सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 28, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 28

ब्रह्मचारिधर्माः] उज्ज्वलोपेते प्रथमः प्रश्नः। १७
शणस्य विकारः शाणी पटी। क्षुमा अतसी तस्या विकारः क्षौमम्।
श्वेतपट्टाख्यवासोविशेष इत्यन्ये। अजिन यस्य कस्यचिन्मेध्यस्य पशोः।
त्रीण्येतानि वर्णानुपूर्व्येण वासांसि ॥ ४० ॥
काषायं चैके वस्त्रमुपदिशन्ति ॥ ४१ ॥
एके आचार्या वस्त्रं त्वधोधार्यमुपदिशन्ति । वस्त्रं कार्पासम् । तच्च काषायं
कषायेण रक्तम् । ब्राह्मणस्येत्यर्थाद्गम्यते । इतरयोर्वक्ष्यमाणत्वात् ॥४१॥
इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने द्वितीया कण्डिका ॥ २ ॥
माञ्जिष्ठं राजन्यस्य ॥ १ ॥
मञ्जिष्ठया रक्तं माञ्जिष्ठम् ॥ १ ॥
हारिद्रं वैश्यस्य ॥ २ ॥
हारिद्र्या रक्तं हारिद्रम् ॥ २ ॥
हारिणमैणेयं वा कृष्णं ब्राह्मणस्य ॥ ३ ॥
एतान्युत्तरीयाणि । 'बस्ताजिन' मिति वक्ष्यमाणत्वात् इहाप्यजिन-
मिति गम्यते । (१)अजिनमुत्तरमुत्तरये' त्युपनयने यदजिनमुक्तं धार्यं
तद्धारिण ब्राह्मणस्य; हरिणो मृगस्तस्य विकारः हारिणम् । ऐणेयं वा कृष्णम् ।
एणी मृगी तस्या विकार ऐणेयम् । (२)एण्या ढञ् । द्विविधा एण्यः
कृष्णाश्च गौराश्च । अतो विशेष्यते-कृष्णमैणेयमिति ॥ ३ ॥
अस्मिन् पक्षे विशेषमाह—
कृष्णं चेदनुपस्तीर्णासनशायी स्यात् ॥ ४ ॥
कृष्णं चेद्बिभृयात् न हारिणं ततस्तस्मिन्नुपस्तीर्णे नासीत, न च
शयीत । अयं तावदर्थ । शब्दनिर्वाह (३)'स्त्वधासनशायी'त्यत्र कृतः ॥४॥
रौरवं राजन्यस्य ॥ ५ ॥
रुरुर्बिन्दुमान्मृगः ॥ ५ ॥
बस्ताजिनं वैश्यस्य ॥ ६ ॥
बस्तश्छागः ॥ ६ ॥
१. आपगृ० ११ ११. २. पा सू. ४. ३. ५९ ३ आप० गृ० १. २. २१.
आप० ध० ३