सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 36, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 36

ब्रह्मचारिनियमः] उज्ज्वलोपेते प्रथमः प्रश्नः। २५
प्रवृत्तिर्न तत्र शास्त्रमस्ति। तदनुवर्तमानो नरकाय राध्यतीति न्यायान्न
सङ्कोचिका श्रुतिरनुमीयते इति ॥ १० ॥
पितुर्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम् ॥ ११ ॥
(१)स्पष्टम् ॥ ११ ॥
धर्मविप्रतिपत्तावभोज्यम् ॥ १२ ॥
यदि तयोर्धर्माद्विप्रतिपत्तिरपायो भवति ततो न भोज्यम् । यद्वा
भुञ्जानस्य ब्रह्मचारिणो धर्मविप्रतिषेधो भवति मधुमांसादिमिश्रत्वेन
ततो न भोज्यमिति ॥ १२ ॥
सायं प्रातरुदकुम्भमाहरेत् ॥ १३ ॥
आचार्यस्य स्नानपानार्थम् ॥ १३ ॥
(२)सदाऽरण्यादेधानाहृत्याऽधो निदध्यात् ॥ १४ ॥
सदा प्रत्यहमरण्यात् न पित्रादिगृहात् एधान् काष्ठानि आचार्यगृहे
पाकार्थमाहरेत् आहृत्य चाऽधो निदध्यात् अधोनिधानमाचार्यपुत्रादिषु
बालेषु पतनशङ्कया। अपर आह-आत्मनस्समिदाधानार्थं(३)मेधाहिरण-
मिति । उक्त गृह्ये-(४)'एवमन्यस्मिन्नपि सदाऽरण्यादेधानाहृत्य। इति।
तदनुवादेनाधोनिधानं विधीयते दृष्टार्थमदृष्टार्थं वेति ॥ १४ ॥
नास्तमिते समिद्धारो गच्छेत् ॥ १५ ॥
अस्तमित आदित्ये समिध आहर्तुं न गच्छेत्; चोरव्याघ्रादिसम्भवात् ।
समिद्धार' इति(५)'अण् कर्मणि चे' ति तुमर्थेऽण्प्रत्ययः ॥ १५ ॥
अग्निमिध्वा परिसमूह्य समिध आदध्यात्सायं-
प्रातर्यथोपदेशम् ॥ १६ ॥
परिसमूहनं परितो मार्जनम् । विप्रकीर्णस्याग्ने(६)रेकीकरणमित्यन्ये ।
यथोपदेशं यथा गृह्य उक्तं तथा समिध आदध्यात् । गृह्ये विहितमपि स-
१. स्पष्टोऽर्थः इति० ग० पु०
२. “तस्मात् ब्रह्मचार्यहरहस्समिध आहृत्य साय प्रातरग्नि परिचरेत, नोपर्युपसादयेत,
अधः प्रतिष्ठापयेत्” ( गोप १ २. ६.) इति गोपथब्राह्मणम् ॥
३. इध्माहरणं इति क. ख. पु. ४. आप० गृ० ११. २२.
५. पा० सू० ३. ३. १२. ६. राशीकरणमित्यन्ये इति ख० ग० पु०
आप० ध० ४