आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 26, कुल 399 में से
संदर्भ में पढ़ेंब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १५
उत्सन्नश्लाघः ॥ २७ ॥
श्लाघा शोभा सा उत्सन्ना यस्य स उत्सन्नश्लाघः ॥ एवंभूतो भवेत् ।
(१) म्रक्षणादिना मुखादिक उज्ज्वल न कुर्यात् इति ॥ २७ ॥
अङ्गानि न प्रक्षालयीत ॥ २८ ॥
(२)विना शिरसा सुखार्थमुष्णोदकादिना शरीरं न प्रक्षालयेत् ॥२८॥
प्रक्षालयीत त्वशुचिलिप्तानि(३) गुरोरसन्दशॆ ॥२९॥
यानि तु मूत्रपुरीषाद्यशुचिलिप्तान्यङ्गानि तानि कामं(४) मृद्वा-
द्भिः प्रक्षालयेत् यावद्गन्धो लेपश्चापैति । तदपि गुरोरसन्दशे(५) यत्र
स्थितं गुरुर्न पश्यति तत्र । आचार्यप्रकरणे गुरुग्रहणात् पित्रादी-
नामपि ग्रहणम् ॥ २९ ॥
(६) नाप्सु श्लाघमानः स्नायाद्यदि
स्नायाद्दण्डवत्प्लवेत् ॥ ३० ॥
स्नाने प्राप्ते न श्लाघमानः स्नायात् । किं तु दण्डवत्प्लवेदित्युक्तम् ।
स्नानीयैर्मलापकर्षणं श्लाघा; क्रीडा वा जले । अपर आह—'अङ्गानि न
प्रक्षालयीते'(सू.२८)त्यासमावर्तनान्नित्यस्नानस्य प्रतिषेधः । 'प्रक्षालयीत
त्वशुचिलिप्तानी'(सू.२९)ति नैमित्तिकस्य विधिः । 'नाप्सु श्लाघमानः
स्नाया'(सू ३०)दिति तत्रैव श्लाघाप्रतिषेध इति ॥ ३० ॥
जटिलः ॥ ३१ ॥
सर्वानैव केशान् जटां कृत्वा बिभृयात् ॥ ३१ ॥
शिखाजटो वा वापयेदितरान् ॥ ३२ ॥
अथवा शिखामेव जटां कृत्वा इतरान्केशान् वापयेत नापितेन ॥ ३२ ॥
१. मृत्कल्कादिना इति क०पु०
२. स्नानसमये आमलकादिभिर्न क्षालयेत । इति क० पु०
३ गुरोरसन्दर्शने इति क० पु० ४. मृद्वारिभि. इति ख० पु०
५ यत्र गुरुर्न पश्यति तत्र । इति ख० पु० 'यत्र लिप्तं गुरुः' इति ग, पु०
६ नाप्सु श्लाघमानस्स्नायादित्येतावदेव ख० पु० सूत्रम् । "अथाङ्गिरश्श्लाघमानो
न स्नायात् तेन ता श्लाघामवरुन्धे" ( गो. ब्रा. पू. १ २. ) इति गोपथब्राह्मणम् ॥