सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

व्रात्यसंस्कारः] उज्ज्वलोपेते प्रथमः प्रश्नः । ९
यस्य यः सावित्र्याः काल उक्तः तदतिक्रमे त्रैविद्यकं त्र्यवयवा वि-
द्या तामधीयते ये ते त्रैविद्याः, तेषामिदं त्रैविद्यकम् । (१)'गोत्रचरणाद्वुञ्' ।
'चरणाद्धर्माम्नाययोरि'ति वुञ् । एवम्भूतं ब्रह्मचर्यं, अग्निपरिचर्यामध्य-
यनं गुरुशुश्रूषामिति परिहाप्य, सकल ब्रह्मचारिधर्मं चरेत् । कियन्तं
कालम् ? ऋतुं, 'कालाध्वनो'रिति द्वितीया । ऋतुमिति वचनादृत्वारम्भे
प्रायश्चित्तारम्भमिच्छन्ति ॥ २८ ॥
अथोपनयनम् ॥ २९ ॥
एवं चरितव्रत उपनेतव्यः ॥ २९ ॥
ततस्संवत्सरमुदकोपस्पर्शनम् ॥ ३० ॥
ततः उपनयनादारभ्य सम्वत्सरमुदकोपस्पर्शनं स्नानं कर्तव्यम् । शक्तस्य
त्रिषवण स्नानम्(२) अशक्तस्य यथाशक्ति ॥ ३० ॥
अथाऽध्याप्यः॥ ३१ ॥
एवं चरितव्रतः पश्चादध्याप्य ॥ ३१ ॥
अथ यस्य पिता पितामह इत्यनुपेतौ
स्यातां ते ब्रह्महसंस्तुताः ॥ ३२ ॥
यस्य माणवकस्य पिता पितामहश्चानुपेतौ स्यातां स्वयं च, ते तथाविधास्स
माणवका ब्रह्महसंस्तुताः अब्राह्मण इत्येवं कीर्तिताः ब्रह्मवादिभिः । अतस्मि-
न् तच्छब्दयोगस्तद्धर्मप्राप्त्यर्थः । एवं च (३)'श्मशानवच्छूद्रपतिता'त्वि-
त्यध्ययननिषेधप्रकरणे वक्ष्यते । ततश्च ब्रह्म यथा ब्रह्महसमीपे नाध्ये
यमेवमेषामपीति ॥ ३२ ॥
तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत् ॥ ३३ ॥
तेषामेतेषामभ्यागमनमाभिमुख्येन गमनम्, मातापितृपुत्रदारशरीरर-
क्षणार्थमपि वर्जयेत् । यद्यपि भिक्षा सर्वतः प्रतिग्राह्येति वक्ष्यते भोजनमु
द्यतमपि वर्जयेत् (४)'अपि दुष्कृतकारिण' इति सत्यपि वचने । विवाहं
च वर्जयेत् यद्यपि (५)'स्त्रीरत्नं दुष्कुलादपी'ति मानवस्मरणम् ॥ ३३ ॥
तेषामिच्छतां प्रायश्चित्तम् ॥ ३४ ॥
१ पा० सू० ४३. १२६ २. अन्यस्य' क. ख. पु ३. आप० ध० १ ९. ९.
४. आप० ध० १ १९.१३. ५ मनु० स्मृ० २. २३८.
आप० ध० २

१० आपस्तम्बधर्मसूत्रे [(प्र. १.) क. २.
इच्छतामिति वचनान्न बलात्कारेण प्रायश्चित्तं कारयितव्यम् ॥ ३४ ॥
यथा प्रथमेऽतिक्रम ऋतुरेवं सम्वत्सरः ॥ ३५ ॥
यथा प्रथमेऽतिक्रमे ब्रह्मचर्यस्य ऋतु काल. एवमन्यस्मिन्नतिक्रमे संवत्सर-
कालः ॥ ३५ ॥
अथोपनयनम् ॥ ३६ ॥ तत उदकोपस्पर्शनम् ॥ ३७ ॥
गते ॥ ३६ ॥ ३७ ॥
इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने प्रथमा (१) काण्डका ।
प्रतिपूरुषं संख्याय संवत्सरान् यावन्तोऽनुपेताः स्युः ॥ १॥
यदि पितावानुपेतः ततस्संवत्सरमेकम् । अथ पितामहोऽपि, ततो
द्वौ । अथ स्वयमपि यथाकालमनुपेतः, ततः संवत्सरानिति ॥ १ ॥
अथोदकोपस्पर्शन मन्त्राः-
सप्तभिः पावमानीभि"र्यदन्ति यच्च दूरक" इत्येताभि
र्यजुष्पवित्रेण सामपवित्रेणाऽऽङ्गिरसेनेति ॥ २ ॥
पवमानः सोमो देवता यासां ताः (२) पावमान्यः । यजुष्पवित्रेण (३) 'आपो
अस्मान्मातरः शुन्धन्तु' त्यनेन, सामपवित्रेण 'कया नश्चित्र आभु
१. खण्डिका इति क. पुस्तके । खण्डः इति ख. पुस्तके । एवमेव प्रतिखण्डसमाप्ति ॥
२. यदन्ति यच्च दूरके भय विन्दति मामिह । पवमान वितज्जहि ॥ १ ॥
पवमानस्सोऽअद्य नः पवित्रेण विचर्षणि. । यः पोता स पुनातु नः ॥ २ ॥
यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनीहि नः ॥ ३ ॥
यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः । ब्रह्म सवै. पुनीहि नः ॥ ४ ॥
उभाभ्यां देव सवितः पवित्रेण सवेन च । मा पुनीहि विश्वतः ॥ ५ ॥
त्रिभिष्ट्व देव सवितर्वर्षिष्ठैः सोम धामभिः । अग्ने दक्षैः पुनीहि नः ॥ ६ ॥
पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । विश्वे देवाः पुनीतन मा जात-
वेदः पुनीहि मा ॥७॥ (ऋ० सं० ७. २. १७, १८) इति सप्त पावमान्यः ॥
३. आपो अस्मान् मातरश्शुन्धन्तु घृतेन नो घृतपुव. पुनन्तु विश्वमस्मत्प्रवहन्तु
रिप्रम्" (तै.सं १ २.१.) इति यजु पवित्रम् । 'कया नश्चित्र आ भुवदूती सदावृधस्सखा ।
कया शचिष्ठया वृता' इत्यस्यामृचि गीयमान वामदेव्याख्यं साम सामपवित्रम् ॥

