सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 295, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 295

२८४ आपस्तम्बधर्मसूत्रे [ (प्र. १०.) कं. २५.
सर्वेष्वेवाऽजस्रा अग्नयस्स्युः ॥ ६ ॥
वेश्मन्यावसथे सभायामित्येतेषु सर्वेष्वेव स्थानेषु लौकिका अग्न-
योऽजस्राः स्युः । अविच्छेदेन धार्याः ॥ ६ ॥
अग्निपूजा च नित्या यथा गृहमेधे ॥ ७ ॥
तेषु चाग्निषु नित्यमग्निपूजा कार्या । यथा गृहमेधे औपासने सायं प्रात-
र्होम इत्यर्थः । मन्त्रावपि तावेव, द्रव्यमपि तदेव ॥ ७ ॥
आवसथे श्रोत्रियावराध्यांनतिथीन् वासयेत् ॥ ८ ॥
आवसथाख्ये स्थाने अतिथीन् वासयेत् । ते विशेष्यन्ते श्रोत्रियावराध्याँ-
निति । अवरपर्यायोऽवराध्यशब्दः । यदि सर्वान्‍वासयितुं न शक्नोति
श्रोत्रियानपि तावद्वासयेदिति ॥ ८ ॥
तेषां यथागुणमावसथाः शय्याऽन्नपानं च विधेयम् ॥ ९ ॥
तेषामतिथीनां यथागुणं विद्यावृत्तानुगुणमावसथादि विदेय विशेषेण
देयम् । आवसथा अपवरकादयः । शय्या खट्वाद्यः । अन्नमोदनादि । पान(१)
तक्रादि ॥ ९ ॥
गुरून्मात्यांश्च नातिजीवेत् ॥ १० ॥
गुरवः पित्रादयः । अमात्या मन्त्रिणः । तान्नाऽतिजीवेत् भक्ष्यभोज्याच्छा-
दनादिषु तान्नाऽतिशयीत ॥ १० ॥
न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वाऽव-
सीदेदभावाद्वुद्धिपूर्वं वा कश्चित् ॥११॥
अस्य राज्ञो विषये राष्ट्रे क्षुधा आहाराभावेन बुभुक्षया रोगेण व्याधिना
हिमेन नीहारेण वर्षादीनामप्युपलक्षणमेतत् । आतपः आदित्यरश्मितापः ।
एतैः प्रकारैरभावात् बुद्धिपूर्वं वा न कश्चिद्ब्राह्मणोऽप्यवसीदेत् अवसन्नो
न स्यात् । राज्ञो ह्ययमपराधो यदाहाराद्यभावेन कश्चिदवसन्नः स्यात् ।
बुद्धिपूर्वं वेत्यत्रोदाहरणम् — यदा कश्चित् करमृणं वा दाप्यो भवति,
तदा नाऽसौ हिमातपयोरुपनिवेशयितव्यः भोजनाद्वा निरोद्धव्यः ।
तथा कुर्वाणं राजा दण्डयेदिति ॥ ११ ॥
१. तक्रसूपादि इति च. पु. तक्रादिसूपादि इति क. पु.