धे ग्रासे शाक इति वाचा बाध्यः ॥ ११ ॥
एधाश्चोदकं च एधोदकम् । ग्रासो गवाद्यर्थो यवसादिः । सर्वत्र वि-
षयसप्तमी । यः परपरिग्रहोऽयमित्यविद्वानजानन् एधादिकमादत्ते गृह्णा-
ति, स तस्मिन्विषये तत्र नियुक्तेन राजपुरुषेण निष्ठुरया वाचा बाध्यः
निवार्यः ॥ ११ ॥
विदुषो वाससः(२) परिमोषणम् ॥ १२ ॥
यस्तु विद्वानेवाऽऽदत्ते तस्य वाससोऽपहारः कर्तव्यः ॥ १२ ॥
अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमाददानः॥१३॥
तथाशब्दस्य भोजनमित्यनेन सम्बन्धः । प्राणसंशयदशायामेधो-
१. 'पशून्मारयेन्नाशयेद्वा' इति छ, पु. २. परिमोक्षणम्, इति, क, पु.