व्रात्यसंस्कारः] उज्ज्वलोपेते प्रथमः प्रश्नः । ११
वदि' त्यादिगीतेन वामदेव्येन साम्ना, आङ्गिरसेन(१) 'हंसःशुचिषदि'त्यनेन
एतैरञ्जलिना शिरस्यपोऽवसिञ्चेत् ॥ २ ॥
अपि वा व्याहृतिभिरेव ॥ ३ ॥
पूर्वैः सह व्याहृतीनां विकल्पः ॥ ३ ॥
अथाऽध्याप्यः ॥ ४ ॥
गतम् ॥
तत्र 'यस्य पिता पितामह' इत्युपक्रमे 'यस्ये'त्येकवचनमन्ते ऽ 'प्यध्या-
प्य' इति । मध्ये तु 'ब्रह्महसस्तुताः' 'तेषामभ्यागमनं' 'तेषामिच्छता'-
मिति बहुवचनम् । तत्रोपक्रमोपसंहारानुसारेण माणवकस्यैव प्राय-
श्चित्तमुपनयनमध्यापन च । बहुवचन तु तथाविधमाणवकबहुत्वापे
क्षमित्यवोचाम ॥ ४ ॥
अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं ते श्म-
शानसंस्तुताः ॥ ५ ॥
प्रपितामहादि प्रपितामहादारभ्य प्रपितामहः पितामहः पिता स्वयं
च यथाकालमिति । ते तथाविधा माणवकाः श्मशानसंस्तुताः । एतेन
(२)'श्मशाने सर्वतः शम्याप्रासा' दित्यध्ययननिषेध एषामपि सन्निधौ
भवति ॥ ५ ॥
तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्तेषामि-
च्छतां प्रायश्चित्तं द्वादश वर्षाणि त्रैविद्यकं ब्रह्मचर्यं
चरेदथोपनयनं(३)तत उदकोपस्पर्शनं पावमान्या-
दिभिः ॥ ६ ॥
गतम् । पावमान्यादिभिरित्यनेनैव प्रतिपूरुषं सङ्ख्याय सम्बत्सरा-
नित्येतदपि द्रष्टव्यम् ॥ ६ ॥
अथ गृहमेधोपदेशनम् ॥ ७ ॥
गृहमेधो गृह्यशास्त्रं गृहस्थधर्मो वा ॥ ७ ॥
१. हंसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमस
दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्” ( तै सं. ४ २ १ ४. ) इत्याङ्गिरस ॥
२ आप. ध १ ९. ६. ३. ततस्संवत्सरमुदकोपस्पर्शनम् . इति ग . पु . ।

१२ आपस्तम्बधर्मसूत्रे [ (प्र. १.) कं. २.
नाध्यापनम् ॥ ८ ॥
नाध्यापनं कृत्स्नस्य वेदस्य । किं तु गुह्यमन्त्राणामेवेति ॥ ८ ॥
ततो यो निवर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे ॥९॥
ततः एवं कृतप्रायश्चित्तात् गृहस्थीभूताद्यो निवर्तते उत्पद्यते तस्योपन-
यनसंस्कारः कर्तव्यः । कथम् ? यथा प्रथमेऽतिक्रमे ऋतुं त्रैविद्यकं ब्रह्मचर्यं
चारयित्वेत्यर्थः ॥ ९ ॥
तत ऊर्ध्वं प्रकृतिवत् ॥ १० ॥
ततः यो निवर्तते तस्य प्रकृतिवत् यथा प्राप्तमुपनयनं कर्तव्यमिति ।
यस्य तु प्रपितामहस्य पितुरारभ्य नानुस्मर्यत उपनयनं तत्र प्रायश्चित्तं
नोक्तम्, धर्मज्ञैरुहितव्यम् ॥ १० ॥
एवं ततः पूर्वेष्वपि निरूपितमुपनयनम् , अथाऽध्ययनविधिः-
उपेतस्याऽऽचार्यकुले ब्रह्मचारिवासः ॥ ११ ॥
एवं यथाविध्युपेतस्य ब्रह्मचारिणस्तत आचार्यकुले वासो भवति । ब्रह्म
वेदस्तदर्थं व्रतं चरतीति ब्रह्मचारी । अध्ययनाङ्गानि व्रतानि चरता
आचार्यकुले वस्तव्यमित्युक्तं भवति ॥ ११ ॥
तत्र कालः-
(१)अष्टाचत्वारिंशद्वर्षाणि ॥ १२ ॥
चतुर्णां वेदानामध्ययनकाल एषः । प्रतिवेदं द्वादश ॥ १२ ॥
पादूनम् ॥ १३ ॥
स एव कालः पादून वा प्रत्येतव्यः । पादेनोने पादूनम् । पररूपं
(२)कतन्तवत् । षट्त्रिंशद्वर्षाणि । प्रतिवेदं नव ॥ १३ ॥
अर्धेन ॥ १४ ॥
ऊनमिति (३) समस्तमप्यपेक्षते । चतुर्विंशतिवर्षाणि । प्रतिवेदं षट् ॥१४॥
१. गोपथब्राह्मणेऽथर्ववेदीये द्वितीयप्रपाठके पञ्चमब्राह्मणेऽस्य विधिर्हश्यते--'तस्मा
एतत् प्रोवाचाष्टाचत्वारिंशद्वर्षं तच्चतुर्धा वेदेषु व्यूह्य द्वादशवर्षं ब्रह्मचर्यं, द्वादशवर्षाण्यवरार्ध-
मपि स्तायंश्रेयस्या शक्त्यपरम्' ( गोप. ब्रा. पू. २. ५. ) इति ॥
२. 'शकन्ध्वादित्वात्' इति घ. पु. ।
३. उपसमस्तमिति ख० पु० प्राप्तसमासमपीत्यर्थः । सर्वत्राप्यपेक्षते इति. घ. पु.

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३
त्रिभिर्वा ॥ १५ ॥
पादैरूनमिति प्रकरणाद्गम्यते । द्वादशवर्षाणि । प्रतिवेदं त्रीणि ॥१५॥
द्वादशावराध्यंम् ॥ १६ ॥
अवराध्यंशब्दोऽवरमात्रेत्येतस्मिन्नर्थे वर्तते । द्वादशवर्षाणि अवर-
मात्रा यथा भवति तथा ब्रह्मचारिणा गुरुकुले वस्तव्यम् । पूर्वेणैव सिद्धे
यो ब्रह्मचार्यतिमेधावितया चतुरोऽपि वेदानितोऽल्पीयसा कालेन गृह्णा-
ति तेनाप्येतावन्तं कालं गुरुकुले वस्तव्यम् । (१)'विद्यया स्नासी'त्यत-
स्मिन्नपि पक्षे नातित्वरितेन स्नातव्यमित्येवमर्थमिदमारभ्यते । एतेन
एकस्य वेदस्य त्रीणि वर्षाणि ब्रह्मचर्यमवश्य (२) भावीत्यर्थात्सिद्धम् ।
मनुरप्याह—
(३)षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैविद्यकं व्रतम् ।
तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ इति ॥
त्रयाणां वेदानां षट् त्रिंशत् ; एकैकस्य द्वादश । तदर्धिकं त्रयाणामष्टा-
दश; एकैकस्य षट् । पादिकं वा त्रयाणां नव, एकैकस्य त्रीणि । ग्रहणा-
न्तिकमेव वेति एकैकस्य त्रिभ्य ऊर्ध्वमनियमः, न प्रागित्यर्थो द्रष्टव्यः॥१६॥
न ब्रह्मचारिणो विद्यार्थस्य परोपवासोऽस्ति ॥ १७ ॥
ब्रह्मचारिविद्यार्थशब्दयोरर्थ उक्तः । यो ब्रह्मचारी विद्यार्थो भवति
न तेन दिवसमात्रमपि परस्य समीपे वस्तव्यम् । आचार्यस्य समीप
एव वस्तव्यमित्युक्तं भवति । विद्यार्थस्येति वचनात् नैष्ठिकस्य कदाचिद-
न्यत्र (४)वासेऽपि न दोषः । यद्वा भोजननिवृत्तिरेवोपवासः । परलो-
कार्थ उपवासः परोपवासः स विद्यार्थस्य न भवति । नैष्ठिकस्य तु(५) दोषः ।
अत्र पक्षे(६)'आहिताग्निरनड्वा'निति विद्यार्थब्रह्मचारिविषयम् ॥१७॥
अथ ब्रह्मचर्यविधिः ॥ १८ ॥
ब्रह्म वेदस्तदर्थं यद्व्रतं चरितव्यं तद्ब्रह्मचर्यं तदधिक्रियते ॥ १८ ॥
आचार्याधीनस्स्यादन्यत्र पतनीयेभ्यः ॥ १९ ॥
“आचार्याधीनो भवे”त्युपनयनान्ते यत् संशासनं तत्सिद्धैवाचार्या-
१. आप० ध १.३०.१. २. भावीत्ययमर्थस्सिद्धः । इति ख० पु०
३. मनु० स्मृ० ३. १ ४. वासो न दोषः इति क० पु०
५. न दोषः इति ख० पु० ६ आप० ध. २. ९ १३

