आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 299, कुल 399 में से
संदर्भ में पढ़ें२८८ आपस्तम्बधर्मसूत्रे [(प. १०,) क. २६.
शूद्रश्च पादावनेक्ता ॥ १५ ॥
यस्त्रैवर्णिकानां पादावनेक्ता स शूद्रोऽप्यकरः ॥ १५ ॥
अन्धमूकबधिररोगाविष्टाश्च ॥ १६ ॥
एतेऽप्यकराः यावदान्ध्यादि ॥ १६ ॥
ये व्यर्था द्रव्यपरिग्रहैः ॥ १७ ॥
ये च परिव्राजकादयः द्रव्यपरिग्रहैर्व्यर्था निष्प्रयोजनाः शास्त्रतो येषां
द्रव्यपरिग्रहः प्रतिषिद्धः तेऽप्यकराः ।
तथा च वसिष्ठः—
(१)“अकरः श्रोत्रियो राजा पुमाननाथः प्रव्रजितो बालवृद्धतरुणप्र-
शान्ता” इति ॥ १७ ॥
अबुद्धिपूर्वमलङ्कृतो युवा परदारमनुप्रविशन्
कुमारीं वा वाचा बाध्यः ॥ १८ ॥
यत्र परदारा आसते कुमारी वा पतिंवरा, तत्र युवा अलङ्कृतः अ-
बुद्धिपूर्वमज्ञानादनुप्रविशन् वाचा बाध्यः-अत्रेयमास्ते, माऽत्र प्रविशेति ॥ १८ ॥
बुद्धिपूर्वे तु दुष्टभावो दण्ड्यः ॥ १९ ॥
यस्तु जानन्नेव दुष्टभावः प्रलोभनार्थी प्रविशति स दण्ड्यो द्रव्यानु-
रूपमपराधानुरूपं च । दुष्टभावग्रहणामाचार्यादिप्रोषितस्य प्रवेशे दण्डो
मा भूदिति ॥ १९ ॥
सन्निपाते वृत्ते शिश्नच्छेदनं सवृषणस्य ॥ २० ॥
सन्निपातो मैथुनं, तस्मिन् वृत्ते शिश्नच्छेदन दण्डः । सवृषणस्येत्युपसर्ज-
नस्यापि शिश्नस्य विशेषणम् । सवृषणस्य शिश्नस्य च्छेदनमिति ॥ २०॥
कुमार्यां तु स्वान्यादाय नाश्यः ॥ २१ ॥
कुमार्यां तु सन्निपाते वृत्ते सर्वस्वहरणं कृत्वा देशान्निर्वास्यः, न
शिश्नच्छेदः ॥ २१ ॥
अथ भृत्यै राज्ञा ॥ २२ ॥
अथ सन्निपातात्प्रभृति ते परदारकुमार्यौ राज्ञा भृत्यै ग्रासाच्छा-
दनप्रदानेन भर्तव्ये ॥ २२ ॥
१. व. ध. १९. २३.