सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 288, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 288

ब्रह्मचर्यादिप्रशंसा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७७
भूयांसं वा नियममिच्छन्नन्वहमेव पात्रेण
सायंप्रातरर्थमाहरेत् ॥ १ ॥
इदमेकाकिनो वानप्रस्थस्य । भूयांसं नियममिच्छन्न सस्यं सञ्चिनुयात् ।
किं तर्हि ? अन्वहमेव पात्रेण येनकेनचित् सायंप्रातश्चाऽर्थमशनीयमात्रमाहरेत्
वानप्रस्थेभ्य एव ॥ १ ॥
एवं कियन्तचित्कालं वर्तयित्वा—
ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेदन्ततः
प्रवृत्तानि ततोऽपो वायुमाकाशमित्यभिनि-
श्रयेत् । तेषामुत्तर उत्तरस्संयोगः
फलतो विशिष्टः ॥ २ ॥
सर्वं गतम् ॥ २ ॥
निरूपिता आश्रमाः । अथेदानों पक्षप्रतिपक्षरूपेण तेषामेव प्राधा-
न्यमप्राधान्यं च निरूप्यते—
अथ पुराणे श्लोकावुदाहरन्ति—
अष्टाशीतिसहस्राणि ये प्रजामीषिर ऋषयः ।
दक्षिणेनाऽर्यम्णः पन्थानं ते श्मशानानि भेजिरे ॥ ३ ॥
अष्टाशीतिसहस्राणि ये गृहस्था ऋषयः प्रजामीषिरे प्रजातिमभ्यनन्दन् ते
अर्यम्णो यो दक्षिणेन पन्थाः दक्षिणायनमार्गः तं प्राप्य छान्दोग्योक्तेन
(१)धूमादिमार्गेण गत्वा पुनरपि सम्भूय श्मशानानि भेजिरे मरणं प्रतिपेदिरे ।
जायस्व म्रियस्वेत्याजीवं जीवभावमापेदिर इति गृहस्थानां निन्दा ॥३॥
अष्टाशीतिसहस्राणि ये प्रजां नेषिर ऋषयः । उत्तरे-
णाऽर्यम्णः पन्थानं तेऽमृतत्वं हि कल्पते ॥ ४॥
ये(२)तु प्रजातिं नाभ्यनन्दन् ते उत्तरायणमार्गेण (३) अर्चिरादिमार्गेण
गत्वा अमृतत्वं विभक्तिव्यत्ययः, अमृतत्वाय कल्पते वचनव्यत्ययः कल्पन्ते
समर्थास्सम्पद्यन्ते ॥ ४ ॥
इत्यूर्ध्वरेतसां प्रशंसा ॥ ५ ॥


१. छा. उ ५ १०. ३–६ २. प्रजा, इति च. पु ३ छा. उ. ५. १०. १,२