१४ आपस्तम्बधर्मसूत्रे [(प. १.) कं. २.
धीनताऽनुद्यते 'अन्यत्र पतनीयेभ्य' इति विशेषं वक्ष्यामीति। (१)पतनीय
इति करणे कृत्यप्रत्ययः। (२)अमुमरातिं ब्राह्मणमित्थं व्यापादयेत्याचार्येण
चोदितोऽप्येवमादि न कुर्यादिति ॥ १९ ॥
हितकारी गुरोरप्रतिलोमश्चाचा ॥ २० ॥
आचार्येण प्रयुक्तोऽप्यप्रयुक्तोऽपि तस्मै हितमेव कुर्यात्, वा-
चा (३)प्रातिलोम्यमकुर्वन् ॥ २० ॥
अधासनशायी ॥ २१ ॥
शयनं शायः। (४)'कृत्यल्युटो बहुल'मिति बहुलवचनात् घञ्।
अधः आसनशायो यस्य सः अधासनशायी। गुरुसन्निधावध आसीत अ
धश्शयीतेत्युक्त भवति। अधश्शब्दस्य सवर्णदीर्घश्छान्दसः, अपपाठो
वा। तृणेषु प्रस्तरेषु चासनशयने शिष्टाचारसिद्धे ॥ २१ ॥
नानुद्देश्यं भुञ्जीत ॥ २२ ॥
अनुद्देश्यं श्राद्धार्थं देवतार्थं वा उद्दिष्टं न भुञ्जीत ॥ २२ ॥
तथा क्षारलवणमधुमांसानि ॥ २३ ॥
न भुञ्जीतेत्येव। (५)क्षारादीनि गृह्ये गतानि ॥ २३ ॥
अदिवास्वापी ॥ २४ ॥
न दिवा स्वप्यात् ॥ २४ ॥
अगन्धसेवी ॥ २५ ॥
चन्दनादीनि गन्धद्रव्याणि न सेवेत ॥ २५ ॥
मैथुनं न चरेत् ॥ २६ ॥
उपचारक्रिया केली स्पर्शो (६)भूषणवाससाम्।
एकशय्यासनं क्रीडा चुम्बनालिङ्गने तथा ॥
इत्यादेस्सर्वस्योपलक्षणं मैथुनग्रहणम् ॥ २६ ॥
१. करणे प्रत्ययः इति क० पु० २. अस्मदरातिं इति ख० पु०
३. प्रातिकूल्य इति ख० पु० ४ पा० सू० ३. ३. ११३
५. क्षारपदार्थः आप. ध. २ १५. ११ सूत्रे व्याख्यास्यते।
६ भूषणवाससी. इति. क. पु.

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १५
उत्सन्नश्लाघः ॥ २७ ॥
श्लाघा शोभा सा उत्सन्ना यस्य स उत्सन्नश्लाघः ॥ एवंभूतो भवेत् ।
(१) म्रक्षणादिना मुखादिक उज्ज्वल न कुर्यात् इति ॥ २७ ॥
अङ्गानि न प्रक्षालयीत ॥ २८ ॥
(२)विना शिरसा सुखार्थमुष्णोदकादिना शरीरं न प्रक्षालयेत् ॥२८॥
प्रक्षालयीत त्वशुचिलिप्तानि(३) गुरोरसन्दशॆ ॥२९॥
यानि तु मूत्रपुरीषाद्यशुचिलिप्तान्यङ्गानि तानि कामं(४) मृद्वा-
द्भिः प्रक्षालयेत् यावद्गन्धो लेपश्चापैति । तदपि गुरोरसन्दशे(५) यत्र
स्थितं गुरुर्न पश्यति तत्र । आचार्यप्रकरणे गुरुग्रहणात् पित्रादी-
नामपि ग्रहणम् ॥ २९ ॥
(६) नाप्सु श्लाघमानः स्नायाद्यदि
स्नायाद्दण्डवत्प्लवेत् ॥ ३० ॥
स्नाने प्राप्ते न श्लाघमानः स्नायात् । किं तु दण्डवत्प्लवेदित्युक्तम् ।
स्नानीयैर्मलापकर्षणं श्लाघा; क्रीडा वा जले । अपर आह—'अङ्गानि न
प्रक्षालयीते'(सू.२८)त्यासमावर्तनान्नित्यस्नानस्य प्रतिषेधः । 'प्रक्षालयीत
त्वशुचिलिप्तानी'(सू.२९)ति नैमित्तिकस्य विधिः । 'नाप्सु श्लाघमानः
स्नाया'(सू ३०)दिति तत्रैव श्लाघाप्रतिषेध इति ॥ ३० ॥
जटिलः ॥ ३१ ॥
सर्वानैव केशान् जटां कृत्वा बिभृयात् ॥ ३१ ॥
शिखाजटो वा वापयेदितरान् ॥ ३२ ॥
अथवा शिखामेव जटां कृत्वा इतरान्केशान् वापयेत नापितेन ॥ ३२ ॥
१. मृत्कल्कादिना इति क०पु०
२. स्नानसमये आमलकादिभिर्न क्षालयेत । इति क० पु०
३ गुरोरसन्दर्शने इति क० पु० ४. मृद्वारिभि. इति ख० पु०
५ यत्र गुरुर्न पश्यति तत्र । इति ख० पु० 'यत्र लिप्तं गुरुः' इति ग, पु०
६ नाप्सु श्लाघमानस्स्नायादित्येतावदेव ख० पु० सूत्रम् । "अथाङ्गिरश्श्लाघमानो
न स्नायात् तेन ता श्लाघामवरुन्धे" ( गो. ब्रा. पू. १ २. ) इति गोपथब्राह्मणम् ॥

