सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 297, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 297

२८६ आपस्तम्बधर्मसूत्रे [(प.१०.)क.२६.
भृत्यानामनुपरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो
यथार्हमनन्ताँल्लोकानभिजयति ॥ १ ॥
भृत्यानामनुपरोधेन भृत्यवर्गस्य यथोपरोधो न भवति तथा ब्राह्मणेभ्यो
यथार्हं विद्यावृत्ताद्यनुरूपं क्षेत्रं वित्तं च दद्यात् । एवं दददनन्ताँल्लोकानभिजयति ॥१॥
ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरा-
त्मयूपो यज्ञोऽनन्तदक्षिण इति ॥ २ ॥
ब्राह्मणस्वानि चोरादिभिरपहृतानि अपजिगीषमाणः ब्राह्मणेभ्यो दानाया-
पजित्य ग्रहीतुमिच्छन् यो राजा युद्धे चोरैर्हन्यते तमात्मयूपोऽनन्तदक्षिणो यज्ञ
इत्याहुर्धर्मज्ञाः । सङ्ग्रामो यज्ञः । तस्य आत्मा यूपस्थानीयः । आत्मेति
शरीरमाह । अन्तरात्मा तु पशुस्थानीयः । प्रत्यानिनीषितं तु द्रव्यं
दक्षिणा । सूत्रे तु 'तं यज्ञ इत्याहु'रिति गौणो वादः ॥ २ ॥
एतेनाऽन्ये शूरा व्याख्याताः प्रयोजने युध्य-
मानास्तनुत्यजः ॥ ३ ॥
प्रयोजनं चोरादिभिरपहृतानां ब्राह्मणस्वानां प्रत्यानयनादि, तदर्थं
युध्यमाना ये शूरास्तनुत्यजो भवन्ति तेऽप्येतेन राज्ञा व्याख्याता आत्मयूपा
यज्ञा अनन्तदक्षिणा इति ॥ ३ ॥
ग्रामेषु नगरेषु चाऽऽर्याञ्छुचीन् सत्यशीलान
प्रजागुप्तये निदध्यात् ॥ ४ ॥
आर्याञ्छुचीन् सत्यशीलानिति व्याख्यातम् । एवंभूतान् पुरुषान् ग्रामेषु
नगरेषु च प्रजानां रक्षणार्थं निदध्यात् नियुञ्जीत ॥ ४ ॥
तेषां पुरुषास्तथागुणा एव स्युः ॥ ५ ॥
तेषां नियुक्तानां ये पुरुषा नियोज्याः तेऽपि तथागुणा आर्यादिगुणा एव
स्युः ॥ ५ ॥
सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ॥ ६ ॥
सर्वतः सर्वासु दिक्षु योजनमात्रं नगरं तस्करेभ्यो रक्षणीयम् । रक्ष्यन्नि-
त्यपपाठः ॥ ६ ॥
क्रोशो ग्रामेभ्यः ॥ ७ ॥