आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 303, कुल 399 में से
संदर्भ में पढ़ें२९२ आपस्तम्बधर्मसूत्रे [(प.१०)क.२७.
चतुर्थे सर्वम् ॥ १३ ॥
अतः -चतुर्थे सन्निपाने सर्वमेव पतति । तनश्च पूर्णद्वादशवार्षिकं कर्तव्य-
म् । तृतीये नव वर्षाणि । द्वितीये षड्वर्षाणि । एतच्च प्रतियोगं स्त्रीभेदेन
प्रथमदूषकस्य । एकस्यामेव त्वभ्यासे कल्प्यम् । तत्र-
(१)'यत् पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्,
इति स्मरणात् स्त्रिया अपि प्रतियोगं पादः पादः पतति । तदनुरो-
धेन कल्प्यम् ॥ १३ ॥
जिह्वाच्छेदनं शूद्रस्याऽऽर्ये धार्मिकमाक्रोशतः ॥ १४ ॥
शूद्रो द्विजातीनामन्यतमं धार्मिके(२)स्वकर्मस्थं यद्याक्रोशति
निन्दति गर्हते, तदा तस्य जिह्वा छेत्तव्येति । मनुस्तु सामान्येनाह-
(३)'येनाङ्गेनावरो वर्णो ब्राह्मणस्याऽपराध्नुयात् ।
तदङ्गं तस्य छेत्तव्यं तन्मनोरनुशासनम् इति ॥
गौतमस्तु--(४)'शूद्रो द्विजातीनातिसन्धायाऽभिहत्य च वाग्दण्डपारु-
ष्याभ्यामङ्गं मोच्यो येनोपहन्द्या'दिति ॥ १४॥
वाचि पथि शय्यायामासन इति समीभवतो
दण्डताडनम् ॥ १५ ॥
यस्तु शूद्रो वागादिष्वार्यैस्समीभवति, न तु न्यग्भूतः, तस्य दण्डेन
ताडनं कर्तव्यम् । स दण्डेन ताडयितव्यः । अयमस्य दण्डः ॥ १५ ॥
पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः ॥१६॥
भूम्यादानं परक्षेत्रस्य बलात्स्वीकारः, पुरुषवधादिषु निमित्तेषु
शूद्रस्सर्वस्वहरणं कृत्वा पश्चाद्वध्यः मारयितव्यः ॥ १६ ॥
चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य ॥ १७ ॥
ब्राह्मणस्य त्वेतेषु निमित्तेषु चक्षुषो निरोधः कर्तव्यः । पट्टबन्धादिना
चक्षुषी निरोद्धव्ये, यथा यावज्जीवं न पश्यति । न तूत्पाटयेतव्ये
(५)'न शारीरो ब्राह्मणदण्डः । अक्षतो ब्राह्मणो व्रजे'दिति स्मरणात् ।
'चक्षुनिरोध' इति रेफलोपश्छान्दसः ॥ १७ ॥
नियमतिक्रामिणमन्यं वा रहसि बन्धयेत् ॥ १८ ॥
१. म. स्मृ. ११. १७७. २. स्वधर्मस्थ. इति च. पु ३. म. स्मृ. ८. २७९.
४. गौ. १२. १. ५. गौ. ध. १२. ४६.