आपस्तम्बधर्मसूत्रे [(प.१)कं२.
मौञ्जी मेखला त्रिवृद्ब्राह्मणस्य शक्तिविषये
दक्षिणावृत्तानाम् ॥ ३३ ॥
मुञ्जानां विकारो मौञ्जी । त्रिवृत् त्रिगुणा । एवम्भूता ब्राह्मणस्य मेखला भ-
। सा च शक्तिविषये शक्तौ सत्यां दक्षिणावृत्तानां प्रदक्षिणावृत्तानां कर्त-
। तद्धितार्थे गुणभूतानामपि मुञ्जानामेवैतद्विशेषणम् ॥ ३३ ॥
ज्या राजन्यस्य ॥ ३४ ॥
स्पष्टम् ॥ ३४ ॥
मौञ्जी वाऽयोमिश्रा ॥ ३५ ॥
अथवा अयोमिश्रा क्वचित्तु कालायसेन बद्धा मौञ्जी मेखला भवति राज-
न्यस्य ॥ ३५ ॥
आवीसूत्रं वैश्यस्य ॥ ३६ ॥
अविरूर्णांयुः कम्बलप्रकृतिः तत्सम्बन्धिनी ऊर्णा आवी तत्कृतं सूत्रं
वीसूत्रम् । सा मेखला वैश्यस्य भवति ॥ ६६ ॥
सैरी तामली वेत्येके ॥ ३७ ॥
सैरी सीरा बाह्योक्तवद्रज्जुः । (१)तामलो मूलोक्तसंज्ञको वृक्षः तस्य
चा प्रथिता तामली ॥ ३७ ॥
पालाशो दण्डो ब्राह्मणस्य नैयग्रोधस्कन्धजोऽवा(२)
ङ्मुखो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य
वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उप-
दिशन्ति ॥ ३८ ॥
पालाशो दण्ड इत्यादि गृह्ये(३)गतम् ॥ ३८ ॥
वासः ॥ ३९ ॥
वस्यते कौपीनमाच्छाद्यते येन तद्वासः । तल्लक्ष्यते ॥ ३९ ॥
शाणीक्षौमाजिनानि ॥ ४० ॥
१. तमालादण् तमालसंज्ञो वृक्षः तस्य• इति घ पु.
२. अवाङ्मुखः' इति क. पु ३. आप० गृ. ११ १५

ब्रह्मचारिधर्माः] उज्ज्वलोपेते प्रथमः प्रश्नः। १७
शणस्य विकारः शाणी पटी। क्षुमा अतसी तस्या विकारः क्षौमम्।
श्वेतपट्टाख्यवासोविशेष इत्यन्ये। अजिन यस्य कस्यचिन्मेध्यस्य पशोः।
त्रीण्येतानि वर्णानुपूर्व्येण वासांसि ॥ ४० ॥
काषायं चैके वस्त्रमुपदिशन्ति ॥ ४१ ॥
एके आचार्या वस्त्रं त्वधोधार्यमुपदिशन्ति । वस्त्रं कार्पासम् । तच्च काषायं
कषायेण रक्तम् । ब्राह्मणस्येत्यर्थाद्गम्यते । इतरयोर्वक्ष्यमाणत्वात् ॥४१॥
इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने द्वितीया कण्डिका ॥ २ ॥
माञ्जिष्ठं राजन्यस्य ॥ १ ॥
मञ्जिष्ठया रक्तं माञ्जिष्ठम् ॥ १ ॥
हारिद्रं वैश्यस्य ॥ २ ॥
हारिद्र्या रक्तं हारिद्रम् ॥ २ ॥
हारिणमैणेयं वा कृष्णं ब्राह्मणस्य ॥ ३ ॥
एतान्युत्तरीयाणि । 'बस्ताजिन' मिति वक्ष्यमाणत्वात् इहाप्यजिन-
मिति गम्यते । (१)अजिनमुत्तरमुत्तरये' त्युपनयने यदजिनमुक्तं धार्यं
तद्धारिण ब्राह्मणस्य; हरिणो मृगस्तस्य विकारः हारिणम् । ऐणेयं वा कृष्णम् ।
एणी मृगी तस्या विकार ऐणेयम् । (२)एण्या ढञ् । द्विविधा एण्यः
कृष्णाश्च गौराश्च । अतो विशेष्यते-कृष्णमैणेयमिति ॥ ३ ॥
अस्मिन् पक्षे विशेषमाह—
कृष्णं चेदनुपस्तीर्णासनशायी स्यात् ॥ ४ ॥
कृष्णं चेद्बिभृयात् न हारिणं ततस्तस्मिन्नुपस्तीर्णे नासीत, न च
शयीत । अयं तावदर्थ । शब्दनिर्वाह (३)'स्त्वधासनशायी'त्यत्र कृतः ॥४॥
रौरवं राजन्यस्य ॥ ५ ॥
रुरुर्बिन्दुमान्मृगः ॥ ५ ॥
बस्ताजिनं वैश्यस्य ॥ ६ ॥
बस्तश्छागः ॥ ६ ॥
१. आपगृ० ११ ११. २. पा सू. ४. ३. ५९ ३ आप० गृ० १. २. २१.
आप० ध० ३

१८ आपस्तम्बधर्मसूत्रे [(प्र.१.) क.३.
आविकं सार्ववर्णिकम् ॥ ७ ॥
अविरूर्णायुः । स एवाऽऽविकः । तस्य चर्माऽऽविक, तत्सर्वेषामेव
वर्णानाम् । अस्य हारिणादिभिर्विकल्पः ॥ ७ ॥
कम्बलश्च ॥ ८ ॥
अयमप्याविक एव । प्रावरणमेव सर्वेषाम् ॥ ८॥
‘काषायं चैके वस्त्रमुपदिशन्ती’ त्यारभ्य वासांस्यजिनानि च
विहितानि । तत्र कामवशेन विशेषमाह—
ब्रह्मवृद्धिमिच्छन्नजिनान्येव वसीत, क्षत्रवृद्धिमि-
च्छन् वस्त्राण्येव, उभयवृद्धिमिच्छन्नुभय-
मिति हि(१) ब्राह्मणम् ॥ ९ ॥
ब्रह्मवृद्धिः ब्राह्मणवृद्धिः क्षत्रवृद्धिः क्षत्रियवृद्धिः ॥ ९ ॥
अथ स्वपक्षमाह—
अजिनं त्वेवोत्तरं धारयेत् ॥ १० ॥
उत्तरमुत्तरीयम् । तदजिनमेव धारयेत् ॥ १० ॥
(२)अनृत्तदर्शी ॥ ११ ॥
नृत्तं न पश्येत् ॥ ११ ॥
· सभाः समाजांश्चाऽगन्ता ॥ १२ ॥
द्यूतादिस्थानं सभा । उत्सवादिषु समवायः समाजः । तास्सभस्समा
जाश्च अगन्ता ताच्छील्येन न गच्छेत् । यदृच्छया गमने न दोषः । १२॥
· अजनवादशीलः ॥ १३ ॥
जनवादः परिवादः लोकवार्ता वा, तच्छीलो न स्यात् ॥ १३ ॥
रहश्शीलः ॥ १४ ॥
१ अत्र गोपथब्राह्मणस्य प्रथमप्रपाठकस्य द्वितीया कण्डिका द्रष्टव्या ।
२. इमे नियमा गोपथब्राह्मणे विहिताः “नोपरिशायी स्यान्न गायनो न नर्तनो न स
रणो न निष्ठीवेत् यदुपरिशायी भवत्यभीक्ष्ण निवासा जायन्ते, यद्गायनो भवत्यभीक्ष्णश
आक्रन्दान् धावन्ते, यन्नर्तनो भवत्यभीक्ष्णश प्रेतान्निर्हरन्ते, यत्सरणो भवत्यभीक्ष्णशः
प्रजास्साविशन्ते, यन्निष्ठीवति मध्य एव तदात्मनो निष्ठीवति” इति । गो ब्रा. १. २. ७,

