आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 301, कुल 399 में से
संदर्भ में पढ़ें२९० आपस्तम्बधर्मसूत्रे [ (प.१०)क.२७.
ज्ञाः । तस्मात् सगोत्रायैव समाचक्षीतेति(१) ॥ ३ ॥
तमिमं नियोगं दूषयति--
तदिन्द्रियदौर्बल्याद्विप्रतिपन्नम् ॥ ४ ॥
यद्यप्येवं पूर्वे कृतवन्तः, तथाऽपि तदद्यत्वे विप्रतिपन्नं विप्रतिषिद्धम् ।
कुतः ? इन्द्रियदौर्बल्यात् । दुर्बलेन्द्रिया ह्यद्यत्वे मनुष्याः । ततश्च शास्त्रव्या-
जेनापि भर्तृव्यतिक्रमेऽतिप्रसङ्गस्स्यादिति ॥ ४ ॥
सगोत्रविषयेऽपि यो विशेषस्सोऽपि नास्तीत्याह--
अविशिष्टं हि परत्वं पाणेः ॥ ५ ॥
येन पाणिना पूर्वमग्निसाक्षिकं पाणिर्गृहीतः कन्यायाः, तस्मात् पा-
णेरन्यो भवति सगोत्रस्याऽपि पाणिः । यस्मादेवं पाणेः परत्वमविशिष्टं स-
मानम् ? तस्मादविशेष इति । अविशिष्टमित्यपपाठः ॥ ५ ॥
पाणिरन्यो भवतु, को दोषः ?
तद्व्यतिक्रमे खलु पुनरुभयोर्नरर्कः ॥ ६ ॥
तस्य पाणेर्व्यतिक्रमे उभयोर्दम्पत्योः नरको भवति । खलुपुनरिति प्र-
सिद्धियोतकौ निपातौ । अतः पत्याऽपि न स पाणिस्त्याज्यः यः
पूर्वं गृहीतः । भार्ययाऽपि न स पाणिस्त्याज्यो येन पूर्वमात्मानः पा-
णिर्गृहीतः ॥ ६ ॥
नियमारम्भणो हि वर्षीयानभ्युदय एवमा-
रम्भणादपत्यात् ॥ ७ ॥
आरभ्यतऽनेनेत्यारम्भणः योऽयं दम्पत्योः परस्परनियमः, स आ-
रम्भणो यस्य स नियमारम्भणः । एवंभूतो योऽभ्युदयस्स एवं वर्षीयान् ।
वृद्धतरः । कस्मात् वर्षीयान् ? एवमुक्तप्रकारेण नियोगलक्षणेन यदपत्य-
मारभ्यते तस्मादेवमारम्भणादपत्याद्वर्षीयानिति । अपत्यादिति पाठः ।
आपत्यादिति प्रायेण पठन्ति ॥ ७ ॥
नाश्य आर्यश्शूद्रायाम् ॥ ८ ॥
आर्यस्त्रैवर्णिकः, शूद्रायां परभार्यायां प्रसक्तो राज्ञा राष्ट्रात्नाश्यः
निर्वास्यः ॥ ८ ॥
१. “कुलाय कन्या क्वचिद्देशेषु दीयते । गोत्रजे न केनचिदप्यनुभूयते । उक्तं च
बृहस्पतिना—अभर्तृका भ्रातृभार्या ग्रहणं चातिदूषितम् । कुले कन्या प्रदानं च दशष्व-
न्येषु दृश्यते इति” इत्यधिकः पाठ. घ. पु.