सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 34, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 34

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । २३
प्रकृतः, तथापि न्यायसाम्याच्छिष्यस्यापि विप्रवासे भविष्यति ॥ ४२ ॥
अथ ब्रह्मचारिणो यज्ञं विधातु हविरादीनि सम्पादयति—
भैक्षं हविषा संस्तुतं तत्राऽऽचार्यो देवतार्थे ॥ ४३ ॥
भैक्षं हविष्येन सस्तुतं कीर्तितम् । तत्र तस्मिन् हविषि आचार्यो देवतार्थे
देवताकार्ये तत्प्रीत्यर्थत्वात्तस्य ॥ ४३ ॥
आहवनीयार्थे च ॥ ४४ ॥
तस्य जाठराग्नौ हूयमानत्वात् ॥ ४४ ॥
तं भोजयित्वा ॥ ४५ ॥
इति प्रथमप्रश्ने तृतीया कण्डिका ।
यदुच्छिष्टं प्राश्नाति ॥ १ ॥
अनुवादेषु सर्वत्र विधिः कल्प्यते । तं भोजयेत् । भोजयित्वा
तस्योच्छिष्टं प्राश्नीयात् प्राश्नाति । शकारोऽपाठश्छन्दसो वा, 'शादि'ति
श्चुत्वप्रतिषेधात् ॥ ४५ ॥ १ ॥
हविरुच्छिष्टमेव तत् ॥ २ ॥
इडाभक्षणादिस्थानीयमित्यर्थः ॥ २ ॥
यदन्यानि द्रव्याणि यथालाभमुपहरति
दक्षिणा एव ताः ॥ ३ ॥
यदन्यानि द्रव्याणि गवादीनि भिक्षाचरणे लब्धानि समिदादीनि च
स्वयमाहृतानि यथालाभमुपहरति दक्षिणा एव ताः। दक्षिणासामानाधिकरण्या-
त्ता इत्युक्तम् ॥ ३ ॥
स एष ब्रह्मचारिणो यज्ञो नित्यप्रततः ॥ ४ ॥
स एष एवंभूतो यज्ञः ब्रह्मचारिणो नित्यं प्रतायते । एवं कुर्वता ब्रह्मचा
रिणा यज्ञ एव नित्यं क्रियत इत्यर्थः ॥ ४ ॥
न चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यात् ॥ ५ ॥
अस्मै शिष्याय आचार्यः श्रुतिविप्रतिषिद्ध शास्त्रविप्रतिषिद्धमुच्छिष्टं न
दद्यात् ॥ ५ ॥