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १९
सति सम्भवे रहःशीलः स्यात् ॥ १४ ॥
गुरोरुदाचारेष्वकर्ता स्वैरिकर्माणि ॥ १५ ॥
येषु प्रदेशेषु गुरुरुदाचरति पौनःपुन्येन चरति तेषु स्वैरिकर्माणि
मैत्रप्रसाधनादीनि न कुर्यात् ॥ १५ ॥
स्त्रीभिर्यावदर्थसम्भाषी ॥ १६ ॥
स्त्रीभिस्सह(१)यावत्प्रयोजनं तावदेव सम्भाषेत । न प्रसक्तानुप्र-
सक्तमतिचिरम् । (२) ‘बलवानिन्द्रियग्रामो विद्वांसमपि कर्षती’ति ।
अतिबालाभिरतिवृद्धाभिश्च न दोषः ॥ १६ ॥
मृदुः ॥ १७ ॥
क्षमावान् । १७ ॥
शान्तः ॥ १८ ॥
इन्द्रियाणामसद्विषये प्रवृत्त्यभावः शमः तद्वान् शान्तः ॥ १८ ॥
दान्तः ॥ १९ ॥
विहितेषु कर्मस्वग्लानिर्दमः । तद्वान् दान्तः ॥ १९ ॥
ह्रीमान् ॥ २० ॥
ह्रीर्लज्जा तद्वान् ॥ २० ॥
दृढधृतिः ॥ २१ ॥
लब्धे नष्टे मृते वा धृतावेवावस्थितः स्यात् न हृष्येत् न वाविषीदेत्॥
अग्लॉस्नुः ॥ २२ ॥
उत्साहसम्पन्नः । (३)ग्लाजिस्थश्च गस्नुः” । अत्रानुस्वारः छान्दसोऽ-
पपाठो वा ॥ २२ ॥
अक्रोधनः ॥ २३ ॥
न कस्मैचिदपि कुप्येत् ॥ २३ ॥
अनसूयुः ॥ २४ ॥
पराभ्युदयानुलन्तापः असूया । तच्छीलो न स्यात् ॥ २४ ॥
१. यावत्प्रयोजनमेव २ मनु. स्मृ. २. २१५. ३. पा. सू. ३. २. १३९.

सर्वं लाभमाहरन् गुरवे सायं प्रातरमन्त्रेण भिक्षाचर्यं
चरेद्भिक्षमाणोऽन्यत्राऽपपात्रेभ्योऽभिशस्ताच्च ॥ २५॥
अपपात्रा प्रतिलोमजा रजकादयः। अपगतानि हि तेषां पात्राणि
पाकाद्यर्थानि चतुर्भिर्वणैस्सह। अभिशस्तान् वक्ष्यति 'अथ पतनीयानी'
त्यादिना। तानुभयान् वर्जयित्वा अन्यत्र भिक्षेत । तत्र भिक्षमाणस्सर्वं
लाभ यच्च यावच्च लब्धं गोहिरण्यादि तत्सर्वं(१)ममायया गुरवे आह-
: रेत् । एवमहरहः कुर्वन् सायं प्रातरमन्त्रेण न हस्तादिना भिक्षाचर्यं भिक्षा-
: चरणं चरेत् कुर्यात् । 'सायं प्रात' रिति वचनान्न सायं गृहीतेन प्रातरा
: शः, नापि प्रातर्गृहीतेन सायमाश. ॥ २५ ॥
: अथ भिक्षाप्रत्याख्यानं निन्दितुं ब्राह्मणमाकृष्यते-
: स्त्रीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारीष्टं
: दत्तं हुतं प्रजां पशून् ब्रह्मवर्चसमन्नाद्यं वृङ्क्ते । तस्मादु ह वै
: ब्रह्मचारिसङ्घं चरन्तं न प्रत्याचक्षीतापि हैष्वेवंविध
: एवंव्रतः स्यादिति हि(२) ब्राह्मणम् ॥ २६ ॥
: व्याख्यातः समाहितः। समाहितो ब्रह्मचारी याभिः स्त्रीभिः भिक्षमाणः
: प्रत्याख्यायते तासां प्रत्याचक्षाणाना स्त्रीणामिष्टं यागैरार्जितं धर्मं, दत्तं दानेना
: र्जितं हुतं दर्विहोमैश्च गार्हस्थ्यार्जित सर्वमेव धर्मं वृङ्क्ते आच्छिनत्ति ;
: यस्मादेवं तस्मात् ब्रह्मचारिसङ्घ चरन्त न प्रत्याचक्षीत । उ ह वा इति निपाता
: वाक्यालङ्कारार्थाः । अपिशब्दौ कदाचिदित्येतमर्थं द्योतयतः । एषु
: सङ्घीभूतेषु ब्रह्मचारिषु कदाचिदेवंविध समाहित एवव्रतः 'अथ ब्रह्म
: चर्याविधि' रित्यारभ्य यान्युक्तानि तद्वान् ब्रह्मचारी स्यात् । (३)सम्भा-
: वने लिङ् । सम्भवेत् । तस्मान्न प्रत्याचक्षीतेत्येवं ब्राह्मण भवतीति ॥२६॥
: नानुमानेन भैक्षमुच्छिष्टं दृष्टश्रुताभ्यां तु ॥ २७ ॥
: १. अमाययेति. नास्ति क. पु. सर्वमादाय इति ग. पु.
: २. "ते देवा अब्रुवन् ब्राह्मणो वा अयं ब्रह्मचर्यं चारेष्यति ब्रूतास्मै भिक्षा इति गृह-
: पतिर्ब्रूत बहुचारी गृहपत्नया इति किमस्या वृञ्जीताददत्या इति, इष्टापूर्तँसुकृतद्रविणमवरु-
: न्ध्यादिति, तस्मात् ब्रह्मचारिणेऽहरहर्भिक्षां गृहिणीमार्थयुरिष्टापूर्तसुकृतद्रविणमवरुन्ध्या
: दिति" इति गोपथब्राह्मणम् । (गो. ब्रा. १. २, ६)
: ३. सम्भावनाया लिङ्. इति. ख. पु.

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । २१
भिक्षाणां समूहो भैक्षम् । न तल्लिङ्गाभासेनानोच्छिष्टं मन्तव्यम् । किं
तु दृष्टश्रुताभ्यामेव । दृष्टमात्मनः प्रत्यक्षम् । श्रुतमाप्तोपदेशः । ताभ्यामेव
तदुच्छिष्टमवगन्तव्यम् । अयमंशः प्राप्तानुवादोऽपूर्वमंशं विधातुम् ।
यथा(१)'नानुवषट्करोति, अपि वोपांश्वनुवषट्कुर्यात्' इति ॥ २७ ॥
(२)भवत्पूर्वया ब्राह्मणो भिक्षेत ॥ २८ ॥
ब्राह्मणो ब्रह्मचारी भवत्पूर्वया वाचा भिक्षेत भिक्षां याचेत—‘भवति भि-
क्षां देही’ ति ॥ २८ ॥
भवन्मध्यया राजन्यः ॥ २९ ॥
‘भिक्षां भवति देही’ति राजन्यो भिक्षेत ॥ २९ ॥
भवदन्त्यया वैश्यः ॥ ३० ॥
‘भिक्षां देहि भवती’ति ॥ ३० ॥
‘सर्वं लाभमाहरन् गुरव’ इत्युक्तम् । अथाऽऽहृतं किं कर्तव्यमित्यत आह-
तत्समाहृत्योपनिधायाऽऽचार्याय प्रब्रूयात् ॥३१॥
तत् भैक्षं समाहृत्य समीपे निधायाचार्याय प्रब्रूयात्-इदमित्थमाहृतमिति॥३१॥
तेन प्रदिष्टं भुञ्जीत ॥ ३२ ॥
तेन ह्याचार्येण प्रदिष्टं सौम्य त्वमेव भुङ्क्ष्वेत्युक्तं भुञ्जीत ॥ ३२ ॥
विप्रवासे गुरोराचार्यकुलाय ॥ ३३ ॥
यदि गुरुर्विप्रोषितोऽसन्निहितः स्यात् तत् आचार्यकुलायाऽऽचार्यस्य
यत्कुलं भार्यापुत्रादि तस्मै ब्रूयात् । तेन प्रदिष्टं भुञ्जीत ॥ ३३ ॥
तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ॥ ३४ ॥
तैस्स्वकुल्यैस्सह गुरोः विप्रवासे अन्येभ्योऽपि “(३)श्रोत्रियेभ्य. प्रब्रूयात् ।
तैः प्रदिष्टं भुञ्जीतेति विपरिणामेनान्वयः । गौतमोऽप्याह(४) “असन्निधौ
तद्भार्यापुत्रसब्रह्मचारिभ्यः’ इति ॥ ३४ ॥
नाऽऽत्मप्रयोजनञ्चरेत् ॥ ३५ ॥
१. आप. श्रौ. १३. १४. ९, १० सोमयागे पत्नीवतग्रहे प्राप्तस्याप्यनुवषट्कार-
निषेधस्य उपांश्वनुवषट्कारविधानार्थं नानुवषट्करोतीत्यनुवादः ।
२. इतः सूत्रत्रयमेकीकृतं ग. पुस्तके ।
३ श्रोत्रियपदार्थः आप. ध. २. ४. ६ सूत्रे द्रष्टव्य. । ४. गौ. ध. २. ४०.

