सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 37, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 37

२६ आपस्तम्बधर्मसूत्रे [ (प्र.१.) क.४.
मिदाधाने विधीयते सर्वचरणार्थम् । सायं प्रातरित्यादिकान्विशेषा-
न् वक्ष्यामीति च ॥ १६ ॥
सायमेवाऽग्निपूजेत्येके ॥ १७ ॥
एके आचार्यास्सायमेवाग्निपूजा कार्या, न प्रातरिति मन्यन्ते ॥ १७ ॥
समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या ॥ १८ ॥
समिदाधाने समिद्धमग्निं पाणिनेव परिसमूहेत्, न समूहन्या । समूहनी स-
म्मार्जनी दर्भनिर्मिता वेदाकृतिः, आचारात् ॥ १८ ॥
प्राक्तु याथाकामी ॥ १९ ॥
प्राक्समिदाधानात् परिसमूहने याथाकामी भवति । यथाकामस्य
भावो याथाकामी । ष्यञ्, षित्वादीकारः ॥ १९ ॥
नाऽग्न्युदकशेषेण वृथाकर्माणि कुर्वीताऽऽचामेद्वा ॥२०॥
अग्निपरिचर्यायां परिसमूहने परिषेचने च यदुपयुक्तमुदकं,
तच्छेषेण वृथाकर्माणि अदृष्टप्रयोजनरहितानि पादप्रक्षालनादीनि न कुर्वीत।
नाऽप्याचामेत् । अवृथाकर्मत्वादस्य पुनःप्रतिषेधः ॥ २० ॥
पाणिसंक्षुब्धेनोदकेनैकपाण्यावर्जितेन च
नाऽऽचामेत् ॥ २१ ॥
पाणिसंक्षुब्धं (१)पाणिना सङ्क्षोभित तेनोदकेन नाऽऽचामेत् । इदं तटाकादिषु
स्वयमाचमने । यदा पर आचामयति, तदैकेन पाणिना यदावर्जितं
तेन नाऽऽचामेत् । किं तु उभाभ्यां हस्ताभ्यां करकादि गृहीत्वा यदावर्जि-
तमुदकं, तेनैवाऽऽचामेत् । एवं च स्वयं वामहस्तावर्जितेनापि नाचामेत् ।
(अलाबुपात्रेण नालिकेरेण वैणवेन चर्ममयेन ताम्रमयेन वा पात्रेण
स्वयमाचमनमाचरन्ति शिष्टाः) ॥ २१ ॥
स्वप्नं च वर्जयेत् ॥ २२ ॥
पूर्वं 'मदिवास्वापी' (१. २ २८)त्यनेन (२)दिवास्वापः प्रतिषिद्धः ।
अनेन रात्रावपि यावदाचार्यो न स्वपिति, तावन्तं कालं स्वापः प्रतिषि-
१. कुम्भादिगतमित्यधिकं घ. पु. ( ) एतच्चिन्हान्तर्गतो भागः ख० पुस्तके नास्ति ।
२. दिवास्वापप्रतिषेधः इति, क. पु.