सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 29, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 29

१८ आपस्तम्बधर्मसूत्रे [(प्र.१.) क.३.
आविकं सार्ववर्णिकम् ॥ ७ ॥
अविरूर्णायुः । स एवाऽऽविकः । तस्य चर्माऽऽविक, तत्सर्वेषामेव
वर्णानाम् । अस्य हारिणादिभिर्विकल्पः ॥ ७ ॥
कम्बलश्च ॥ ८ ॥
अयमप्याविक एव । प्रावरणमेव सर्वेषाम् ॥ ८॥
‘काषायं चैके वस्त्रमुपदिशन्ती’ त्यारभ्य वासांस्यजिनानि च
विहितानि । तत्र कामवशेन विशेषमाह—
ब्रह्मवृद्धिमिच्छन्नजिनान्येव वसीत, क्षत्रवृद्धिमि-
च्छन् वस्त्राण्येव, उभयवृद्धिमिच्छन्नुभय-
मिति हि(१) ब्राह्मणम् ॥ ९ ॥
ब्रह्मवृद्धिः ब्राह्मणवृद्धिः क्षत्रवृद्धिः क्षत्रियवृद्धिः ॥ ९ ॥
अथ स्वपक्षमाह—
अजिनं त्वेवोत्तरं धारयेत् ॥ १० ॥
उत्तरमुत्तरीयम् । तदजिनमेव धारयेत् ॥ १० ॥
(२)अनृत्तदर्शी ॥ ११ ॥
नृत्तं न पश्येत् ॥ ११ ॥
· सभाः समाजांश्चाऽगन्ता ॥ १२ ॥
द्यूतादिस्थानं सभा । उत्सवादिषु समवायः समाजः । तास्सभस्समा
जाश्च अगन्ता ताच्छील्येन न गच्छेत् । यदृच्छया गमने न दोषः । १२॥
· अजनवादशीलः ॥ १३ ॥
जनवादः परिवादः लोकवार्ता वा, तच्छीलो न स्यात् ॥ १३ ॥
रहश्शीलः ॥ १४ ॥
१ अत्र गोपथब्राह्मणस्य प्रथमप्रपाठकस्य द्वितीया कण्डिका द्रष्टव्या ।
२. इमे नियमा गोपथब्राह्मणे विहिताः “नोपरिशायी स्यान्न गायनो न नर्तनो न स
रणो न निष्ठीवेत् यदुपरिशायी भवत्यभीक्ष्ण निवासा जायन्ते, यद्गायनो भवत्यभीक्ष्णश
आक्रन्दान् धावन्ते, यन्नर्तनो भवत्यभीक्ष्णश प्रेतान्निर्हरन्ते, यत्सरणो भवत्यभीक्ष्णशः
प्रजास्साविशन्ते, यन्निष्ठीवति मध्य एव तदात्मनो निष्ठीवति” इति । गो ब्रा. १. २. ७,