२२ आपस्तम्बधर्मसूत्रे • [ (प. १.) कं. ३.
आत्मा प्रयोजनं प्रयोजकः यस्य स आत्मप्रयोजन । एवंभूतो भिक्षां
न चरेत् आत्मार्थे न चरेदित्यर्थः । अस्य प्रयोजनं यदा श्रोत्रिया अपि न
लभ्यन्ते तदा(१)'प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीते'ति वक्ष्यमाणमप्रोषि-
तेऽपि यथा स्यादिति ॥ ३५ ॥
भुक्त्वा स्वयममत्रं प्रक्षालयीत ॥ ३६ ॥
अमत्रं भोजनपात्रम्, भुक्त्वेति सन्निधानात् । तत्स्वयमेव प्रक्षालयीत
प्रक्षालयेत् । भिक्षापात्रस्य त्वन्येन प्रक्षालने न दोषः । उभयोरपि पात्रयो
र्ग्रहणमित्यन्ये ॥ ३६ ॥
न चोच्छिष्टं कुर्यात् ॥ ३७ ॥
यावच्छक्नोति भोक्तु तावदेव भोजनपात्रे कृत्वा भुञ्जीत ॥ ३७ ॥
अशक्तौ भूमौ निखनेत् ॥३८॥
भोजने प्रवृत्तो यदि तावद्भोक्तुं न शक्नुयात् तदा तदन्नं भूमौ
निखनेत् ॥ ३८ ॥
अप्सु वा प्रवेशयेत् ॥ ३९ ॥
अप्सु प्रक्षिपेत् ॥ ३९ ॥
आर्याय वा पर्यवदध्यात् ॥ ४० ॥
आर्यस्त्रैवर्णिकः तस्मै अनुपनीताय पर्यवदध्यात् सर्वमेकस्मिन्पात्रेऽव-
धाय तत्समीपे भूमौ स्थापयेत् ॥ ४० ॥
अन्तर्धिने वा शूद्राय ॥ ४१ ॥
अन्तर्द्धानमन्तर्धिः सोऽस्यास्तीति । व्रीह्यादित्वादिनिः । अन्तर्धी दा-
सः । अन्तर्हितं हि तस्य शूद्रत्वम्, आशौचेषु स्वामितुल्यत्वात् । प्रक-
रणादाचार्यस्येति गम्यते । आचार्यदासाय वा शूद्राय पर्यवदध्यात्४१॥
प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीत ॥ ४२ ॥
यदि शिष्य आचार्यार्थमात्मार्थं वा प्रोषितः स्यात् तदा भैक्षात् कि
ञ्चिदादायग्नौ कृत्वा प्रक्षिप्य शेष भुञ्जीत श्रोत्रियाणां सद्भावे असद्भावे
च । 'अन्यभ्योऽपि श्रोत्रियेभ्य'(२) इत्येतन्न भवति । यदि स्यात्तत्रैवायं
ब्रूया 'तदभावेऽग्नौ कृत्वा भुञ्जीते' ति । यद्यपि तत्राचार्यस्य प्रवासः
१. आप. ध. १. ३. ४२ २ इत्येतत्तत्र न भवति. इति ख. पु.

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । २३
प्रकृतः, तथापि न्यायसाम्याच्छिष्यस्यापि विप्रवासे भविष्यति ॥ ४२ ॥
अथ ब्रह्मचारिणो यज्ञं विधातु हविरादीनि सम्पादयति—
भैक्षं हविषा संस्तुतं तत्राऽऽचार्यो देवतार्थे ॥ ४३ ॥
भैक्षं हविष्येन सस्तुतं कीर्तितम् । तत्र तस्मिन् हविषि आचार्यो देवतार्थे
देवताकार्ये तत्प्रीत्यर्थत्वात्तस्य ॥ ४३ ॥
आहवनीयार्थे च ॥ ४४ ॥
तस्य जाठराग्नौ हूयमानत्वात् ॥ ४४ ॥
तं भोजयित्वा ॥ ४५ ॥
इति प्रथमप्रश्ने तृतीया कण्डिका ।
यदुच्छिष्टं प्राश्नाति ॥ १ ॥
अनुवादेषु सर्वत्र विधिः कल्प्यते । तं भोजयेत् । भोजयित्वा
तस्योच्छिष्टं प्राश्नीयात् प्राश्नाति । शकारोऽपाठश्छन्दसो वा, 'शादि'ति
श्चुत्वप्रतिषेधात् ॥ ४५ ॥ १ ॥
हविरुच्छिष्टमेव तत् ॥ २ ॥
इडाभक्षणादिस्थानीयमित्यर्थः ॥ २ ॥
यदन्यानि द्रव्याणि यथालाभमुपहरति
दक्षिणा एव ताः ॥ ३ ॥
यदन्यानि द्रव्याणि गवादीनि भिक्षाचरणे लब्धानि समिदादीनि च
स्वयमाहृतानि यथालाभमुपहरति दक्षिणा एव ताः। दक्षिणासामानाधिकरण्या-
त्ता इत्युक्तम् ॥ ३ ॥
स एष ब्रह्मचारिणो यज्ञो नित्यप्रततः ॥ ४ ॥
स एष एवंभूतो यज्ञः ब्रह्मचारिणो नित्यं प्रतायते । एवं कुर्वता ब्रह्मचा
रिणा यज्ञ एव नित्यं क्रियत इत्यर्थः ॥ ४ ॥
न चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यात् ॥ ५ ॥
अस्मै शिष्याय आचार्यः श्रुतिविप्रतिषिद्ध शास्त्रविप्रतिषिद्धमुच्छिष्टं न
दद्यात् ॥ ५ ॥

