आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 290, कुल 399 में से
संदर्भ में पढ़ेंगार्हस्थ्यश्रैष्ठ्यम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७९
त्र्यवयवा विद्या त्रिविद्या त्रयो वेदाः । तां ये पाठतश्चार्थतश्च वि-
दन्ति ते त्रैविद्याः । तेषु पक्षज्ञानास्त्रेविद्यवृद्धाः । तेषां (१)वेदशास्त्रविदां
वेदा एव प्रमाणम् अतीन्द्रियेऽर्थे इति, निष्ठा निर्णयः । यथाह भगवान् जै-
मिनिः—(२) 'चोदनालक्षणोऽर्थो धर्मः, इति(३) प्रत्यक्षमनिमित्तमि'ति
च । ततश्च तत्र वेदे यानि कर्माणि श्रूयन्ते, किंलक्षणानि ? व्रीहियवादिभि-
स्सम्बद्धानि "उच्चैः ऋचा क्रियते, उपांशु यजुषे'त्येवंप्रकाराणि तैर्विरुद्ध
आचारः प्रमाणं न भवतीति मन्यन्ते । एतदुक्तं भवति—सर्वेषु वेदेषु
सर्वासु च शाखासु अग्निहोत्रादीनि(४) विश्वसृजामयनपर्यन्तानि कर्मा-
ण्येव तात्पर्यतया विधीयन्ते । अतो गार्हस्थ्यमेव श्रेष्ठम् । ऊर्ध्वरेतसां
त्वाश्रमास्तद्विरुद्धा नैवाऽऽश्रयणीयाः यदि वेदाः प्रमाणमिति । तथा च
गौतमः—'ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानात् गार्हस्थ्यस्ये'ति ।
एवं गार्हस्थ्यं प्रशस्यते ॥ ९ ॥
श्मशानानि भेजिर इति निन्दां परिहरति—
यत्तु श्मशानमुच्यते नानाकर्मणामेषोऽन्ते पुरु-
षसंस्कारो विधीयते ॥ १० ॥
यत्तु गृहस्थानां श्मशान श्रूयते स एष नानाकर्मणामग्निहोत्रादीना-
मन्ते पितृमेधाख्यः पुरुषसंस्कारो विधीयते । न तु पिशाचा भूत्वा
श्मशानमेव सेवन्त इति ॥ १० ॥
कुत इत्याह—
ततः परमनन्त्यं फलं स्वर्ग्यशब्दं श्रूयते ॥१२॥
ततः परं श्मशानकर्मणोऽनन्तरम्, अनन्त्यमपरिमितं स्वर्गशब्दवा-
च्यं फलं श्रूयते—'स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकमेती'ति ।
अनन्त्य स्वर्ग्यमिति(५) यकारश्छान्दसः उपजनः अपपाठो वा ॥१२॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने त्रयोविंशी कण्डिका ॥२३॥
१. वेदशास्त्रार्थविदा इति छ. पु. २ जै. सू १. १. २. ३. जै सू १. १. ४.
४. सहस्रवत्सरसाध्य सत्र विश्वसृजामयनम् । अत्र संवत्सरशब्दो दिनपर इति
मीमांसकाः । पू. मी. ६. ७. ३१
५. यकारोपजनच्छान्दसः इति भवितुं युक्तम् ।