सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 289, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 289

२७८ आपस्तम्बधर्मसूत्रे [ (प्र. ९.) क. २३.
गृहस्थादन्ये त्रयोऽपि ऊर्ध्वरेतसः। तेषामेषा प्रशंसेति ॥ ५ ॥
पुनरपि तेषामेव प्रकारान्तरेण प्रशंसा—
अथाऽपि सङ्कल्पसिद्धयो भवन्ति ॥ ६ ॥
अथाऽपि अपि च सङ्कल्पादेव सिद्धयो भवन्ति तेषामूर्ध्वरेतसाम् ॥६॥
तत्रोदाहरणम् —
यथा वर्षं प्रजा दानं दूरेदर्शनं मनोज-
वता यच्चाऽन्यदेवंयुक्तम् ॥ ७ ॥
यदि महत्यामनावृष्टौ (१) सत्यां ‘वर्षतु देव’ इति ते कामयेरन् तदा
कामवर्षी पर्जन्यो भवति । यदि वा कश्चिदपुत्रमनुगृह्णीयुः-पुत्रोऽस्य जा-
यतामिति स पुत्रवानेव भवति । यदि वा (२) चोलेष्ववस्थितास्तदैव हि-
मवन्तं दिदृक्षेरन् तथैव तद्भवति। मनस इव जवो येषां ते मनोजवाः तेषां
भावो मनोजवता । यदि कामयेरन् अमुं देशमित्यामेव कालकलायां प्रा-
प्नुयामेति, ततो यावता कालेन मनस्तं देशं प्राप्नोति तावता तं देशं
प्राप्नुयुरिति । यच्चान्यदेवयुक्तम् रोगिणामारोग्यादि तदपि सङ्कल्पादेव तथा
भवति ॥ ७ ॥
यस्मादेवम्—
तस्माच्छ्रुतितः प्रत्यक्षफलत्वाच्च विशिष्टा-
नाश्रमानेतानेके ब्रुवते ॥ ८ ॥
तस्माच्छ्रुतितः ‘यदहरेव विरजेत्तदहरेव प्रव्रजेदि’त्यादिश्रुत्यनुगतत्वा-
दुक्तेन प्रकारेण प्रत्यक्षफलत्वाच्च एतानूर्ध्वरेतसामाश्रमान् विशिष्टान् गार्ह-
स्थ्यादुत्कृष्टानेके ब्रुवत इति ॥ ८ ॥
तदिदं गार्हस्थ्योत्कर्षप्रतिपादनेन निराकरोति—
त्रैविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि
श्रूयन्ते व्रीहियवपश्वाज्यपयःकपालपत्नीसम्बन्धा-
न्युच्चैर्नीचैः कार्यमिति तैर्विरुद्ध आचारोऽप्रमा-
णमिति मन्यन्ते ॥ ९ ॥
१. सत्यां इति नास्ति च. पु. २ ‘दूरेषु’ इति. छ. पु.