२४ आपस्तम्बधर्मसूत्रे [ (प्र.१) कं ४.
किं पुनस्तत्-
यथा क्षारलवणमधुमांसानीति ॥ ६ ॥
यथेतिवचना'च्छ्रुतिविप्रतिषिद्ध'मिति लक्षणतः प्रतिषेधाच्च क्षारा-
दिग्रहणमेवंविधस्योपलक्षणम् ॥ ६ ॥
एतेनान्ये नियमा व्याख्याताः ॥ ७ ॥
अभ्यङ्गशेषो गन्धशेषो माल्यशेष इत्यादयो ब्रह्मचारिणः प्रतिषि-
द्धा आचार्येण न देया इत्युक्तं भवति ॥ ७ ॥
केचित्तु श्रुतिविप्रतिषिद्धमाचार्यशेषमुपयुञ्जाना दृश्यन्ते पूर्वः पूर्व
आचारः प्रमाणमिति वदन्तः । तान्निराकरोति-
श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ॥ ८ ॥
अनुमानाय प्रभवतीत्यानुमानिकः । आचाराद्धि श्रुतिः स्मृतिर्वाऽनु-
मीयते । तस्मादानुमानिकादाचारात्प्रत्यक्षश्रुतिर्बलीयसी । तद्विरोधे तु नानु-
मातुं शक्यते, (१) 'अनुमानमबाधितम्' इति न्यायात्। एव च ब्रुवता ब्रह्म-
चारिणः क्षारलवणादिप्रतिषेधः प्रत्यक्षब्राह्मणमूल इति दर्शितं भवति ।
यद्यपि क्षारादिप्रतिषेधश्रुतेरुच्छिष्टव्यतिरिक्तको विषयः सम्भवति तथापि
सङ्कोचोऽपि तस्या अविशेषप्रवृत्ताया आनुमानिकादाचारादयुक्तः॥ ८ ॥
ननु परस्परविरुद्धा अपि श्रुतय उपलभ्यन्ते (२) 'गृह्णाति, न गृह्णा-
ती'ति । तत्किमाचारात् सङ्कोचिका श्रुतिर्नानुमीयते ? अत आह-
दृश्यते चापि प्रवृत्तिकारणम् ॥९॥
स्यादेव यद्ययमाचारोऽगृह्यमाणकारणः स्यात् । गृह्यते तु तत्र कार-
णम् ॥ ९ ॥
किं तत् ?
प्रीतिर्ह्युपलभ्यते ॥ १० ॥
क्षारादिभोजने भुञ्जानस्य प्रीतिर्भवति । ततश्च यत्र प्रीत्युपलब्धित
१. अनुमानबाधित इति न्यायात, इति. क. पु
२. अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति. इति श्रुतिभ्यामेकस्मि-
न्नेवातिरात्रसंस्थाके ज्योतिष्टोमे षोडशिसंज्ञस्य ग्रहस्य ग्रहणाग्रहणयोः परस्परविरुद्धयोर्वि-
धानात् तयोरपि श्रुत्यो परस्परं विरोधादिति भावः । उलूखलाकार उपर्यासेचनवान्
पात्रविशेषो ग्रहः । खदिरवृक्षनिर्मितो ग्रहविशेषष्षोडशी । तस्य सोमरसेन पूरणं ग्रहणम् ।

१. प्रथम प्रश्न (पटल १-५): उपनयन व ब्रह्मचर्य विधि

ब्रह्मचारिनियमः] उज्ज्वलोपेते प्रथमः प्रश्नः। २५
प्रवृत्तिर्न तत्र शास्त्रमस्ति। तदनुवर्तमानो नरकाय राध्यतीति न्यायान्न
सङ्कोचिका श्रुतिरनुमीयते इति ॥ १० ॥
पितुर्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम् ॥ ११ ॥
(१)स्पष्टम् ॥ ११ ॥
धर्मविप्रतिपत्तावभोज्यम् ॥ १२ ॥
यदि तयोर्धर्माद्विप्रतिपत्तिरपायो भवति ततो न भोज्यम् । यद्वा
भुञ्जानस्य ब्रह्मचारिणो धर्मविप्रतिषेधो भवति मधुमांसादिमिश्रत्वेन
ततो न भोज्यमिति ॥ १२ ॥
सायं प्रातरुदकुम्भमाहरेत् ॥ १३ ॥
आचार्यस्य स्नानपानार्थम् ॥ १३ ॥
(२)सदाऽरण्यादेधानाहृत्याऽधो निदध्यात् ॥ १४ ॥
सदा प्रत्यहमरण्यात् न पित्रादिगृहात् एधान् काष्ठानि आचार्यगृहे
पाकार्थमाहरेत् आहृत्य चाऽधो निदध्यात् अधोनिधानमाचार्यपुत्रादिषु
बालेषु पतनशङ्कया। अपर आह-आत्मनस्समिदाधानार्थं(३)मेधाहिरण-
मिति । उक्त गृह्ये-(४)'एवमन्यस्मिन्नपि सदाऽरण्यादेधानाहृत्य। इति।
तदनुवादेनाधोनिधानं विधीयते दृष्टार्थमदृष्टार्थं वेति ॥ १४ ॥
नास्तमिते समिद्धारो गच्छेत् ॥ १५ ॥
अस्तमित आदित्ये समिध आहर्तुं न गच्छेत्; चोरव्याघ्रादिसम्भवात् ।
समिद्धार' इति(५)'अण् कर्मणि चे' ति तुमर्थेऽण्प्रत्ययः ॥ १५ ॥
अग्निमिध्वा परिसमूह्य समिध आदध्यात्सायं-
प्रातर्यथोपदेशम् ॥ १६ ॥
परिसमूहनं परितो मार्जनम् । विप्रकीर्णस्याग्ने(६)रेकीकरणमित्यन्ये ।
यथोपदेशं यथा गृह्य उक्तं तथा समिध आदध्यात् । गृह्ये विहितमपि स-
१. स्पष्टोऽर्थः इति० ग० पु०
२. “तस्मात् ब्रह्मचार्यहरहस्समिध आहृत्य साय प्रातरग्नि परिचरेत, नोपर्युपसादयेत,
अधः प्रतिष्ठापयेत्” ( गोप १ २. ६.) इति गोपथब्राह्मणम् ॥
३. इध्माहरणं इति क. ख. पु. ४. आप० गृ० ११. २२.
५. पा० सू० ३. ३. १२. ६. राशीकरणमित्यन्ये इति ख० ग० पु०
आप० ध० ४

२६ आपस्तम्बधर्मसूत्रे [ (प्र.१.) क.४.
मिदाधाने विधीयते सर्वचरणार्थम् । सायं प्रातरित्यादिकान्विशेषा-
न् वक्ष्यामीति च ॥ १६ ॥
सायमेवाऽग्निपूजेत्येके ॥ १७ ॥
एके आचार्यास्सायमेवाग्निपूजा कार्या, न प्रातरिति मन्यन्ते ॥ १७ ॥
समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या ॥ १८ ॥
समिदाधाने समिद्धमग्निं पाणिनेव परिसमूहेत्, न समूहन्या । समूहनी स-
म्मार्जनी दर्भनिर्मिता वेदाकृतिः, आचारात् ॥ १८ ॥
प्राक्तु याथाकामी ॥ १९ ॥
प्राक्समिदाधानात् परिसमूहने याथाकामी भवति । यथाकामस्य
भावो याथाकामी । ष्यञ्, षित्वादीकारः ॥ १९ ॥
नाऽग्न्युदकशेषेण वृथाकर्माणि कुर्वीताऽऽचामेद्वा ॥२०॥
अग्निपरिचर्यायां परिसमूहने परिषेचने च यदुपयुक्तमुदकं,
तच्छेषेण वृथाकर्माणि अदृष्टप्रयोजनरहितानि पादप्रक्षालनादीनि न कुर्वीत।
नाऽप्याचामेत् । अवृथाकर्मत्वादस्य पुनःप्रतिषेधः ॥ २० ॥
पाणिसंक्षुब्धेनोदकेनैकपाण्यावर्जितेन च
नाऽऽचामेत् ॥ २१ ॥
पाणिसंक्षुब्धं (१)पाणिना सङ्क्षोभित तेनोदकेन नाऽऽचामेत् । इदं तटाकादिषु
स्वयमाचमने । यदा पर आचामयति, तदैकेन पाणिना यदावर्जितं
तेन नाऽऽचामेत् । किं तु उभाभ्यां हस्ताभ्यां करकादि गृहीत्वा यदावर्जि-
तमुदकं, तेनैवाऽऽचामेत् । एवं च स्वयं वामहस्तावर्जितेनापि नाचामेत् ।
(अलाबुपात्रेण नालिकेरेण वैणवेन चर्ममयेन ताम्रमयेन वा पात्रेण
स्वयमाचमनमाचरन्ति शिष्टाः) ॥ २१ ॥
स्वप्नं च वर्जयेत् ॥ २२ ॥
पूर्वं 'मदिवास्वापी' (१. २ २८)त्यनेन (२)दिवास्वापः प्रतिषिद्धः ।
अनेन रात्रावपि यावदाचार्यो न स्वपिति, तावन्तं कालं स्वापः प्रतिषि-
१. कुम्भादिगतमित्यधिकं घ. पु. ( ) एतच्चिन्हान्तर्गतो भागः ख० पुस्तके नास्ति ।
२. दिवास्वापप्रतिषेधः इति, क. पु.

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । २७
ध्यते । स्वप्नकथनं वर्जयेदित्येके ॥ २२ ॥
अथाऽहरहराचार्यं गोपायेदूधर्मार्थयुक्तैः कर्मभिः ॥ २३ ॥
अथ स्वप्नस्य प्रकृतत्वात् स्वप्नानन्तरं ब्राह्मे मुहूर्ते उत्थायेत्यर्थः ।
अहरहः नित्यमाचार्यं गोपायेत् रक्षेत् । किं दण्डादि गृहीत्वा ? नेत्याह—
धर्मार्थयुक्तैः कर्मभिः । धर्मयुक्तानि कर्माणि समित्कुशपुष्पाहरणादीनि, अर्थ-
युक्तानि (१)युग्यघासाहरणादीनि ॥ २३ ॥
(२) स गुप्त्वा संविशन् ब्रूया 'द्धर्म गोपाय
माजूगुपमह'मिति ॥ २४ ॥
स(३)ब्रह्मचारी धर्मार्थयुक्तैः कर्मभिर्यावदुत्थानात् यावदस्य संवेश-
नात् एवमाचार्यं गुप्त्वा संविशन् शयनं भजन् (४)'धर्मगोपायमाजूगुपमह' मितीमं
मन्त्रं ब्रूयात् । धर्मं गोपायतीति धर्मगोपायः आचार्यः तमहमाजूगुप-
मामिमूरूपेण रक्षितवानस्मि, इदानीं तु संविशामीति मन्त्रार्थः ।
अपर आह—हे धर्म मा मां गोपाय रक्ष यस्मादहं आजूगुपमहमाचार्य-
मेतावन्तं कालमिति ॥ २४ ॥
प्रमादादाचार्यस्य बुद्धिपूर्वं वा नियमातिक्रमं रहसि .
बोधयेत् ॥ २५ ॥
प्रमादोऽनवधानम् । प्रमादात् बुद्धिपूर्वं यो आचार्यस्य वा नियमातिक्रमस्तं रहसि
बोधयेत् । इत्थमयं नियमः पूज्यपादैरतिक्रम्यते इति ॥ २५ ॥
अनिवृत्तौ स्वयं कर्माण्यारहभेत ॥ २६ ॥
यदि बोधितोऽप्याचार्यस्ततो न निवर्तते, ततः स्वयमेव तस्य कर्त-
व्यानि ब्रह्मयज्ञादीनि कर्माण्यारहभेत कुर्यात् ॥ २६ ॥
निवर्तयेद्वा ॥ २७ ॥
१. एधसां हरणादीनि इति घ. पु.
२. "स यदहरहराचार्यकुलेऽनुष्ठिते सोऽनुष्ठाय ब्रूयात्-धर्मगुप्तो मा गोपायेति
धर्मो ह्येनं गुप्तो गोपायेति" इति गोपथब्राह्मणम् ( गो. ब्रा. १. २. ४. )
३. न्यायादुत्थानान्न्यायाच्च संवेशनात् . इति क. ख. पु. अन्यायात्••••••दन्या-
ध्याच्च••••इति. ङ पु.
४. यावदुपात्त एवायं मन्त्रः ।

२८ आपस्तम्बधर्मसूत्रे [ (प.१.)कं.४.
प्रसह्य वा स्वयं निवर्तयेत् । पित्रादिभिर्वा निवर्तयेत् ॥ २७ ॥
अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न
स्वपितीति ॥ २८ ॥
यः पूर्वमाचार्यादुत्तिष्ठति प्रतिबुध्यते । जघन्यशब्दः पश्चादर्थे । जघ-
न्यश्च संविशति, तं ब्रह्मचारिणं न स्वपितीति धर्मज्ञा आहु । प्रयोजनमुप-
नयने 'मा सुषुप्था' इति संशासनस्यायमर्थः, न स्वापस्यात्यन्ताभाव
इति । अथशब्दश्च वाक्योपक्रमे ॥ २८ ॥
स य एवं प्रणिहितात्मा ब्रह्मचर्यत्रैवास्य सर्वाणि क-
र्माणि फलवन्त्यवाप्तानि भवन्ति यान्यपि गृहमेधे ॥२९॥
‘आचार्याधीनः स्या’ दित्यारभ्य यस्य नियमा उक्ताः, स ब्रह्मचारी,
एवमुक्तेन प्रकारेण, प्रणिहितात्मा प्रकर्षेण निहित आचार्यकुले स्थापित
आत्मा येन स तथोक्त. । प्रकर्षश्च(१)आत्मनस्तत्रैव शरीरन्यासः ।
वक्ष्यति (२)आचार्यकुले शरीरन्यासः ” इति । अस्यैवंविधस्य ब्रह्म-
चारिणः अत्रैव ब्रह्मचर्याश्रमे सर्वाणि फलवन्ति ज्योतिष्टोमादीनि कर्माण्य-
वाप्तानि भवन्ति । तत्फलावाप्तिरेव तदवाप्तिः । यान्यपि कर्माणि गृहमेधे
गृह्यशास्त्रे विवाहाद्यष्टकान्तानि, तान्यवाप्तानि भवन्ति । तदेवं नैष्ठिकब्र-
ह्मचारिविषयमिदं सूत्रम् ॥ २९ ॥
इत्यापस्तम्बीये धर्मसूत्रे चतुर्थी कण्डिका ॥ ४ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ(३) हरदत्तविरचितायामुज्ज्वलायां
प्रथमप्रश्ने प्रथमः पटलः ॥ १ ॥
१. आन्तात्तत्रैव शरीरन्यासः इति ख. पु. अन्ततस्तत्रैव, इति, घ. पु.
२. आप. ध. २. २१. ६. ३. हरदत्तमिश्रविरचितायां इति क० पु०